________________ هم می लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० रणत्वात्' इत्यादि; ध्वनावप्यस्य समानत्वात् / तथाहि-अन्यदापि यद् ध्वनेरुच्चारणं तत्तस्याभिव्यञ्जकम् उच्चारणत्वात् इदानीं तदुच्चारणवत् / / एतेन "तावत्कालं स्थिरश्चनं कः पश्चान्नाशयिष्यति।" [मी० श्लो० शब्दनि० श्लो० 366] इत्येतदपि प्रत्युक्तम् ; ध्वनेरपि प्रत्यभिज्ञानात् पूर्वोत्तरकालद्वयावस्थायिनः प्रसिद्धस्य 5 पश्चात् केनचिन्नाशानुपपत्तेः / यदप्यभिहितम्-'विवादाध्यासितः कालो गादिसम्बद्धः कालत्वात्' इत्यादि; तदप्यभिधानमात्रम् ; गादेः उपलब्धिलक्षणप्राप्तस्य कालान्तरेऽनुपलम्भतोऽभावसिद्धेः, तत्र तत्सद्भावावेदकानुमानस्य बाधितपक्षतया कालात्ययापदिष्टहेतुतया च अगमकत्वात् / विद्युदादेरपि चैवं नित्यत्वं स्यात् ; तथाहि-विवादाध्यासित: कालो विद्युदादिसम्बद्धः कालत्वात् विद्युदादिसम्बद्धकालवत् / प्रतीतिविरोधोऽन्यंत्राप्यविशिष्टः / अत एव 'नित्यः शब्दः श्रावणत्वात्' इत्याद्यप्ययुक्तम् ; उदात्तादिभिर्ध्वनिधर्मैः अनैकान्तिकत्वाच्च, तेहि श्रावणत्वेऽपि अनित्या भवद्भिः प्रतिज्ञाताः। "तेषामश्रावणत्वे श्रोत्रेण शब्दगतधर्मतया उपलम्भो न स्यात् , यदश्रावणस्वरूपं न तस्य शब्दधर्मतया श्रोत्रेणोपलम्भः यथा नीलत्वादेः, अश्रावणस्वरूपाश्चै उदात्तादयो ध्वनिधर्मा इति / तथा वीणादिशब्दैश्च 15 अनैकान्तिकत्वम् ; तेषामप्यनित्यत्वेऽपि श्रावणत्वात् / यच्चान्यदुक्तम्-'देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धयः' इत्यादि; तदपि न साधीयः; गोशब्दलिपिबुद्ध्या हेतोरनैकान्तिकत्वात् , सा हि 'गौः' इत्युत्पद्यते न च सम्प्रत्युत्पन्नगोशब्दबुद्ध्येकॅविषया इति / नचैवं विषयभेदः कापि प्रसिद्ध्यति; संकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात् / तथाहि-देशकालभिन्नवस्तुबुद्धयः एकविषया नवाऽनेकविषया (1) पृ० 699 50 5 / (2) ध्वनेरभिव्यञ्जकम् / (3) उद्धृतोऽयम्-न्यायवा० ता०पू० 254 / (4) तुलना-तत्त्वसं० पृ० 955 / तत्त्वचि० पृ० 379 / (5) पृ० 699 50 9 / (6) तुलना-“गादेरुच्चारणादनन्तरं विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात्"-स्या० र० पृ० 689 / (7) कालान्तरे उच्चारणानन्तरम् / (8) शब्देऽपि / (9) पृ०.६९९ पं०११। (10) तुलना-"उदात्तादिभिर्धर्मेरनैकान्तिकत्वात् / ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृताः। तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् / वीणादिशब्दैश्चानकान्तिकत्वम्, तेषां श्रावणत्वेऽप्यनित्यत्वात्।" -स्या० र० पृ० 690 / (11) चशब्देन प्रतीतिविरोधः समुच्चीयते / (12) उदात्तादीनाम् / (13) भवन्मते-आ० टि०। (14) पृ० 699 पं० 12 / (15) तुलना-"गोशब्दलिपिबुद्धचा हेतोरनैकान्तिकत्वात् / सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दविषया देशकालादिभिन्नत्वाद् गोशब्दलिपीनाम्।"-स्या० र० पृ० 690 / (16) अन्या हि लिपिबुद्धिः अन्या हि गोशब्दबुद्धिः-आ० टि० / (17) तुलना-"अन्यथा सर्वबद्धीनामेकालम्बनता भवेत / क्रमभावविरोधश्च शक्तकारणसन्निधेः ॥"तत्त्वसं० का० 2466 / स्या०र० पृ० 690 / 1 तदनुच्चा-ब० / 2-तयो श्रावणोप-ब०, तयोपलम्भो आ० / 3 गोरित्यु-ब०। 4-भिन्ना वस्तु-श्र० / 5 नचानेक-श्र०।