________________ 712 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० तिशयः, अनतिशयव्यावृत्तिः, स्वरूपपरिपोषः, व्यक्तिसमवायः, तद्ग्रहणापेक्षग्रहणता, व्यञ्जकसन्निधिमात्रम्, आवरणविगमो वा ? यदि शब्दस्य उपलब्धिः; कथमसौ ध्वनीनां गमिका शब्दश्रोत्रमात्रभावित्वात्तस्याः ? तथाप्यन्यनिमित्तकल्पने हेतूनाम नवस्थितिः / आत्मभूतः कश्चिदतिशयः अनतिशयव्यावृत्तिर्वा; इत्यत्रापि अतिशय:5 दृश्यस्वभाव एव, अनतिशयव्यावृत्तिश्च अदृश्यस्वभावखण्डनमेव / ते च ततो भिन्ने, अभिन्ने वा विधीयेते ? यदि भिन्ने; तदा तत्करणे शब्दस्य न किञ्चित्कृतमिति तदवस्था अस्य अश्रुतिः स्यात् / अथ अभिन्ने; तर्हि शब्दस्यापि तद्वत् कार्यतानुषङ्गादनित्यत्वप्रसक्तिः / 'यो हि यस्मादभिन्नस्वभावः तत्करणे तस्यापि करणम् यथा अतिशयानतिशयव्यावृत्तिस्वरूपस्य, ताभ्यामभिन्नस्वभावश्च शब्द इति / किश्च, श्रोत्रप्रदेश एंव अस्य ध्वनिभिः संस्कारः क्रियेत, सर्वत्रापि वा ? प्रथमपक्षे तावन्मात्रक एव शब्दः स्यात् न सर्वगतः। तस्यैव अन्यत्र तद्विपर्ययरूपतया अवस्थाने दृश्यादृश्यत्वप्रसङ्गान्निरंशताव्याघातः / दृश्येतररूपता चैकस्य ब्रह्मवादं समर्थयते, चेतनेतररूपतयापि एकस्य तद्वदवस्थित्यविरोधात् / घटादेरपि चैवं सर्वगतत्वानुषङ्गः, सोऽपि हि दृश्यप्रदेशे दृश्यः अन्यत्र चादृश्य इति वदतो न वक्त्रं वक्रीभवेत् / सर्वत्र 15 चास्यं संस्कारे सर्वत्र सर्वदा उपलब्धिः स्यात् , न वा कचित् कदाचिदै विशेषात् / स्वरूपपरिपोषोऽप्यनुपपन्नः; नित्यस्य स्वभावाऽन्यथाकरणासंभवात् / करणे वा (1) शब्दोपलब्धः। (2) शब्दश्रोत्रव्यतिरिक्त-आ० टि०। (3) तुलना-"तत्र नातिशयोत्पत्तिः अनित्यताप्रसङ्गात् तस्याः पूर्वापररूपहान्युपजननलक्षणत्वात् ।"-प्रमाणवा० स्ववृ० 11265 / "विशेषाधानमप्यस्य नाभिव्यक्तिविभाव्यते / नित्यस्यातिशयोत्पत्तिविरोधात्स्वात्मनाशवत् ।।"-तत्त्वार्थश्लो० पृ० 238 / (4) "अतिशयो दृश्यस्वभाव एव अनतिशयव्यावृत्तिस्त्वदृश्यस्वभावखण्डनमेव, ते चेत्ततोऽन्ये; तत्करणेऽपि शब्दस्य न किञ्चित्कृतमिति तदवस्थाऽस्याऽश्रुतिः / अथानन्ये; तदा शब्दस्यापि कार्यतया अनित्यत्वानुषङ्गः।"-प्रमेयक० पृ० 419 / स्या० र० पृ० 685 / (5) अदृश्यः सन् अतिशये जाते दृश्यो जात:-आ० टि०। (6) अतिशय-अनतिशयव्यावृत्ती / (7) शब्दात -आ० दि० / तुलना-"विशिष्टसंस्कृतिः सा हि न शब्दव्यतिरेकिणी। शब्दस्याज्ञेयताप्राप्तेः ततः शब्दोऽपि जायते ॥"-तत्त्वसं० का० 2570 / (8) अतिशयोत्पादने अनतिशयव्यावृत्तौ वा। (9) शब्दस्य-आ० टि०। (10) अतिशय-अनतिशयव्यावृत्तिवत् / (11) शब्द: कार्यः कार्यरूपाभ्यामतिशय-अनतिशयव्यावृत्तिभ्यामभिन्नस्वभावत्वात् / (12) शब्दस्य। (13) “श्रोत्रप्रदेश एव चास्य संस्कारे तावन्मात्रक एव शब्दः न सर्वगतः स्यात् ।"-प्रमेयक० पृ० 419 / (14) शब्दस्य / (15) श्रोत्रदेशादन्यत्र (16) अदृश्यरूपतया अशब्दरूपतया वा। (17) शब्दस्य दृश्यादृश्यत्ववत् / (18) शब्दस्य / (19) तुलना-'सर्वेषामुपलम्भः स्याद् युगपद्व्यापिता यदि // संस्कृतस्योपलम्भे च कः संस्कर्ताऽविकारिणः।"-प्रमाणवा० 3.153-54 / 1-वृत्तिस्तु ब०, श्र०। 2-तौ च ततो भिन्नो अभिन्नी वा आ०। 8 भिन्नौ आ० / 4 अभिन्नौ आ०। 5-क्तेःश्र०। 6 तत्कारणे श्र०। 7 एवध्व-श्र०। 8 क्रियते आ०। 9-तः स्यात द-श्र०। 10 दृष्टप्र-श्र०। 11-चित स्वरूप-श्र०।