________________ 702 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० शब्दे वाचकसामर्थ्य तैदा दूषणमुच्यताम् / फैलवद्वयवहाराङ्गभूतार्थप्रत्ययाङ्गता // 2 // . निष्फलत्वेन शब्दस्य योग्यत्वादवगम्यते / परीक्ष्यमाणस्तेनास्यं युक्त्या नित्य-विनाशयोः॥३॥ स धर्मोभ्युपगन्तव्यो यः प्रेधानं न बाधते / नहि अङ्गाङ्ग-यनुरोधेन प्रधानफलबाधनम् // 4 // युज्यते, नाशिपक्षे च तदेकान्तात् प्रसज्यते / नहि अदृष्टार्थसम्बन्धः शब्दो भवति वाचकः // 5 // 5 तथा च स्यादपूर्वोऽपि सर्वः सर्व प्रकाशयेत् / सम्बन्धदर्शनश्चास्य नाऽनित्यस्योपपद्यते // 6 // सम्बन्धज्ञानसिद्धिश्चेद् ध्रुवं कालान्तरस्थितिः।अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत् // 7 // गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः।" [मी० श्लो० शब्दनि० श्लो० 237-44] इति / अथ सदृशतया शब्दस्य अर्थप्रतिपत्तिहेतुत्वोपपत्तेः नापत्तितोऽस्य नित्यत्वसिद्धिः; तदयुक्तम् ; तत्सादृश्यस्य विचार्यमाणस्यानुपंपत्तितः तथा तस्य तद्धेतुत्वा10 नुपपत्तेः / उक्तञ्च - (1) "ननु माभूदर्थप्रत्यायनं तथापि किमित्यनित्यता न भवति ? अत आह-फलवदिति / फलवतो गवानयनादिव्यापारस्य अङ्गभूतोऽर्थप्रत्ययः तत्फलत्वेनैव फलवान्, शब्दस्योच्चारणसंस्कारभाजः' स्वयमफलस्य फलवत्प्रत्ययाङ्गताऽवगम्यत इति / ततः किमित्याह-परीक्षमाण इति / अर्थप्रत्ययाङ्गस्य शब्दस्य स एव धर्मः स्वाङ्गत्वेन ग्रहीतव्यो यश्च प्रधानमर्थप्रत्ययं न बाधत इति / कारणाह-नहीति / अर्थप्रत्ययाङ्गभूतस्य शब्दस्य यदङ्गमनित्यत्वं तदनुरोधेन यत्तत्प्रधान शब्दः तत्फलस्य अर्थप्रत्ययस्य बाधनमयुक्तमिति / तथापि कथं नानित्यत्वमत्राह-नाशीति / कथमित्याह-नहीति / किमित्यवाचकः ? अत आह-तथा चेदिति / सम्बन्धज्ञानञ्च न क्षणिकस्य संभवतीत्याह-सम्बन्धेति / " -न्यायर० पृ० 790 / (2) अर्थप्रत्ययाकरत्वे-आ० टि०। (3) 'दवधार्यते'-मी० इलो०। / (4) शब्दस्य / (5) प्रधानं व्यवहाराख्यं फलम्-आ० टि०। (6) 'अङ्गाङ्गानुरोधेन' -मी० श्लो० / अर्थप्रत्ययः-आ० टि०। (7) शब्द:-आ० टि०। (8) व्यवहारः-आ० टि०। (9) "ननु कियन्तं चित्कालमवतिष्ठन्तां शब्दाः, यावत्सम्बन्धदर्शनं तस्य व्यवहारश्च संभवति, नैतावता नित्यत्वसिद्धिरत आह-सम्बन्धेति / नन्वन्यस्यैव गोशब्दस्य सम्बन्धं गृहीत्वा अन्यस्मादर्थं प्रत्येष्यामो नावश्यमेकस्यैव स्थायित्वमत आह-अन्यस्मिन्निति, एवं ह्यव्यवस्था स्यादिति ।"-न्यायर० पृ० 791 / (10) यस्य हि सम्बन्धो ज्ञातः सोऽन्यः यश्च वाचकः सोऽन्यः विनाशित्वात्-आ० टि०। (11) उद्धृता इमे-प्रमेयक० पृ०४०५-६। द्वितीयतुतीयचतुर्थश्लोकान् विना-स्या० र०प० 678 / पञ्चमषष्ठसप्तमश्लोकाः किञ्चित्पाठभेदेन-तत्त्वसं० पृ० 617 / (12) "अर्थत्वसादृश्यादर्थावगम इति चेत्, न कश्चिदर्थवान सर्वेषां नवत्वात् / कस्यचित्पूर्वस्य कृत्रिमसम्बन्धो भविष्यतीति चेत् ; तदुक्तम्, सदृश इति चावगते व्यामोहात्प्रत्ययो व्यावर्तेत शालाशब्दान्मालाप्रत्यय इव।"-शाबरभा० 21118 / 'ननु तत्तुल्योपादानमभेदमुपादाय सिध्यति पारायं दर्शनस्य; सत्यम् ; सिध्यति, किन्तु नेत्थम्भूतत्वे प्रमाणमस्ति / न कस्यचिदप्यासंसारं जन्तोः पूर्वोक्तसदृशमुच्चारयामि तत्सदृश एवायमिमिति ज्ञानोत्पादो दृष्टः / अत एव चाविपरीतं प्रतिपद्यन्ते / अन्यथा मालाशब्दप्रत्ययस्येव शालाशब्दसंवेदनादविपर्ययः स्यात् ।"-बृहती० 111 / 18 / शास्त्रदी० पू० 560 / नयनि०१० 24 / (13) सादृश्यद्वारेण / (14) शब्दस्य / (15) अर्थापत्ति (अर्थप्रतीति) हेतुत्वानुपपत्ते:-आ० टि०। __ 1 ततो दू-ब०। 2 निःफल-थ०, ब०। 3 असदशतया श्र०। 4-त्वोपपन्नाप-श्र० / 5-पत्तेस्तथा ब०।