________________ प्रवचनंप्र० का०६५ ] शब्दनित्यत्ववादः "कञ्चित् कालं स्थिरः शब्दः सर्वकालमपि स्थिरः / विनाशहेतुशून्यत्वात् सामान्याकाशकालवत् // " [ ] तथा, विवादाध्यासितः कालः गादिशब्दशून्यो न भवति कालत्वात् इदानीन्तनकालवत् / तथा, अर्थापत्तितोप्यस्य नित्यत्वं सिद्धम् ; तथाहि-नित्यः शब्दः ततोऽर्थप्रतिपत्यन्यथानुपपत्तेः / न चेय अन्यथापि अन्यथैव वा उपपद्यते; शब्दस्यानित्यत्वे सर्व- 5 थानुपपद्यमानत्वात् / प्रतिपन्नप्रतिबन्धाद्धि शब्दादर्थप्रतिपत्तिः स्यात्, नान्यथा अतिप्रसङ्गात् / न चाऽनित्यत्वे शब्दस्य प्रतिपन्नप्रतिबन्धस्य उत्तरकालमनुवृत्तिः संभवति; तस्य तदैव विनाशात् / तदुक्तम्"र्थापत्तिरियं चोक्ता पक्षधर्मादिवर्जिता। यदि नाशिनिनित्ये वा विनाशिन्येव वा भवेत् // 1 // (1) 'अनपेक्षत्वात् 1 / 1 / 21 / येषामनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते तेषामपि केषाञ्चिदनित्यता गम्यते येषां विनाशकारणमुपलभ्यते, यथा अभिनवं पटं दृष्ट्वा / न चैनं क्रियमाणमुपलब्धवान् अथ चानित्यत्वमवगच्छति रूपमेव दृष्ट्वा / तन्तुव्यतिषङ्गजनितोऽयं तन्तुव्यतिषङ्गविनाशात्तन्तुविनाशाद्वा विनश्यतीत्यवगच्छति / नैवं शब्दस्य किञ्चित्कारणमवगम्यते यद्विनाशाद्विनक्ष्यति इत्यवगम्यते ।"-जैमिनिसू०, शाबरभा० 11121 / “एवं स्थितस्य शब्दस्य श्रुतिकालात्क्षणान्तरे। संभाव्यते विनाशित्वं न भूयोऽन्येन हेतुना // यथा शस्त्रादिभिर्भेदाज्जरया वा पटादयः / नङ क्ष्यतीत्यवगम्यन्ते नैवं शब्देऽस्ति कारणम् ।।"-मी० श्लो० शब्दनि० श्लो. 442-43 / उद्धृतोऽयम्-स्या० र० पृ० 676 / “अस्यार्थः- शब्दः सर्वकालं स्थिरः विनाशहेतुशून्यत्वात् / विनाशहेतुशून्यत्वञ्च कञ्चित्कालं स्थिरत्वात्सिद्धम् / स हि सम्बन्धकरणकालं यावदनुपद्रुतः पश्चादपि केनापनीयतामिति ।"-स्या०र० पृ०६७६ / (2) तुलना-स्या० र० पृ० 676 / (3) "नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्। नित्यः शब्दो भवितुमर्हति। कुतः ? दर्शनस्य परार्थत्वात् / दर्शनमुच्चारणं तत्परार्थं परमर्थ प्रत्याययितुम् / उच्चरितमात्रे हि विनष्ट शब्दे नचाऽन्योऽन्यानर्थ प्रत्याययितुं शक्नयात अतो न परार्थमुच्चार्येत / अथ न विनष्टस्ततो बहश उपलब्धत्वादर्थावगम इति युक्तम् ।"-जैमिनिसू०, शाबरभा० 21 / 18 / “अर्थप्रतिपत्त्यन्थानुपपत्त्या तु नित्यत्वमेव युक्तम् / न हि प्रत्युच्चारणमन्यस्यान्यस्य क्रियमाणस्यार्थप्रत्यायकत्वं संभवति सम्बन्धग्रहणासंभवात्, अगृहीतसम्बधिस्य चाऽप्रत्यायकत्वात् / न चान्यस्मिन् गृहीतसम्बन्धेऽन्यस्य प्रत्यायकत्वं संभवति / न हि गोशब्दे गृहीतसम्बन्धेऽश्वशब्दः प्रत्याययति ।"-शास्त्रदी० पृ० 559 / "शब्दो नित्यः परार्थदर्शनसम्बन्धित्वात् धूमादिवदिति ।"-नयवि० पृ० 242 / (4) अर्थप्रतिपत्तिः / (5) नित्ये च अनित्ये [च-आ० टि०। (6) अनित्ये एव-आ० टि०। (7) अनित्यशब्दस्य / (8) शब्दो नित्यः दर्शनस्य परार्थत्वाऽन्यथानुपपत्तेः, परार्थवाक्योच्चारणान्यथानुपपत्तेः, अर्थप्रतीत्यन्यथानुपपत्तेर्वा / (9) अनुमानत्वाद्यभावः-आ० टि०। (10) "अर्थापत्तौ हि द्वावेव दोषौ अन्यथाप्युपपत्तिरन्यथैवोपपत्तिश्च / तदिहापि यद्यनित्यत्वेऽप्यर्थप्रत्यायकत्वमुपपद्येत अनित्यत्व एव वा ततो दूषणं स्यात् नतु तदस्तीत्याह यदीति ।"-ज्यायर० 10790 / “यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन संशय उक्तः विनाशिन्येव वा शब्दे वाचकसामर्थ्यमित्यनेन तु विपर्यय उपदर्शितः तदा दूषणमुच्यतामिति / यदैव शब्दे वाचकसामर्थ्य सन्दिग्धं विपर्यस्तञ्च स्यात्तदा दूषणावसरः एतच्चात्रोभयमपि नास्तीति भावः।" -स्या०र०ए०६७८। (11) नाशिनि नित्ये वेति निरवधारणत्वात् मिलितमेव 'अन्यथापि' इत्यस्य व्याख्यानम, विनाशिन्येव इति तु 'अन्यथैव' इत्यस्य-आ० टि०। 1-त्वं तथा-श्र०।