________________ 704 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० पलम्भात् / न च प्रागसतः तदैव इन्द्रियस्य प्रादुर्भावः, प्रतीतिविरोधात् / नापि शब्दस्यासन्निहितत्वात् ; नित्यव्यापितया सर्वत्र सर्वदा तस्य सन्निहितत्वात् / नाप्यावृतत्वात्; नित्यैकस्वभावत्वेन तस्य आवृतत्वानुपपत्तेः / न खलु दृश्यस्वभावपरित्यागेन अदृश्यस्वरू पाऽस्वीकारे शब्दस्य आवृतत्वं घटते अतिप्रसङ्गात् / यद् यदा यत्स्वरूपं न परित्यजति 5 न तस्य तदा तत्प्रत्यनीकस्वरूपसंभवः यथा अनावृतावस्थायां दृश्यस्वरूपमपरित्यजतो नादृश्यस्वरूपसंभवः, न परित्यजति च आवृतावस्थायां दृश्यस्वरूपं शब्द इति / तदा तत्स्वरूपपरित्यागे वा सिद्धमस्य अनित्यत्वम् , स्वरूपभेदस्वभावत्वात्तस्य / ननु घटादीनां स्वरूपाभेदेऽपि अन्धकारादिना आवृतत्वं दृश्यते; इत्यप्ययुक्तम् ; तत्रापि स्वरूपभेदे सत्येव आवृतत्वोपपत्तेः / स्वरूपमखण्डयतः कस्यचिदावरणत्वानुपपत्तेः। . (1) उच्चारणात् प्राक् तद्ग्राहकं श्रोत्रमिन्द्रियं नासीत् उच्चारणकाल एव शब्देन सहोत्पद्यते इत्युक्ते सत्याह न चेति / (2) नित्यतया व्यापितया च-आ० टि / (3) शब्दस्य.। (4) शब्दस्य आवृतावस्थायां न अदृश्यस्वरूपसंभवः अपरित्यक्तपूर्वस्वरूपत्वात् / तुलना-"यद्यदा यत्स्वरूपं न परित्यजति..."-स्या० र० पृ० 682 / (5) आवृतावस्थायां दृश्यस्वरूपत्यागे। तुलना-"तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन्न किञ्चिदनित्यम्।" -अष्टश०, अष्टसह० पृ० 107 / (6) अनित्यत्वस्य / (7) स्वरूपभेदाभावेऽपि / तुलना"स्यान्मतं यथा घटादेरात्मानमखण्डयत्तमस्तस्यावरणं तथा शब्दस्यापीति; तदसत्; तस्यापि तेन आत्मखण्डनोपगमात्, दृश्यस्वभावस्य खण्डनात् तमसस्तदावरणत्वसिद्धेः सर्वस्य परिणामित्वसाधनात् / तमसाऽपि घटादेरखण्डने पूर्ववदुपलब्धिः किन्न भवितुमर्हति, तस्य तेन उपलभ्यतयाऽप्यखण्डनात् ।"-अष्टश०, अस्टसह० पृ० 105 / प्रमेयक० पृ० 421 / स्या० र० पृ० 682 / स्तिमितेन वायनावरणान्नित्यं नोपलभ्यत इति चेदाह-नापीत्यादि / तस्य बाह्यस्य उपलभ्यात्मनो दृश्यस्य किञ्चिदुपलम्भावरणं सम्भवति / तत्सिद्धौ प्रमाणाभावात् / सतोऽपि वा विद्यमानस्यापि चावरणस्य तदात्मानमखण्डयतो नित्यशब्दात्मानमप्रच्यावयतः सामर्थ्यतिरस्कारायोगात् ज्ञानजननशक्त्यभिभवायोगात् / यस्मान्न हि तत्र शब्दात्मन्यतिशयमनुत्पादयन्नावरणाभिमतः किञ्चित्करो नाम / अकिञ्चित्करश्चार्थः कः कस्यावरणं ज्ञानविबन्धकमन्यद्वेति प्रकारान्तरेणोपघातकं नैवेति यावत् / अकिञ्चित्करस्य आवरणत्वं दृष्टमिति कथयन्नाह पर:-कुड्यादय इत्यादि। कुड्यादयो घटादीनां कमतिशयमुत्पादयन्ति कम्वा सामर्थ्यातिशयं खण्डयन्ति येनावरणमिष्यन्ते / तस्माद यथा तेऽतिशयमनत्पादयन्तो घटादीनामावरणमिष्यन्ते तथा नित्यस्यापि शब्दस्य किञ्चिदावरणं भविष्यतीत्यभिप्रायः। न ब्रूमः इत्यादिना परिहरति। ते कुड्यादयः किञ्चिद् घटादिकमतिशाययन्ति विशिष्टं स्वभावं कुर्वन्तीति न ब्रूमः / कथन्तावरणमुच्यन्त इत्याह-अपि तु न सर्व इत्यादि / न सर्वघटक्षणाः सर्वस्य पुरुषस्य इन्द्रियज्ञानहेतवः किन्तहि परस्परसहितास्तु विषयेन्द्रियालोकाः परस्परतो विशिष्टक्षणान्तरोत्पादात कारणाद् विज्ञानहेतवःते च विषयेन्द्रियादयः तेन प्रतिघातिना कूड़यादिनाऽव्यवहिता यदा भवन्ति तदाऽन्योन्यस्योपकारिणः सति च व्यवधायके कुड्ये अन्यस्योत्पित्सोः समर्थस्य क्षणस्य यथोक्तकारणाभावेनानुत्पत्तेनिकारणवैकल्यमतः कारणवैकल्यात् घटादिषु कुड्यादिव्यवहितेषु ज्ञानानुत्पत्तिरिति कृत्वा कुड्यादय आवरणमुच्यते न पुनः प्राग्विज्ञानजननयोग्यस्य घटादेः प्रतिबन्धात् . ."-प्रमाणवा० स्ववृ० टी० पृ० 361.62 / (8) उपलम्भानुपलम्भरूपेण / 1-वत्वे तस्य ब०। 2 आवृतत्वावस्थायां आ०, ब० / 8 इत्ययु-श्र०, ब० /