________________ प्रवचनप्र० का०६५] शब्दनित्यत्ववादः 706 समानदेशत्वे समानेन्द्रियग्राह्यत्वे च आवरणभेदस्य व्यञ्जकभेदस्य चानुपपत्तेः। तथाहिशब्दाः प्रतिनियतावरणावार्याः प्रतिनियतव्यञ्जकव्यङ्ग्या वा न भवन्ति, अभिन्नदेशत्वे सति एकेन्द्रियग्राह्यत्वात् , यदित्थं तत्तथा यथा एकघटवृत्तिसामान्य-संख्या-रूप-परिमाणकर्मादि, तथा चैते शब्दाः, तस्मात्तथेति / 'अभिन्नदेशत्वात्' इत्युच्यमाने रूपरसादिभिय॑भिचारः, तेषामेकद्रव्यवृत्तित्वेऽपि प्रतिनियतव्यञ्जकप्रतीतेः, अत: 'एकेन्द्रियग्राह्यत्वात्' / इत्युक्तम् / तस्मिंश्चोच्यमाने भिन्नदेशव्यवस्थितघटादिनिष्ठैः सामान्यादिभिः अनेकान्तः, तन्निवृत्त्यर्थम् 'अभिन्नदेशत्वात्' इत्यभिहितम् / तदतोऽनुमानात् शब्दानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाऽव्यवस्थिते: अयुक्तमुक्तम्"अन्यार्थ प्रेरितो वायुः यथान्यं न करोति वैः। तथान्यवर्णसंस्कारशक्तो नान्यं करिष्यति॥१॥" [मी० श्लो० शब्दनि० श्लो० 80 / ] इत्यादि / 10 यदि च ताल्वादयो ध्वनयो वा शब्दानां व्यञ्जकाः; तर्हि तद्वयापारे नियमेन उपलब्धिर्न स्यात् / कारकव्यापारो ह्येषः-स्वसन्निधाने नियमेन कार्यसन्निधापनं नाम, न व्यञ्जकव्यापारः। न खलु यत्र यत्र व्यञ्जकः प्रदीपादिः तत्र तत्र व्यङ्ग्यस्य घटादेः सन्निधानमुपलब्धिर्वा नियमतोऽस्ति कारक-व्यञ्जकयोरविशेषप्रसङ्गात्, चक्रादिव्यापारवैयर्थ्यानुषङ्गाच्च / अथ घटादेरसर्वगतत्वान्न व्यञ्जकसन्निधाने नियमतः सन्निधान- 15 (1) “अन्यार्थमिति अन्यवर्णनिष्पत्त्यर्थम् / अन्यवर्णसंस्कारशक्त इति अन्यवर्णप्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंस्कारशब्देनोक्तः न तु वर्णसंस्कार एव श्रोत्रसंस्कारस्य प्रकृतत्वात् / नान्यं करिष्यति इति नान्यं वर्ण श्रोत्रसंस्कारद्वारेण संस्करिष्यतीत्यर्थः।"-तत्वसं० 50 10608 / (2) 'करोति च'-स्या० र० पृ० 684 / 'करोति सः'-तत्त्वसं० पृ० 608 / प्रकृतपाठः-प्रमेयक० 10423 / सन्मति० टी० 1036 / (3) भो जैना:-आ० टि०। (4) एकोपलम्भ सर्वषामुपलम्भप्रसङ्गः' इत्युपालम्भस्य समाधानमिदं मीमांसकेन प्रोक्तम्-आ० टि०। (5) तुलना-"कारणानां समग्राणां व्यापारादूपलब्धितः / नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् / नहि कदाचिद् व्यापतेषु करणेषु शब्दानुपलब्धिः, न चावश्यं व्यञ्जकव्यापारोऽर्थमुपलम्भयति क्वचित् प्रकाशेऽपि घटानुपलब्धेः / सेयं नियमेनोपलब्धिः तद्वयापाराच्छब्दस्य तदुद्भवे स्यात् / अकर्तुर्व्यापारेऽपि तत्सिद्धययोगात् / किञ्च करणानां समग्राणां व्यापारात् परिस्पन्दादिलक्षणात् नियमेन शब्दस्य उपलब्धित: कारणात् कार्यत्वं प्राप्तम् / किं कारणम् ? व्यञ्जके हेतौ तदसम्भवात् नियमेन व्यङग्यस्योपलम्भासंभवात् ।”-प्रमाणवा० स्ववृ० टी० 11265 / “व्यञ्जकव्यापृतौ न स्याद् व्यङग्यस्य नियमाद् गतिः नावश्यम्भावनियमः स्याच्छु तेरुच्चारणात्ततः।"-सिद्धिवि०, टी० पृ० 555A. / "न कश्चिद्विशेषहेतुः ताल्वादयो व्यञ्जका न पुनश्चक्रादयोऽपि इति / ते वा घटादेः कारकाः न पुनः शब्दस्य ताल्वादयोऽपीति / न हि व्यञ्जकव्यापतिनियमेन व्यङ्ग्यं सन्निधापयति / सन्निधापयति च ताल्वादिव्यापतिनियमेन शब्दं ततो नासौ ताल्वादीनां व्यङ्ग्यः चक्रादीनां घटादिवत् ।"-अष्टश०, अष्टसह० 10 103 / “यदि च ताल्वादयो ध्वनयो वास्य"-प्रमेयक० पृ 415 / स्या० र०पू० 684 / (6) वायव:-आ० टि०। (7) "प्राक् सतः स्वरूपसंस्कारकं हि व्यञ्जकम, असतः स्वरूपनिर्वर्तकं कारकम् ।"-प्रमेयक० पृ० 116 / (8) घटाद्युत्पादने / (9) प्रदीपादिनैव साध्यसिद्धेः-आ० टि० / 1-णस्य भेवस्य ब०। 2-व्यंजनव्य-आ०। कारकस्य व्या-श्र०।