________________ प्रवनचप्र० का 0 65 ] शब्दनित्यत्ववादः 713 अतिशयपक्षभाविदोषानुषङ्गः। नापि व्यक्तिसमवायः; अनभ्युपगमात् , अन्यथा शब्दस्य सामान्यादिरूपताप्रसङ्गः। अत एव न तहणापेक्षग्रहणता / नापि व्यञ्जकसन्निधिमात्रम् ; सर्वत्र सर्वदा सर्वप्रतिपत्तृभिः सर्वशब्दानां ग्रहणप्रसङ्गात् / आवरणविगमरूपे तु तत्संस्कारे युगपन्निखिलशब्दानामुपलब्धिः स्यात् / प्रतिनियतव्यञ्जकव्यङ्ग्यत्वादयमदोषः; इत्यपि मनोरथमात्रम् ; तेषां तद्व्यङ्ग्यत्वस्यापास्तत्वात् / ___ मा भूत्तर्हि शब्दसंस्कारोऽभिव्यक्तिः, इन्द्रियसंस्कारस्तु भविष्यति / तदुक्तम्"अापीन्द्रियसंस्कारः सोप्यधिष्ठानदेशतः / शब्दं न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि // 1 // अप्राप्तकर्णदेशत्वात् ध्वनेर्न श्रोत्रसंस्किया / अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः॥२॥" मी० श्लो० शब्दनि० श्लो० 69-71 ] इति; तदप्यविचारितरमणीयम् ; 'इन्द्रियसंस्कारपक्षेऽपि सकृत् संस्कृतस्य श्रोत्रस्य युगपन्निखिल- 10 शब्दप्रकाशकत्वप्रसङ्गात् / नहि अञ्जनादिना संस्कृतं चक्षुः सन्निहितं स्वविषयं नीलधवलादिकं कश्चित् पश्यति कश्चिन्नेति, बलौतलादिना संस्कृतं श्रोत्रं वा कांश्चेिदव गकारादिवर्णान् शृणोति कांश्चिन्नेति नियमो दृष्टः, येनात्रापि तथा कल्पना स्यात्। ततोऽयुक्तमेतत् (1) शब्दोऽपि व्यक्तिषु समवैति-आ० टि० / (2) यदि शब्द: व्यक्तिषु समवेयात् तदा। (3) सामान्यं हि व्यक्तिषु समवैति-आ० टि०। (4) आदिपदेन संयोगादयोऽनेकस्थाः पदार्था ग्राह्याः / (5) सामान्यरूपादिप्रसङ्गादेव-आ० टि०। (6) व्यक्तिग्रहणापेक्षया स्वज्ञानजनकता। (7) शब्दसंस्कारे / तुलना-'तद्रूपावरंणानाञ्च व्यक्तिस्ते विगमो यदि। अभावे करणग्रामसामर्थ्य किन्न तदभवेत॥"-प्रमाणवा० 11266 / (8) "अधिष्ठानम्-कर्णशष्कूली। तत्संस्कारद्वारेण श्रोत्रस्य संस्कारो न केवलस्य। तेनासंस्कृताधिष्ठानत्वाच्च विदरस्थान्यचित्तसूप्तमच्छितानां श्रोत्रं न शृणोति / असंस्कृता कर्णशष्कूली यस्य तत्तथोक्तम् / अधिष्ठानदेशतः इति सप्तम्यर्थे तसिः / यद्यप्यधिष्ठानसंस्कारकारिणो नादास्तद्देशेन्द्रियसंस्कारका वा, तथापि प्राप्ता एव सन्तः संस्कारभाजि पदार्थे संस्कारं कुर्वन्ति नाप्राप्ता इत्यतो न सर्वपुरुषाधिष्ठानादिसंस्कार::..."-तत्त्वसं० पं० पृ० 606 / (9) सप्तमी-आ० टि० / सप्तम्यर्थे पञ्चमीविभक्तिरित्यर्थः। (10) 'अतो न श्रोष्यति'-स्या०र०प०६८५। (11) यस्यैव कर्णदेशं ध्वनिः प्राप्तः तस्यैव श्रोत्रसंस्कार:-आ० टि० / 'अप्राप्तकर्णदेशत्वात् ध्वनिना श्रोत्रसंस्क्रिया' -स्या० र० पू० 686 / (12) 'संस्कारनियमस्थितिः'-मी० श्लो०। प्रमेयक० पृ० 424 / 'संस्कारनियमः स्थितः'-तत्त्वसं० पृ० 606 / स्या० र०पृ० 686 / (13) तुलना-"इन्द्रियस्य स्यात्संस्कारः शणयानिखिलञ्च तत् / संस्कारभेदभिन्नत्वादेकार्थनियमो यदि // अनेकशब्दसंघाते श्रुतिः कलकले कथम् ।"-प्रमाणवा० 3 / 255-56 / "तेषामपि श्रोत्रस्यावारकापनयन संस्कारः शब्दग्रहणयोग्यतोत्पत्तिर्वा ।"-तत्त्वार्थश्लो० पृ०५। "इन्द्रियसंस्कारस्योन्मीलनालोकादेः सकृदिन्द्रियसम्बन्धयोग्यसर्थोपलब्ध्यनकलसंस्कारजनकत्वं दृष्टं तद्वद्वायुरपि सकृदेव सर्वशब्दोपलब्ध्यनकलं श्रोत्रे संस्कारमादध्यात् तथा च सर्वशब्दोपलब्धिः स्यात् ।"-तत्त्वचि० शब्द०१० 405 / "नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, संस्कृते हि श्रोत्रे सर्वेषां सान्निध्यात्।"-प्रश० व्यो० पृ० 648 / (14) "बलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादीन् शृणोति कांश्चिन्नेति नियमो दृष्टः।"प्रमेयक० पृ० 424 / सन्मति० टी० पृ०३६ / स्या० 2010 686 / शास्त्रवा० टी० पृ० 377B. / ___ 1-रो भक्तिः श्र०। 2 शणोतीति नियमो आ०, ब०। 40