________________ 700 . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० न चानेकार्थगोचरा गौरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवत् / 'गोशब्दव्य- . क्तिबुद्धयः' इत्युच्यमाने सिद्धसाध्यता स्यात् , एकगोशब्दव्यक्तिबुद्धेः एकविषयत्वाभ्युपगमात् , तन्निवृत्त्यर्थं बहुवचनम् / तथा 'सामान्ये गोशब्दनिबन्धनाः समाना एव धियः प्रभवन्ति' इति तन्निरासार्थ व्यक्तिग्रहणम् / एकस्मिन् देशे काले वा बहूनां प्रमातृणां गोशब्दज्ञानानि एकगोशब्दव्यक्तिगोचराणि इति सिद्धसाध्यताप्रसङ्गव्यवच्छेदार्थ 'देशकालादिभिन्नाः' इत्युक्तम् / ह्यस्तनो वा गोशब्दः अद्याप्यनुवर्तते गौरिति ज्ञायमानत्वात् अद्योच्चारितगोशब्दवत् / अद्यतनो वा गोशब्दः ह्योऽपि आसीत् गौरिति ज्ञायमानत्वात् ह्य उच्चारितगोशब्दवत् / "शब्दो वा वाचकः दीर्घकालावस्थायी सम्बन्धबलेन अर्थमतिजनकत्वात् धूमसामान्यवत् / यस्तु अस्थिरः स सम्बन्धबलेन 10 नार्थं बोधयति तादात्विकनिमित्तत्वात् प्रदीपविद्युत्प्रकाशवत् / तदेवम् तुलना-"देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः / समानविषयाः सर्वा न वा नानार्थगोचराः // गौरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत् / गोशब्दव्यक्तिषु या बुद्धयो देशकालद्रुतमध्यबिलम्बितादिप्रति: . भेदभासभिन्नास्ता एकार्थविषया: नानार्थविषया न वा भवन्ति गौरित्याकारोपग्रहेणोत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोबुद्धिवत् / अथवा या या गोशब्दविषया बुद्धिः साऽद्यतनगोशब्दविषया गोशब्दविषयत्वात् अद्यप्रसूतगोशब्दबुद्धिवत् / गोशब्दविषया च ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः / अथवा अह्यस्तनी गोशब्दबुद्धिर्धर्मिणी ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः गोशब्दविषयत्वादिति हेतुः ह्यस्तनी गोशब्दबुद्धिदृष्टान्त: ." अथवा, उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत्। अथवा, समस्ता गोत्वबुद्धयः देशादिभेदभिन्ना एकगोशब्दजन्या गोधीत्वादेकगोबुद्धिवत्। पूर्वं गोशब्दविषया बुद्धयः धर्मिण्यः एकविषयत्वञ्च साध्यम्, इदानीञ्च गोत्वजातिविषया बुद्धयो धर्मिण्यः एकगोशब्दजन्यत्वं साध्यमिति विशेषः।"-तत्त्वसं० 50 पृ० 592 / स्या०र० पृ० 676 / (1) "नित्ये तु सति गोशब्दे बहुकृत्व उच्चरितः श्रुतपूर्वश्चान्यासु गोव्यक्तिषु अन्वयव्यतिरेकाभ्यामाकृतिवचनमवगमयिष्यति, तस्मादपि नित्यः ।"-शाबरभा०१।१।१९। “ह्यस्तनोच्चारितस्तस्माद्गोशब्दोऽद्यापि विद्यते / गोशब्दज्ञानगम्यत्वाद्यथोक्तोऽद्यैष गौरिति ॥"-मी०श्लो०शब्दनि०इलो० 416 / (2) "ह्यो वाऽऽसीदेष गौशब्द: पूर्वोक्तेनैव हेतुना / यद्वा गोत्वाभिधायित्वं वाच्यो हेतुयोरपि ॥"मी० श्लो० शब्दनि० श्लो० 417 / तुलना-"गौरिति श्रूयमाणोऽद्य ह्योऽपि शब्दो मया श्रुतः। हेतोः पूर्वोदितादेव ह्य उच्चारितशब्दवत् ॥"-तत्त्वसं० पृ० 592 / स्या० र० पू० 676 / (3) "अत्रोच्यते स्थिरः शब्दो धूमगोत्वादिजातिवत् / सम्बन्धानुभवापेक्षसामान्यार्थावबोधनात् // " -मी० श्लो० शब्दनि० श्लो० 311 / तुलना-"शब्दो वा वाचको यावान् स्थिरोऽसौ दीर्घकालभाक् / सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्तनात् / य ईदृक् स स्थिरो दृष्ट: धूमसामान्यभागवत् ॥"-तरवसं० पृ० 592 / स्या० र० पृ० 676 / (4) वाच्यवाचकभावेन-आ० टि० / (5) तुलना-"अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः / तादात्विकनिमित्तत्वाद् दीपविद्युत्प्रकाशवत् ॥"-तत्त्वसं० पृ० 592 / स्या० र० पु०६७६ / (6) न हि प्रदीपादिप्रकाशस्य नियतेन घटादिना सम्बन्धोऽस्ति, तादात्विकनिमित्तत्वात्, यत्र यत्र याति तत्र तत्र प्रकाशयति / सम्बन्धे हि स्मृत्यपेक्षा भवति, न च घटप्रदीपादयस्तथा -आ०टि० / "तादात्विकं तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः तद्भावस्तत्त्वम् ।"-तत्त्वसं० पं० पृ० 593 / स्या० 2010 676 / 1 ह्यापि ब०। 2 गोशब्दो वा श्र०। 3 चोदयति श्र।