________________ प्रवचनप्र० का० 65] शब्दनित्यत्ववादः 715 न्तरमस्योपलम्भात् तदभावे चानुपलम्भात् तत्कार्यत्वमेव अभ्युपगन्तव्यम् / ननुखननाद्यनन्तरं व्योम उपलभ्यते तदभावे च नोपलभ्यते, नेच तत्तत्कौर्यम् , अतोऽनैकान्तिकत्वमस्य / उक्तञ्च'अनैकान्तिकता तावाद्धेतूनामिह कथ्यते / प्रयत्नानन्तरं दृष्टिनित्येऽपि न विरुद्धयते // " [मी० श्लो० शब्दनि० श्लो० 19] 5 "अाकाशमपि नित्यं सद् यदा भूमिजलावृतम् / व्यज्यते तदपोहेन खननोत्सेचनादिभिः // प्रयत्नानन्तरं ज्ञानं तदा तत्रापि विद्युते / तेनाऽनैकान्तिको हेतुर्यदुक्तं तत्र देर्शनम् / / अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते / शब्दोऽपि प्रत्यभिज्ञानात् श्रीगस्तीत्यवगम्यते // " [मी० श्लो० शब्दनि० श्लो० 30-33 ] इति; तदप्यसुन्दरम् ; एकस्वभावत्वस्य आकाशेऽप्यसिद्धत्वात् / 'तँद्धि तत्स्वभावं सत् स्ववि- 10 षयज्ञानजननैकस्वरूपम् , तद्विपरीतं वा स्यात् ? यदि तज्जननैकस्वरूपम् ; तदा तस्य न खननाद्यनन्तरमेव उपलब्धिः , किन्तु पूर्वमपि स्यात् / तद्विपरीतस्वरूपत्वे तु न कदाचनाप्युपलब्धिः स्याद्विशेषाभावात् / “विशेषे वा तदेकरूपताव्याघातः / प्रत्यभिज्ञानाच्छब्दे प्राक्सत्त्वसिद्धिश्च लूनपुनर्जातनखकेशादावपि सामाना। कथश्चैवं ध्वनीनामपि प्राक्सत्त्वसिद्धिर्न स्यात् ? य एव पूर्वमकारस्य व्यञ्जको ध्वनिः स एव पश्चादपि 15 इति प्रतीतेः / तथा च व्यङ्ग्यवद् व्यञ्जकस्यापि सर्वत्र सद्भावसिद्धेः तोल्वादिव्यापारवैयर्थ्यम् , सर्वत्र सर्वदा व्यङ्ग्यप्रतीतिश्च स्यात् / ... एतेनेदमपि प्रत्युक्तम्-'अन्यदापि यत् शब्दस्योच्चारणं तदस्याभिव्यञ्जकम् उच्चाभवतीत्यनुमीयते / ऊर्ध्वञ्चोच्चारणान्न श्रूयते स भूत्वा न भवति अभावान्न श्रूयते इति / कथम् ? आवरणाद्यनुपलब्धेरित्युक्तम् / तस्मादुत्पत्तितिरोभावधर्मकः शब्द इति ।"-न्यायभा० 2 / 2 / 18 / (1) ताल्वादिव्यापाररूपोच्चारणकार्यत्वम् / शब्दः अनित्यः ताल्वादिव्यापाररूप्रयत्नानन्तरीयकत्वादिति / (2) व्योम / (3) खननकार्यम् / (4) प्रयत्नानन्तरीयकत्वादित्यस्य हेतोः / (5) "तावच्छब्देनासिद्धतापि वक्ष्यत इति प्रयत्नानन्तरदर्शनादित्यस्य तावदनैकान्तिकत्वं दर्शयति-प्रयत्नेति / दर्शनं हि तत्र सत्तां गमयति न कालान्तरे निषेधति, तेन विपक्षेऽपि कालान्तरे सत्त्वसंभवात्तत्र दर्शनमनैकान्तिकमिति ।"-न्यायर०। (6) 'प्रयत्नानन्तरा दृष्टिः'-मी० श्लो०। (7) उपलब्धि:-आ० टि०। (8) व्योमज्ञानम्-आ० टि० / (9) 'दृश्यते'-मी० श्लो०। (10) "दर्शनम्-प्रयत्नानन्तरज्ञानम्"-तत्त्वसं० पं० पृ० 640 / 'दर्शनात्'-मी० श्लो०, तत्त्वसं० / (11) भूम्याद्यावृतमपि आकाशम् / (12) उच्चारणात् प्राक् / (13) उद्धृता इमे श्लोकाः-प्रमेयक० पृ० 422 / स्या० र० पृ० 689 / द्वितीयतृतीयौ-तत्त्वसं० पू० 640 / (14) तुलना-"एकरूपता चाकाशस्याप्यसिद्धा"प्रमेयक० पृ० 422 / स्या० र० पृ० 689 / (15) आकाशं नित्यैकस्वभावम् / (16) खननात् प्रागनुपलब्धिसमये स्वविषयज्ञानाऽजननस्वभावत्वे खननान्तरञ्च स्वविषयज्ञानजननात्मकत्वे / (17) आकाशस्य नित्यकरूपता न स्यादिति भावः / (18) शब्दवत् / (19) ध्वन्युत्पत्तावेव ताल्वादीनामुपयोगः ते च सर्वदा सन्तीति / 1 न च तत्का-ब० / 2-भावस्य आका-श्र०। 3 प्राच्यत्वसि-ब०।