________________ प्रवचनप्र० का०६५ ] शब्दनित्यत्ववादः یا و स्तिमितस्य कल्पनमुभयत्र तुल्यम् ! एतेन वदतो मुखाग्रस्थिततूलादेः प्रेरणोपलम्भात् अनुमानतो ध्वनीन प्रतिपद्यते; इत्यपि प्रत्युक्तम् ; तद्वद् विद्युषामपि अतैः प्रतिपत्तिप्रसङ्गात् / ___ अथ अर्थापत्त्या ध्वनयः प्रतीयन्ते; तथाहि-शब्दस्तावत् नित्यत्वात् नोत्पद्यते, संस्कृतिरेव तु क्रियते, सा च विशिष्टा नोपपद्येत यदि ध्वनयो न स्युः / उक्तञ्च"शब्दोत्पत्तर्निषिद्धत्वात् अन्यथानुपपत्तितः / विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते // " 5 .. [मी० श्लो० शब्दनि० श्लो० 126-27 / ] इति / तदप्यचारु; यतः केयं विशिष्टा संस्कृति म-ब्दिसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्कारो वा ? त्रिविधो हि संस्कारो मीमांसकैरिष्टः।। "स्याँच्छब्दस्य हि संस्कारादिन्द्रियस्योभयस्य वा।" [मी० श्लो० शब्दनि० श्लो० 52 / ] 10 स्थिरवाय्वपनीत्या च संस्कारोऽस्य भवन् भवेत् / " [ मी० श्लो० शब्दनि० श्लो० 62 / ] इत्यभिधानात् / तत्राद्यपक्षे कोऽयं शब्दसंस्कारो नाम-शब्दस्योपलब्धिः, आत्मभूतः कश्चिद (1) वायून्-आ० 'टि० / (2) 'मुखाद्विप्रुषो निःसरन्ति मुखाग्रस्थितवस्त्रे आर्द्रतादर्शनात्' इत्यनुमानात् / (3) विप्रुषो हि मुखाग्रस्थवस्त्रादौ दृश्यन्ते-आ० टि०। (4) ध्वनयः सन्ति विशिष्टसंस्कृत्यन्यथानुपत्तेः / “तथा हि सन्ति शब्दव्यञ्जका ध्वनय: शब्दप्रतिपत्त्यन्यथानुपपत्तेः।"-स्या र० प०६०५। (5) "नन्वेवमविशेष किमिति संस्कारविशेषोत्पत्तिरेवाङ्गीक्रियते न शब्दविशेषोत्पत्ति. . रत आह-शब्देति / प्रागनुपजातपश्चादुपजातशब्दोपलम्भानुपपत्त्याऽवश्यं कल्पनीये कस्मिंश्चित् प्रत्यक्षतया शब्दोत्पत्तेनिषेधात् संस्कारकल्पनैव युक्तेति ।"-न्यायर। 'ध्वनिभ्यो व्यवसीयते'-प्रमेयक० पृ० 418 / प्रकृतपाठः-तत्त्वसं० पृ० 611 / (6) "इन्द्रियस्यैव संस्कार: शब्दस्यैवोभयस्य वा / क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥"-वाक्यप० 1179 / (7) 'सा हि स्याच्छब्द -मी० श्लो० / तत्वसं० 50 598 / अनेनैव रूपेण उद्धृतोऽयम-प्रमेयक प०४१९ / "साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयः संयोगविभागैः शब्दसंस्काराद्वा भवेत् इन्द्रियसंस्काराद्वा उभयस्य वा शब्दस्येन्द्रियस्य च संस्कारात् ।"-तत्त्वसं० 50 50 599 / (8) "द्विविधो हि वायुः स्थिरोऽस्थिरश्च / तत्र यः स्थिरः सघनान्धकारवत् शब्दमावृत्यास्ते तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते / तैश्च संयोगविभागः तस्य स्थिरस्य वायोरपनयः क्रियते स एव च शब्दस्य संस्कारो नान्यः स्वलक्षणपुष्टयादिः तस्य नित्यत्वेनैकरूपत्वात् ।"-तत्त्वसं०. पं० 10601 / (9) तुलना-"भवन्ती वा कारणेभ्योऽतिशयवत्ता वा शब्दस्य व्यक्तिः आवरणविगमो विज्ञानं वा गत्यन्तराभावात् / यत एवन्तस्मात् न व्यक्तिः शब्दस्य कारणेभ्यः किन्तत्पत्तिरेव / भवन्ती वा कारणेभ्यः सकाशाद् व्यक्तिस्त्रिधा भवेत्-पूर्वावस्थापरित्यागेन अतिशयवत्ता वा शब्दस्य व्यक्तिर्भवेत्, उपलम्भावरणविगमो वा, शब्दालम्बनं विज्ञानं वा व्यक्तिः, प्रकारत्रयव्यतिरेकेण गत्यन्तराभावात् ।"-प्रमाणवा० स्ववृ० टी० पृ० 386 / इमे सर्वे विकल्पा:-प्रमेयक० 10419 / “क एष शब्दसंस्कार:-किमतिशयाधानमनतिशयव्यावर्तनमावरणापगमो वा"-स्या०र० 10685 / रत्नाकराव० 4 / 9 / 1 स्तिमितकल्प-आ० / 2 विषाणामपि आ०। -भ्योऽवसी-श्र०। 4 एतदप्य-आ० / 5 संस्कार इन्द्रि-श्र०।