________________ همی लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० मुपलम्भो वा, शब्दस्य तु भवति विपर्ययात् / तदप्यचर्चिताभिधानम् ; तत्सर्वगतत्वासिद्धेः / तथाहि-शब्दः सर्वगतो न भवति सामान्यविशेषवत्त्वे सति बाह्येन्द्रियप्रत्यक्षत्वात् घटादिवत् / ततो घटादिभ्यः शब्दस्य विशेषाभावाद् उभयोः कार्यत्वं व्यङ्ग्यत्वं वाऽविशेषतोऽभ्युपगन्तव्यम् / ____किञ्च, ऐते ध्वनयः कुतः प्रतिपन्नाः येन तदधीना शब्दश्रुतिः स्यात्-प्रत्यक्षेण, अनुमानेन, अर्थापत्त्या वा ? प्रत्यक्षेण चेत् किं श्रौत्रेण, स्पार्शनेन वा ? न तावत् श्रौत्रेण; तथा प्रतीत्यभावात् / नहि शब्दवत् श्रोत्रे ध्वनयः प्रतिभासन्ते; विप्रतिपत्त्यभावप्रसङ्गात् / तत्र तत्प्रतिभासाभ्युपगमे च अपरशब्दकल्पनावैयर्थ्यम् , ध्वनीना मेव श्रावणस्वभावतया शब्दत्वप्रसङ्गात् / अथ स्पार्शनप्रत्यक्षेण ध्वनयः प्रतीयन्ते, 10 स्वकरपिहितवदनो हि वदन स्वकरसंस्पर्शनेन तान् प्रतिपद्यते; इत्यप्यसाम्प्रतम् ; वायुंवत् ताल्वादिव्यापारानन्तरं विप्रुषामुपलम्भतः शब्दाभिव्यञ्जकत्वप्रसङ्गात् / वक्तृमुखप्रदेश एव तासों प्रक्षयतः श्रोतृश्रोत्रप्रदेशे गमनाभावान्न तद् इत्यन्यत्रापि समानम् / न खलु वायवोऽपि तत्र गच्छन्तः प्रत्यक्षतः प्रतीयन्ते / शब्दप्रतिपत्त्यन्यथानुपपत्त्या तु प्रतीतिः उभयत्र तुल्या / यथा च स्तिमितभाषिणो न विपुषामुपलम्भः तथा वायूपलम्भोपि नास्ति / (1) तुलना-"व्यापिनः शब्दा नित्याश्च, ततो व्यापिनित्यत्वाच्छब्दानां व्यञ्जकस्य करणस्य व्यापारात् सर्वत्रोपलब्धिः घटादयस्तु न व्यापिन: नापि नित्याः तेन ते व्यञ्जकव्यापारेण नावश्यमपलभ्यन्त इति; यद्येवं क इदानीं घटादिषु समाश्वासः निश्चयः, यथा ते न नित्या नापि व्यापिन इति यावता तेऽपि नित्या व्यापिनश्च भवन्तु ।"-प्रमाणवा० स्ववृ० टी० पृ० 385 / "नैष दोषः सर्वगत- . त्वाद्वर्णानामित्यपि वार्तम् प्रमाणबलायातत्वाभावात् अन्यत्रापि तथाभावानुषङ्गात् ।"-अष्टश, अष्टसह० पृ० 103 / स्या० र० पृ० 684 / (2) सामान्यनिरासार्थं विशेषणमुक्तम् आ०टि० / तुलना"तदुक्तं न च सर्वगताऽमूर्तनित्यैकात्माऽत्र युज्यते / वर्णो बाह्येन्द्रियग्राह्यस्वभावत्वाद् घटादिवत् // " -पत्रप०१० 11 // "न सर्वगतः शब्द: सामान्यविशेषवत्त्वे सति बा_केन्द्रियप्रत्यक्षत्वात् घटादिवत् / " -प्रमेयक० पू०४१५ / “सामान्यविशेषवत्त्वे सति बाह्येन्द्रियप्रत्यक्षत्वात् ।"-स्या०र० पृ०६८४। (3) तुलना-प्रमेयक० पृ०४१८ / स्या०र० पृ०६८४। (4) श्रोत्रे / (५)तुलना-"ध्वनय एव हि विशिष्टा वर्णरूपा वाचकाः / तेभ्यो भिन्नोऽर्थान्तरं वाचकं शब्दरूपमस्तीत्येतत्सत्ताग्राहकप्रमाणाभावात् अतिबह्वियं श्रद्धेयम् / किं कारणम् ? यतो न वयमवाचकं ध्वनि शब्दञ्च वाचकं पृथग्रूपमिति ध्वनिभ्यो भिन्नस्वभावमुपलक्षयामः तस्मात् ध्वनिविशेष एवाकारादिरूपेण स्थितः वर्णाख्यः..."-प्रमाणवा० स्ववृ० टी० पु०३६८ / “यतो ध्वनिविशेष एव वर्ण उच्यते। तेन द्रुतोच्चारितो ध्वनिविशेषः द्रुता गव्यक्तिरुच्यते. मध्योच्चारितो मध्यगव्यक्तिः, बिलम्बितोच्चारिता ध्वनिविशेषो बिलम्बिता गव्यक्तिः न तु व्यञ्जकेभ्यो ध्वनिभ्योऽन्यो गकारः प्रतिभासते..."-प्रमाणवा०स्ववृ०टी०१०३८२ / (6) ध्वनीन् / (7) तुलना'वायुवत्ताल्वादिव्यापारानन्तरं कफांशानामप्युपलम्भेन शब्दाभिव्यञ्जकत्वप्रसङ्गात् ।"-प्रमेयक० पृ० 418 / स्या०र० पृ० 684 / (8) यद्यत्ताल्वादिव्यापारानन्तरमुपलभ्यते तत्तच्छदाभिव्यञ्जकं यथा वायुः तथा च विपुष इति -आ० टि०। (9) विपुषाम् कफकणानाम् / (10) शब्दाभिव्यजकत्वम् / (11) ध्वनावपि / (12) श्रोतृश्रोत्रप्रदेशे। (13) वायुवत् कफांशेष्वपि समाना। 1 'घटादिवत् नास्ति आ०। 2 श्रोत्रेण श्र०, ब०। 3 स्पर्शनेन श्र०। 4 शब्दवत्तत्र ध्वनयः श्र०, ब०।। विषाणामु-आ० / 6 तेषां आ०। प्रत्यक्षता प्रक्षयतः ब०। 8 विग्रुषोपलम्भः आ० /