________________ प्रवचनप्र० का० 65] शब्दनित्यत्ववादः 705 चेयं मिथ्या; देशकालनरान्तरेषु अबाध्यमानत्वात् 'उत्पन्नो घटः विनष्टो घटः' इति प्रतीतिवत् / अथ प्रत्यभिज्ञानेनैव इयं कस्मान्न बाध्यते ? तन्न; अस्य सादृश्यनिबन्धनतया तन्नित्यत्वाप्रसाधकत्वात्। ननु एकज्ञानसंसर्गिपदार्थान्तरोपलम्भात् क्वचिद् घटाद्यभावप्रतीतिर्युक्ता, नतु शब्दाभावप्रतीतिः, तत्रैकज्ञानसंसर्गिणः कस्यचिदप्यसंभवात् ; इत्यप्यचोद्यम् ; विवक्षित- 5 शब्दाभावप्रतीतौ शब्दान्तरस्यैव एकज्ञानसंसर्गिणः संभवात् / निःशब्दप्रदेशे सर्वशब्दाभावप्रतीतौ तर्हि तदसंभव इति चेत्, न; तत्रापि आत्मस्वरूपसंवेदनस्य तदेकज्ञानसंसर्गिणः संभवात् / यथैव हि घटभूदेशादीनाम् एकत्र ज्ञाने संसर्गः तथा स्वपररूपयोरपि, अखिलज्ञानानां स्वपररूपावभासिस्वभावत्वात् / न चैवं शब्दाभाववत् रूपाद्यभावोऽपि अतोऽनुषज्यते; तेषां प्रतिनियतेन्द्रियग्राह्यतया तदभावस्यापि प्रतिनियतादेव इंन्द्रि- 10 यात् प्रसिद्धः। यो हि यदिन्द्रियग्राह्यः तदभावोऽपि तदिन्द्रियादेव व्यवस्थाप्यते / यदिन्द्रियोपयुक्तो ह्यात्मा यत्र यदा यद्विषयमुपलब्धिलक्षणप्राप्तं नोपलभते तत्र तदा - तस्याभावमधिगच्छतीति / / नित्यत्वे च शब्दस्य प्रागुच्चारणादनुपलम्भः कुतः स्यात्-इन्द्रियाभावात् , शब्दस्यासन्निहितत्वात् , आवृतत्वाद्वा ? न तावदिन्द्रियाभावात्; उच्चारणानन्तरं शब्दो- 15 (1) उत्पन्नः शब्दः विनष्ट: शब्द इति प्रतीतिः / तुलना-"प्रत्यभिज्ञा हि सापेक्षा निरपेक्षा त्वभावधीः / तेनैवमादौ विषये प्रत्यभिज्ञैव बाध्यते // शब्दाभावस्य ग्रहणात् प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् / अपि च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते। तेनास्यां शब्देप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः ? न चैवं प्रत्यक्षेप्यनकान्तिकत्वोद्भावनमपि तु विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देऽपि न साधयितुं प्रभवति..."-न्यायमं० पृ० 224 / स्या० र०पू०६८१ / (2) भ्रान्तिवशाद्भवतः स एवायं शब्द इति प्रत्यभिज्ञानस्य / (3) भूतलआ० टि०। (4) भूतलादौ / (5) शब्दाभावप्रत्यये / (6) तुलना-"विवक्षितशब्दाभावप्रतीतौ शब्दान्तरस्यैकज्ञानसंसर्गिणः संभवात् ।"-स्या०र०प०६८२। (7) तुलना-"तत्राप्यात्मस्वरूपस्य तदेकज्ञान- संसर्गिणः सम्भवात् / स्वपररूपावभासकस्वभावस्य ह्यात्मनः परस्मिन् योग्यदेशावस्थिते वस्तुनि न केवलमात्मस्वरूपसंवेदनं भवेत् यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशावस्थितानि सन्त्यवश्यं प्रतिभासन्ते, तानि सर्वाण्येकज्ञानसंसर्गीणि / तत्र कुम्भादौ प्रतिषेध्यो भूतलादिः आत्मस्वरूपञ्चकज्ञानसंसगि / शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपञ्च, निःशब्दके तु केवलमात्मस्वरूपम् / अथवा मा भवत्वेकज्ञानसंसर्गिपदार्थान्तरं प्रमाणान्तरगृहीतं तु भविष्यति / यथा स्मृतिगोचरे चैत्यकुलादौ क्वचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि ।"-स्या० र० पृ. 682 / (8) परत्वाविशेषात् यथा शब्दाभावो ज्ञातः तथा रूपाभावोऽपि ज्ञायतामित्यर्थ:-आ० टि। स्वपररूपग्राहिणः कस्माच्चिदपि ज्ञानात् / (9) रूपादीनाम् / (10) यद्ग्रहे यदपेक्षं चक्षुः तदभावग्रहेऽपि तदंपेक्षते इति किरणावलीवचनात् यद्भावो यावत्या सामग्र्या गृह्यते तदभावोऽपि तावत्यैव -आ० टि०। (11) येनेन्द्रियेण यद्गृह्यते तेन तन्निष्ठा जातिस्तदभावश्च गृह्यते इति नियमात् / ___1-भूप्रदेशादीनाम् ब०, श्र०।।