________________ प्रवचनंप्र० का०६५] शब्दनित्यत्ववादः "नैहि स्मरणतो यत् प्राक् तत्प्रत्यक्षमितीदृशम् / वचमं राजकीयं वा लौकिकं वापि विद्यते // 1 // न चापि स्मरणात् पश्चादिन्द्रियस्य प्रवर्त्तनम् / वार्यते केनचिन्नापि तत्तदानी प्रदुष्यति // 2 // तेनेन्द्रियार्थसम्बन्धात् पागूर्ध्वञ्चापि यत्स्मृतेः / विज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम् // 3 // " [मी० श्लो० प्रत्यक्ष० श्लो० 234-37 ] इति / एवमतः शब्दस्य नित्यत्वे सिद्धे इदानीमिव अन्यदापि यच्छब्दस्योच्चारणं न / तत्तस्य जनकं किन्तु अभिव्यञ्जकम् / अत इदमुच्यते-अन्यदापि यत् शब्दस्य उच्चारणं तदस्याभिव्यञ्जकम् उच्चारणत्वात् , यद् यद् उच्चारणं तत्तदभिव्यञ्जकम् यथा एतत्कालोपलक्षितमुच्चारणम् , तथा च प्रेकृतम् , तस्मादिदमपि तथा / तथा, विवादाध्यासितो वा कालः गादिसम्बद्धः कालत्वात् प्रतिपादितशब्दसम्बद्धकालवत् / अतः सिद्धमस्य अनुमानतोऽपि नित्यत्वम् / इतोऽप्यनुमानात् 10 तत्सिद्धम्-नित्यः शब्दः, श्रावणत्वात् , यद् यदेवं तत्तथा यथा शब्दत्वम् , तथा चाऽयम् , तस्मादयमपि तथा / तथा, देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धयः एकगोशब्दविषया (1) 'नन्विदं भवत्यधिकविषयं स्मरणोत्तरकाले भवत् कथं प्रत्यक्षम् ? न हि निर्विकल्पकस्य प्रत्यक्षस्यैष धर्मो दृष्ट अतः आह-नहीति। न हि स्मरणात् प्राग्भाविता प्रत्यक्षलक्षणम्, अपि तहि इन्द्रियजत्वम्, तच्चात्राप्यविशिष्टमिति भावः / यदि स्मरणेनेन्द्रियप्रवृत्तिरेव वार्यते तदा दूष्यते, ततस्तदुत्तरकालं जायमानं सविकल्पकं प्रत्यक्षं भवेदपि, न त्वेतदस्ति इत्याह न चेति / यतः स्मृत्या नेन्द्रियं विरुध्यते न वा दूष्यते, तेन प्रागवं वा स्मृतेर्यदिन्द्रियार्थसम्बन्धाद् ज्ञानं जायते सर्वं तत्प्रत्यक्षमभ्युपगन्तव्यमित्याह-तेनेति ।"-काशिका / (2) अर्थात् यच्च स्मरणादूध्वं तदप्रत्यक्षम्-आ० टि० / (3) 'राजकीयं वा वैदिकं वापि'-मी० इलो० / 'राजकीयं वा लौकिकं नापि'-सन्मति० टी० ए० 319 / उद्धृता इमे-प्रमेयक० पृ० 339 / सन्मति० टी० पृ० 319 / स्या० र० 499 / (4) प्रत्यभिज्ञानात् / (5) शब्दस्य / (6) "यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यते इति भविष्यतीति ।"-शाबरभा० 111 / 12 / "शब्दस्य प्रयत्न एव कारणतया संभावितः। स च प्रत्यभिज्ञाबलेन द्वितीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति प्रथमदर्शनेप्यसौ अभिव्यञ्जक एव अतः कारणरहितत्वेन सत्त्वान्नित्यः शब्द: गगनादेरिव नास्याऽनित्यतेति ।"-प्रक० पं० 10 170 / भाट्टचि० पृ० 26 / “एवञ्चोच्चारणं शब्दस्य न कारणं किन्तु अभिव्यञ्जकमिति सिद्धम् / न चोच्चारणादन्यत्कारणं संभवतीत्यकार्यत्वम्, अत एवाविनाशान्नित्यत्वसिद्धिः ।"शास्त्रदी० पृ० 590 / "शब्दः प्रयत्नाभिव्यङ्यः यथा तदनुत्पाद्यत्वे सति तदनन्तरमुपलब्धः, यो यदनुत्पाद्यत्वे सति यदनन्तरमुपलभ्यते स तदभिव्यङ्ग्यः यथा प्रदीपानन्तरमुपलभ्यमानो घट: ।"तन्त्ररह० पृ० 26 / मानमेयो० पृ० 221 / (7) "श्रौत्रता चेयं हेतुः शब्दत्ववत्कृतः / यद्वा श्रोत्रप्रत्यक्षत्वमत्र हेतुः, तद्धि शब्दत्वदृष्टान्तेन शक्नोति नित्यत्वं साधयितुमित्याह श्रौत्रेति।"-मी०श्लो०, न्यायर० शब्दनि० श्लो० 393 / 'प्रयोगश्चैवं भवति नित्यः शब्दः श्रावणत्वाच्छब्दत्ववत् ।"-शस्त्रदी० पृ० 585 / (8) "देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः / एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत् // गोशब्दबद्धयोऽप्येवमेकगोशब्दगोचराः।। गोशब्दविषयत्वेन कल्प्यतामेकबधिवत ॥...."गोशब्दबद्धया ह्यस्तन्या गोशब्दोऽयं प्रकाशितः / गोशब्दविषयत्वेन यथैवाद्यप्रसूतया / इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत् / उभे वाप्येकविषये भवेतामेकबुद्धिवत् ।"-मी० श्लो० शब्दनि० श्लो० 418-21 / 1 प्रागवापि आ० / 2-पि शब्दस्य श्र० / 3 प्रकतत्वं त-श्र०।