________________ 10 668 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० ख्यप्रत्यक्षत एव तावच्छब्दानां नित्यत्वं प्रतीयते / न चास्य अज्ञानलक्षणमप्रामाण्यम् प्रतिप्राणि संवेद्यमानत्वात् / नापि संशयरूपम् ; एकांशावलम्बित्वात् / उभयांशावलम्बी हि प्रत्ययः संशयः, न चेदं तथा / नापि मिथ्यास्व(त्व) रूपम् ; अबाध्यमानत्वात् / यदेव हि ज्ञानं बाध्यते तदेव मिथ्या प्रसिद्धं यथा शुक्तिकायां रजतज्ञानम् , न चेदं देशकालनरान्तरेष्वपि बाध्यते / न च दुष्टकारणप्रभवत्वादस्याप्रामाण्यम् ; तत्कारणानां दुष्टत्वानिश्चयात् / नापि अधिगताधिगन्तृत्वात् ; स्मर्यमाणानुभूयमानविशेषणावच्छिन्नस्य गकारादेः पूर्वसंवेदनाविषयत्वात् / तदुक्तम् "पूर्वावगतोऽशोऽत्र स न नाम प्रतीयते / इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् // ". [ मी० श्लो० प्रत्यक्ष० श्लो० 233-34 ] इति / प्रत्यक्षत्वश्चास्यं श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात् सुप्रसिद्धम् / न च स्मृतिपूर्वकत्वादस्य अप्रत्यक्षत्वं युक्तम् ; तत्पूर्वकत्वेऽप्यस्य सैसँम्प्रयोगजत्वेन प्रत्यक्षत्वोपपत्तेः / उक्तश्चप्रत्यभिज्ञानात् प्रागस्तीत्यवगम्यते।"-मी० श्लो० शब्दनि० श्लो० 33 / भाट्टचि० पृ० 26 // "एतदुक्तं भवति-प्रत्यभिज्ञाख्यविशेषप्रत्ययबलेन ह्यस्तनाद्यतनगकारयोरेकत्वावगमान्नित्यत्वमाश्रीयते ... अतो गत्वादिसामान्यनिबन्धनेयं प्रत्यभिज्ञा सिद्धयति / एवं सति व्यक्तिभेदे सामान्यं तदभावात्तु नास्ति सामान्यमित्येव वक्तव्यम् , अतः सिद्धं प्रत्यभिज्ञया शब्दस्य नित्यत्वम्।"-शास्त्रदी० 50 540,568 / तन्त्ररह० पृ० 26 / (1) प्रत्यभिज्ञानस्य। (2) प्रत्यभिज्ञानस्य मिथ्यात्वरूपमप्रामाण्यम् / (3) प्रत्यभिज्ञानम् / (4) प्रत्यभिज्ञानकारणानामिन्द्रियादीनाम् / “प्रमाणं प्रत्यभिज्ञानं दृढेन्द्रियतयोच्यते ।"-मी० श्लो. शब्दनि० श्लो० 372 / (5) स एवापम्-आ० टि०। (6) पूर्वप्रत्यक्ष / (7) "ननु गृहीतमपि गृह्यते इति कथं प्रामाण्यमत आह य इति / तस्मिन्नं मा भूत्प्रामाण्यम् अगृहीतकालान्तरसम्बन्धापेक्षमेव तु प्रामाण्य मिति ।"-न्यायर० / "ननु न केवलमधिकं गम्यते किन्तु प्रागवगतमपि इति कथं प्रामाण्यमत आह यः पूर्वेति / सविकल्पके हि शब्दार्थस्वरूपसम्बन्धकालसम्बन्धाः प्रथन्ते तत्र शब्दादिरंशोऽस्मृतिविषय इति मा नाम प्रमाणविषयो भवतु इदानीन्तनी तु वस्तुसत्ता न पूर्वमवधृतेत्यस्ति तत्र प्रमाणावसर इति स्थितं प्रामाण्यम् / इन्द्रियव्यापारानुविधानाच्च प्रत्यक्षत्वमिति / एकञ्चेदं पूर्वविज्ञानजनितसंस्कारप्रत्युत्पन्नेन्द्रियादिकारणकं वेदितव्यम् ।"-काशिका / 'पूर्वमवगतोऽशः स न नाम'प्रमेयक० पृ० 339 / 'पूर्वमवगतो नांशः स च नाम'-सन्मति० टी० 319 / 'यः पूर्वावगतोऽशोऽत्र स नो नाम'-स्या०र० पृ० 675 / उत्तरार्धम्-तत्त्वोप० पृ० 27 / प्रमाणवा० स्व० टी० पृ० 77 / तत्त्वसं० पृ० 159 / (8) स एवायं शब्द इति प्रत्यभिज्ञानस्य / (9) प्रत्यभिज्ञानस्य / "तत्र शब्दार्थसम्बन्धं प्रमातुः स्मरतोऽपि या / बुद्धिः पूर्वगृहीतार्थसन्धानादुपजायते // चक्षुषा सनिकृष्टेऽर्थे नाऽप्र. त्यक्षमसौ भवेत् ॥"-मी० श्लो० प्रत्यक्ष० श्लो० 229-30 / (10) संश्चासौ सम्प्रयोगश्चेति कर्मधारयः तथा च इन्द्रियाणामर्थेन सार्क सम्बन्धे विद्यमाने सतीत्यर्थः / तुलना-"किं पुनरिदं प्रत्यभिज्ञाख्यं प्रमाणम् ? प्रत्यक्षमिति ब्रूमः / पूर्वानुभवजनितसंस्कारसध्रीचीनेन्द्रियजन्यत्वात् ग्रहणस्मरणरूपमिदमेकं ज्ञानम् ।"-शास्त्रदी० पृ० 568 / 1 सत्संयोग-श्र०।