________________ 714 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० "यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते / चक्षुषोऽनुग्रहादेवं ध्वनिः स्यात् श्रोत्रसंस्कृतेः // न च पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः / उत्पत्तावपि तुल्यत्वात् शक्तिस्तत्राप्यतीन्द्रिया // " __ [मी० श्लो० शब्दनि० श्लो० 42-43 7 इति; प्रदीपाद्यनुगृहीतचक्षुषा युगपद् घटाद्यनेकार्थग्रहणवत् ध्वन्यनुगृहीतश्रोत्रेण एकदा अनेक5 शब्दग्रहणप्रसङ्गात् / प्रयोगः-श्रोत्रम् एकेन्द्रियग्राह्याऽभिन्नदेशस्थितार्थग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति इन्द्रियत्वात् चक्षुर्वत् / तन्न श्रोत्रसंस्कारोऽप्यभिव्यक्तिर्घटते / अस्तु तर्हि उभयसंस्कारोऽभिव्यक्तिः, तत्र उक्तदोषासंभवात् / तदुक्तम्"द्वयसंस्कारपक्षे तु वृथा दोषद्वये वचः / येनान्यंतरवैकल्यात् सर्वैः सर्वो न गृह्यते // " [मी० श्लो० शब्दनि० श्लो० 86-87 / ] इति; 10 तदप्ययुक्तम् ; उक्तदोषानुषङ्गादेव; तथाहि-यदा एकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं संस्कृतं वर्णं प्रतिपद्यते तदा तर्ऋत्यसर्ववर्णानपि प्रतिपद्येत, संस्कृतश्च वर्णं सर्वत्र सर्वदा स्थित. त्वेन, अन्यथा तत्प्रतीतिरेव न स्यात् तदात्मकत्वात्तस्य / __ततो नित्यैकरूपत्वे शब्दस्य आवार्यावारकभावस्य व्यङ्ग्यव्यञ्जकभावस्य वाऽनुपपत्तेः नावरणकृता प्रागुच्चारणादस्याऽनुपलब्धिः। अतः ताल्वादिव्यापारान (1) “कीदृशं पुनर्व्वनीनामभिव्यञ्जकत्वम् ? तदर्शयति यथेति / तेजसश्चाक्षुषस्य आप्यायनानुग्रहं कुर्वन् प्रदीपो यथा चाक्षुषाणां घटादीनां व्यञ्जको भवति तथा ध्वनयोऽपि श्रोत्रसंस्कारं कुर्वन्तः शब्दस्याभिव्यञ्जका भविष्यन्तीति ।"-न्यायर० / उद्धृताविमौ-प्रमेयक० पृ० 424 / तत्त्वसं० पू० 602 / (2) श्रोत्रसंस्कृतेरनुग्रहाद् ध्वनिः शब्दस्य व्यञ्जक:-आ० टि०। (3) द्रष्टव्यम्-१०७०८ टि० 18 / (4) "श्रोत्रसंस्कारवैकल्यान्न सर्वैः पुरुषः श्रूयते, शब्दसंस्कारवैकल्याच्च न सर्वः शब्दः, समुच्चितयोयोः कारणत्वात् / प्रत्येककारणत्वे हि दोषद्वयं स्यादिति ।"-न्यायर / "संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तत्। येनान्यतरवैकल्यात् सर्वैः शब्दो न गम्यते / 'अन्यतरस्य श्रोत्रसंस्कारस्य अर्थसंस्कारस्य वा वैकल्यात् न शब्दो गम्यते / तथाहि-सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसंस्कारवैकल्यान्न शब्दग्रहणम्, अबधिरस्याप्यनभिव्यक्तेः शब्दस्याग्रहणम् / क्वचित्पाठो मृषा दोषद्वये वच इति।"-तत्त्वसं० पं० पृ० 612 / (5) 'मृषा दोषद्वये वचः'-मी० श्लो० / स्या० र०पू० 687 / प्रकृतपाठ:-तत्त्वसं० पू० 611 / प्रमेयक० पृ०४२४। (6) शब्दसंस्कारः श्रोत्रसंस्कार:-आ० टि० / (७)तुलना-"तथाहि संस्कृता श्रोत्रवर्णा यद्व्यञ्जकैः पुरा। न नष्टास्ते च्युतिप्राप्तेः सर्वैः सर्वश्रुतिस्तत:।" -तत्त्वसं० का० 2573 / “यदैकवर्ण ग्राहकत्वेन संस्कृतं श्रोत्रं संस्कृतं वर्ण प्रतिपद्यते तदा तत्रत्यसर्ववर्णान प्रतिपद्येत।"-प्रमेयक० पृ०४२५। स्था० 20 पू०६८७। (8) तदाकाशदेशे सर्वेषामपि वर्णानां व्यापितया नित्यतया च विद्यमानत्वात् / (9) यदि संस्कृतं वर्ण सर्वत्र सर्वदाऽवस्थितत्वेन न जानाति तदा। (10) नित्यव्यापिरूपत्वात / (11) तुलना-"प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च / / प्रागच्चारणान्नास्ति शब्दः / कस्मात् ? अनुपलब्धेः / सतोऽनुपलब्धिरावरणादिभ्यः / एतन्नोपपद्यते, कस्माद् ? आवरणादीनामनुपलब्धिकारणानामग्रहणात् / अनेन आवृतः शब्दो नोपलभ्यते असन्निकृष्टेन्द्रियव्यवधानादित्येवमादि अनुपलब्धिकारणं न गृह्यते इति सोऽयमनुच्चारितो नास्तीति / ' तस्मान्न व्यञ्जकाभावादग्रहणमपि त्वभावादेवेति / सोऽयमुच्चार्यमाणः श्रूयते श्रूयमाणश्चाऽभूत्वा 1 सर्वदाच स्थि-श्र12चान-ब०, श्र०।