________________ 704 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० ननु तैलादिकारणस्य उत्तरत्र क्षयोपलम्भतः प्रदीपादेः प्रतिक्षणमन्यत्वप्रसिद्धेः युक्तमेकत्वासत्त्वं न शब्दस्य विपर्ययात् ; इत्यप्यनुपपन्नम् ; अस्यापि ताल्वादिसंयोगविभागलक्षणकारणस्य उत्तरत्र प्रक्षयप्रतीतितः प्रतिसमयमन्यत्वसिद्धेः एकत्वासत्त्वोपपत्तेः / तत्सं योगविभागयोः तैदभिव्यञ्जकवायूत्पादे कारणत्वं न शब्दे इत्यभ्युपगमे वर्तिकामुखतै5 लानलसंयोगादेरपि प्रदीपाद्यभिव्यञ्जकवायूत्पादे कारणत्वं न तदुत्पादे इत्यप्यभ्युपगम्यतामविशेषात् / प्रतीतिविरोधः अन्यत्रापि न काकैर्भक्षितः / / यदपि प्रत्यभिज्ञानस्य प्रत्यक्षत्वमुक्तम् ; तदप्ययुक्तम् ; प्रत्यक्षपरिच्छेदे विशदस्वभावस्यैव ज्ञानस्य प्रत्यक्षत्वप्रतिपादनात् / न चेदं तत्स्वभावम् , अतः कथमस्य प्रत्यक्ष ताशङ्कापि ? अक्षान्वयव्यतिरेकानुविधायित्वात्तस्य तद्रूपता; इत्यप्यसत् , तस्य तदन्वयव्य10 तिरेकानुविधायित्वाभावात् , दर्शनस्मरणान्वयव्यतिरेकानुविधायितया तस्य प्रत्यभिज्ञा परीक्षाप्रघट्टके प्ररूपितत्वात् / प्रत्यक्षत्वे चास्य अतीतकालपरिगतत्वेन शब्दग्राहकत्वानुपपत्तिः, सम्बद्धवर्तमानार्थगोचरचारित्वात्तस्य / तद्राहकत्वे वा कर्थ योगिप्रत्यक्षस्य प्रतिक्षेपः प्रत्यक्षत्वेऽप्यस्य तद्वद् अतीताद्यर्थग्राहकत्वाविरोधात् ? .. अस्तु वा यथाकथञ्चित् तत्प्रत्यक्षम् ; तथापि न तत् शब्दस्यैकत्वप्रसाधकम् , तदु16 त्पादविनाशग्राहिणा प्रमाणान्तरेण बाध्यमानत्वात् , यत् प्रमाणान्तरेण बाध्यते न तत् स्वविषयव्यवस्थापकम् यथा शुक्तिशकले रजतग्राहिप्रत्यक्षं शुक्तिस्वरूपग्राहिप्रत्यक्षान्तरेण, बाध्यते च तदुत्पादविनाशग्राहिणा तेन तदेकत्वग्राहिप्रत्यभिज्ञानमिति / न चेदमसिद्धम् ; प्रत्यक्षस्यैवं तावत् तदुत्पादविनाशग्राहकत्वेन तद्बाधकत्वसंभवात् / तथाहि-'उत्पन्नः शब्दः विनष्टः' इति प्रतीतिः इन्द्रियव्यापारानन्तरं प्रतिप्राणि संवेद्यमानोपजायते / न (1) तुलना-"शब्दस्य ताल्वादिसंयोगविभागलक्षणकदम्बकस्य उत्तरत्र क्षयप्रतीतित: प्रतिक्षणमन्यत्वसिद्धेरेकत्वासत्त्वोपपत्तेः ।"-स्या०र० पृ०६८१ / (2) ताल्वादि-आ० टि०। (3) शब्दाभिजक / (४)प्रदीप-आ० टि० / (५)पृ०६९८५०११। (6 प्रत्यभिज्ञानम् / तुलना-"एवम्मन्यते -प्रथमे क्षणे शब्दग्रहणं द्वितीयक्षणे पूर्वगृहीतशब्दाहितसंस्कारप्रबोधः ततोऽन्यस्मिन् क्षणे शब्दस्मरणम् , ततश्चतुर्थे क्षणे तिरोहिते तस्मिन् स एवायं घटशब्द इति प्रत्यभिज्ञानं कथं प्रत्यक्षं स्यादसन्निहितविषयत्वात् ।"-प्रमाणवा० स्ववृ० टी० पृ० 378 / (7) प्रत्यभिज्ञानस्य / (8) प्रत्यभिज्ञानस्य (9) पृ० 415 / (10) प्रत्यभिज्ञानस्य / (11) 'सः' इति-आ०टि०। (12) प्रत्यक्षस्य / तुलना“पूर्वकालसम्बन्धित्वस्येदानीमसन्निहितत्वेनाऽग्रहणात् / ग्रहणे वा श्रोत्रज्ञानवत् स्पष्टप्रतिभासः स्यात् ।"-प्रमाणवा० स्ववृ० टी० पृ० 352 / (13) अतीतग्राहकत्वे-आ० टि०। (14) प्रतिक्षिपन्ति हि मीमांसकाः सर्वज्ञम् आ० टि०। (15) योगिप्रत्यक्षस्य / (16) प्रत्यभिज्ञानवत्-आ० टि०। (17) प्रत्यभिज्ञानम् / (18) तुलना-"शब्दे विनाशविज्ञानात्तु न सा नित्यत्वसाधिका।"न्यायमं० पृ० 224 / (19) प्रत्यक्षेण-आ० टि०। (20) शब्दोत्पादविनाश / (21) स एवायं शब्द इति प्रत्यभिज्ञानबाधकत्वसंभवात् / 1-क्षयोपलंभः प्र-श्र०। 2-लानिल-आ013-व्यवस्थाग्राहकम् आ०। 4-व तावदुत्पाव-ब०, -वतदुत्पाद-श्र०।