________________ प्रवचनप्र० का०६५] शब्दनित्यत्ववादः 667 अभिप्रेतव्यभिचारित्वं कुतोऽपनीयते सुषुप्तादौ वाग्वृत्तेर्दर्शनात् / अनिच्छतामपि अपशब्दादिभाषणसद्भावात् वाञ्छतामपि मन्दबुद्धीनां शास्त्रवक्तृत्वाभावात् / उभयत्र व्यभिचारान कस्यचिद्वाचकाः शब्दा इति अलौकिकप्रतिभानम् / लोको हि अर्थस्याप्त्यनाप्तिषु सत्यानृतव्यवस्थामातिष्ठेत शब्दस्य नाभिप्रायमात्रे तत्र शब्दव्यवहारबाहुल्याभावात् / अबाधितां तत्प्रतीतिमतिक्रम्य खेच्छया प्रमाणप्रमेय- 6 खरूपमातिष्ठमानानां युक्तम्-अभिप्रेतमात्रसूचकत्वं शब्दानाम् / वर्णपदवाक्यानि प्राहुः, कान् ? अर्थान् घटादीन् / किंविशिष्टान् ? कारिकार्थः . अवाञ्छितान् वाञ्छयाऽविषयीकृतान् वाञ्छितांश्च तद्विषयी कृतांश्च शास्त्रव्याख्यानाद्यर्थान् कचित् मन्दबुद्धिप्राणिषु न प्राहुः इति एवं प्रसिद्धिः लोकप्रतीतिरियं सकलजनसाक्षिकी। ईदृशी विचित्रा / तदन- 10 भ्युपगमे दूषणमाह-'स्वेच्छया' इत्यादि / स्वेच्छया स्वाभिप्रेतप्रक्रियामात्रेण तां प्रसिद्धिमतिक्रम्यैव वदतां सौगतानां युज्यते। किं तद् ? इत्याह-वक्त्रभिप्रेतमात्रस्य सूचकं वचनं त्विति / ___ननु वर्णादयोऽर्थानवाञ्छितान् किमनित्याः सन्तः प्रतिपादयन्ति, नित्या वा ? / तत्राद्यः पक्षोऽनुपपन्नः; अनित्यत्वे तेषाम् उत्पन्नमात्रप्रध्वंसित्वेन 15 शब्दनित्यत्ववादिना - मीमांसकानां पूर्वपक्षः सङ्केतव्यवहारकालाननुयायित्वतः तत्प्रतिपादकत्वानुपपत्तेः / द्वितीय ___ पक्षस्तु उपपन्नः; नित्यानां तेषां तदनुयायित्वेन तत्प्रतिपादकत्वोपपत्तेः। . ' प्रमाणतः तन्नित्यत्वस्यैव प्रसिद्धेश्व। तथाहि-'स एवाऽयं गकारः' इत्यादि प्रत्यभिज्ञा (1) तुलना-"विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्ष्यते / वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥"-न्यायवि. का. 354 / "विज्ञानगुणदोषाभ्यां वाग्वत्तेर्गणदोषता / वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ।"-प्रमाणसं० का० 16 / प्रमाणसं० टि० पृ० 173 पं० 23 / (2) तुलना-"बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति / सत्यानृतव्यवस्थेवं युज्यतेऽर्थाप्त्यनाप्तिषु // " -आप्तमी० का०८७। (3) अर्थप्रतिपादकत्वाऽनुपपत्तेः / “यदा हि क्षणिकः शब्दो न शक्तोऽर्थावधारणे / न हि क्षणिकस्य सम्बन्धग्रहणं संभवति..."-मी० श्लो० शब्दनि० श्लो० 3, न्यायर०। (4) कुमारिलमते हि शब्दो नित्यः द्रव्यरूपश्च / "श्रोत्रमात्रेन्द्रियग्राह्यः शब्दः शब्दत्वजातिमान् / द्रव्यं सर्वगतो नित्यः कुमारिलमते मतः ॥"-मानमेयो०१० 218. प्रभाकरमते च शब्दो नित्योऽपि आकाशस्य गुणो न तु स्वतन्त्रं द्रव्यम् / द्रष्टव्यम्-"आकाशश्च शब्दवानिति, स एव श्रोत्रं तद्गुणश्च शब्द:.."-प्रक० पं० न्यायशुद्धिप्रकरणम / (5) सङ्कतव्यवहारकालव्यापकतया। (6) "वयं तावत्प्रत्यभिजातीमो न नः करणदौर्बल्यम्, एवमन्येऽपि प्रत्यभिजानन्ति, स एवायमिति प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद्वयमिवान्येऽपि नान्य इति वक्तुमर्हन्ति ।"-शाबरभा० शश२० / “प्रत्यभिज्ञयैव कालान्तरावस्थायिता सिद्धचति, कालान्तरावस्थितिश्च सप्रत्यभिज्ञप्रत्यक्षगम्येत्यक्तम।"-बहती०१।१।१८। "शब्दोऽपि 1 कुतोऽप्रतीयते ज०वि०। 2 अर्थस्यानाप्ति-ज०वि०। 3 तत्र शब्दव्यवहारस्थितिमप्रतिक्रम्य स्वेच्छ-ई०वि०। 4 अबाधितमतिक्रम्य ज०वि०। 5-वं सिद्धिः श्र०। 6 न्विति आ० / 7-त्याः प्रति-ब०। 8 'वा' नास्ति श्र०। 38