________________ प्रवचनप्र० का 0 65] शब्दनित्यत्ववादः 707 किञ्च, व्यञ्जकव्यापारात् पूर्व शब्दस्य कुतश्चित् प्रमाणात् सिद्धे सद्भावे आवरणं सिद्ध्येत्, स्पार्शनप्रत्यक्षप्रतिपन्ने घटे अन्धकारादिवत्, न चासौ सिद्धः / 'प्रत्यभिज्ञानात्तसिद्धिः' इत्यपि मनोरथमात्रम् ; तस्य एकत्वाप्रसाधकत्वप्रतिपादनात् / . अस्तु वा यथाकथञ्चित्तेषामावरणम् ; तथापि तत् दृश्यम् , अदृश्यम् , नित्यम् , अनित्यम् , व्यापकम् , अव्यापकम् , एकम् , अनेकं वा स्यात् ? न तावद् दृश्यम् ; प्रत्यक्ष- 5 प्रमाणतः तत्प्रतीत्यभावात् / ततस्तत्प्रतीतौ वा विप्रतिपत्त्यभावः / नहि नीले नीलतया प्रतीयमाने कश्चिद्विप्रतिपद्यते। अथादृश्यम् ; कथं तदस्ति अतिप्रसङ्गात् ? ननु नित्यस्य सतः शब्दस्य उच्चारणात् प्रागनुपलब्धौ निमित्तान्तरासंभवात् तन्निमित्तमदृश्यमप्यावरणं कल्प्यते; इत्यप्यसाधीयः; अन्योन्याश्रयानुषङ्गात्-सिद्धे हि शब्दस्य आवरणे नित्यस्य सतोऽस्य उच्चारणात् प्रागनुपलब्धिसिद्धिः, तस्याञ्च सत्यां तदावरणसिद्धिरिति / ननु 10 प्रत्यभिज्ञानात् शब्दस्य नित्यत्वसिद्धेः उच्चारणात् प्राक् तदनुपलब्धौ नावरणादन्यन्निमित्तम् ; इत्यपि श्रद्धामात्रम् ; प्रत्यभिज्ञानस्य तन्नित्यत्वप्रसाधकत्वप्रतिषेधात् / नित्यत्वे च आवरणस्य सदा शब्दस्यानुपलब्धिः स्यात् / अनित्यत्वे त्वस्य प्रध्वस्तस्य पुनरुत्पादे कारणाभावात् सर्वदा सर्वस्य उपलम्भप्रसङ्गः / नहि प्रतिनियतावरणोत्पादे प्रतिनियतं किश्चित्कारणमुपलभ्यते / 16 व्यापकत्वश्चास्य अतीव दुर्घटम् ; बाधकप्रमाणसद्भावात् / तथाहि-आवरणत्वेनाभिमतो वायुरव्यापकः स्पर्शवद्रव्यत्वात् लोष्टवत् / व्यापकत्वे चास्यै उभयोरपि आवार्यावारकयोः सर्वगतत्वात् किं कस्य आवारकं स्यात् ? न हि आकाशमात्मादी (1) तुलना-"स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः / यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् // स्वप्रतिपत्तिद्वारेण अन्यप्रतिपत्तिहेतुलॊके व्यञ्जक: सिद्धो दीपादिवत्. स चेत्प्राकसिद्धः स्यात् / समानजातीयोपादानलक्षणसिद्धेन तस्यैवातिशयस्य ज्ञानहेतोः तस्य तत्सामग्रीत्वात् / ये पूनः असिदोपलम्भनाः कारका एव कुलालादिवद् घटादौ / स्वज्ञानेन कारणेन अन्यधीहेतुरर्थो व्यञ्जको मतः / कदा? सिद्धेऽर्थे / यद्यसौ व्यङ्ग्यः प्रागसिद्धः स्यात्तदा को विशेषोऽस्य व्यञ्जकस्य कारकाद्धेतोः ।"प्रमाणवा० स्ववृ० टी० 2264 / “यतः प्रमाणान्तरेण शब्दसद्भावे सिद्धे तस्यावरणं सिद्धयेत् स्पार्शनप्रत्यक्षप्रतिपन्ने घटेऽन्धकारादिवत् ।"--प्रमेयक० पृ०४२१ / (2) सद्भाव:-आ० टि०। (3) शब्दानाम्-आ० टि०। (4) तुलना-"तथापि तदावरणं दृश्यदृश्यं वा नित्यमनित्यं वा व्यापकमव्यापकं वा एकमनेकं वेत्यष्टौ विकल्पाः ।"-स्या० र० पृ० 683 / (5) आवरणप्रतीत्यभावात् / (6) प्रत्यक्षतः / (7) आवरणम् / (8) अनुपलब्धि-आ० टि० / (9) शब्दस्य / (10) आवरणस्य / (11) एकैकवर्णस्य एकैकमावरणम्-आ० टि० / (12) तुलना-"आवरणत्वेनाभिमतः 'प्रभञ्जनः न व्यापक: स्पर्शवद्रव्यत्वादुपलशकलवत् ।"-स्या० र० पृ० 683 / (13) आवरणस्य / तुलना-"तद्वत्तदावारकमपि सर्वगतमिति चेत्, न तावारकम्, न ह्याकाशमात्मादीनामावारकम् ।"-प्रमेयक० पृ० 421 / स्या० 20 पृ० 683 / (14) शब्दस्तिमितवाय्वोः / (15) पराभिसन्धिना-आ० टि। 1 वा कर्याञ्च-श्र०।-त्यसंभवात् श्र०। 3 नीलतायाः प्र-श्र०। 4 शब्दनित्य-आ०, थ०।-वा शब्दस्य ब०,श्र०। 6-णभावात् आ०।। स्पर्शनद्रव्य-श्र।