________________ 708 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० नामावारकं प्रतीतम् / अव्यापकत्वे त्वस्य नितरां तेने शब्दस्य आवार्यत्वानुपपत्तिः, तन्मध्ये तद्देशे पार्वे च विद्यमानत्वात्, प्रत्युत शब्द एवास्य आवारकः स्यात्, अन्यथा सर्षपोऽपि घटस्य आवारको भवेत् / ननु भूम्यादिना आकाशस्य तथाविधस्यापि आबि यमाणत्वोपलम्भाददोषोऽयम् ; इत्यप्यसत्; तत्प्रदेशस्यैव तेने आत्रियमाणत्वाभ्युपगमात् / 5 शब्दप्रदेशस्यापि वायुना आब्रियमाणत्वाभ्युपगमे शब्दस्य सावयवत्वमनित्यत्वञ्च स्यात् / तथा निखिलशब्दानां यदि एकमेवावरणं कल्प्यते; तदा एकोपलम्भे सर्वेषामुपल• म्भप्रसङ्गः, तैदावरणापगमे तद्वत् सर्वेषामनावृतत्वात् / तदनुपलम्भे वा विवक्षितशब्दस्यापि तदनुपलम्भः स्यादविशेषात् / अथ विभिन्नम् ; तन्न; सर्वशब्दानांव्यापितया (1) वायोः-आ० टि० / (2) वायुना-आ० टि० / (3) आवरणात्मकवायुमध्ये / (4) व्यापित्वेन-आ० टि०। (5) वायो:-आ० टि०। (6) यद्यल्पपरिमाणमपि वस्तु महतः आवारकं स्यात् तदा। (7) व्यापिनोऽपि-आ० टि०। (8) आकाशप्रदेशस्यैव / (9) भूमिना / (10) जैनैः आकाशस्य अनन्तप्रदेशित्वप्रतिज्ञानात् / (11) आवरणापाये कस्यचिदेकस्य शब्दस्य उपलब्धिकाले / तुलना-"यथा जवनिकापायप्राप्तप्रसरमीक्षणम् / रङ्गभूमिषु तद्देशमशेष वस्तु पश्यति / / तथा प्रसरसंरोधिसमीरोत्सारणे सति / श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ।"-न्यायमं० 10 221 / "क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात् निरावरणस्य व्यापकत्वाविशेषात् ।”-प्रश० व्यो० पृ०६८४ / (12) शब्दानाम् / (13) विवक्षितशब्दस्य आवरणस्य विनाशे / (14) एकशब्दवत्-आ०टि० (15) सर्वशब्दानुपलब्धौ। (16) सर्वशब्दवत् / (17) अनावृतत्वाविशेषात् / (18) तुलना-"नियमश्च न स्यात्, यदि चानेके शब्दाः युगपदाकाशे वर्तन्ते इति, एवञ्च यत्किञ्चिद् व्यञ्जकमुपात्तं समानदेशान् सर्वानभिव्यनक्तीति यदा वीणा वाद्यते तदा रासभध्वनिरपि श्रूयेत / न हि समानेन्द्रियग्राह्याणां समानदेशानां व्यञ्जकेषु नियमो दृष्ट: / यद्यस्य व्यञ्जकं तेन तस्य व्यक्तिरिति चेत् तन्न; अदृष्टत्वात् / अथ मन्यसे अनेकशब्दसन्निपाते सति व्यञ्जकानि भिद्यन्ते व्यञ्जकभेदानुविधायिन्योव्यक्तयः प्रतिशब्दमुपजायन्त इति; तन्न ; अदृष्टत्वात् / न हि प्रदीप एकेन्द्रियग्राह्यमनेकमर्थं युगपत्सन्निपतितं न प्रकाशयति ।"-न्यायवा० पृ०२८८ / न्यायवा० ता० 10 446 / “न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायु श्वशब्दं व्यनक्तीति वाच्यम् ; व्यञ्जकेषु नियमानुपलब्धेः / यथा घटाभिव्यक्त्यर्थमुत्पादितः प्रदीपः समानेन्द्रियग्राह्यसमानदेशावस्थितपदार्थव्य जक इति / तथाहि-न श्रोत्रं प्रतिनियतसंस्कारकसंस्कार्य समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात् चक्षुर्वत ।"शब्दा वा विवादविषया प्रतिनियतव्यञ्जकव्यंग्या न भवन्ति समानेन्द्रियग्राह्यसमानदेशावस्थितत्वात् घटादिवत्।"-प्रश० व्यो० पृ 648 / “न च समानकरणानां समानेन्द्रियग्राह्याणाञ्च भावानां प्रतिनियतव्यञ्जकव्यंग्यत्वमुपलब्धम् / गृहे दधिघटीं द्रष्टुमानीतो गृहमेधिना। अपूपानपि तद्देशान प्रकाशयति दीपकः ॥"-न्यायमं० पृ० 212 / "श्रोत्रं तावत्समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नार्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति इन्द्रियत्वाच्चक्षुर्वत् / शब्दा वा प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् घटादिवत् ।"-न्यायसा० पृ० 30 / “ननु नियतव्यञ्जककृता नियतश्रुतिरित्यत्राह-नहीत्यादि / न हिर्यस्मात् समानदेशानाम् समानाक्षविषयाणामेतत् नियतव्यञ्जकत्वं न्याय्यम् ।"-सिद्धिवि०, टी० पृ० 554B. / "समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् ।"-अष्टश०, अष्टसह० पृ० 105 / प्रमेयक० पृ० 423 / सन्मति० टी० पृ० 36 / स्या० र० पृ० 683 / प्रमेयर० 3.100 / शास्त्रवा टी० पु० 378A. / 1 कल्प्येत ब०, श्र०।