________________ 166 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० ननु 'जीवोऽस्ति' इत्युक्ते तत्र अस्तित्वम् , 'नास्ति' इत्युक्ते नास्तित्वम्, उभयवचनेन उभयं प्रतीयते अतो न युक्तम् 'अवधारण' इत्यादि; इत्यत्राह-'अन्यथा' इत्यादि। अनेकान्तनिरासस्य अवश्यंभावित्वाभावप्रकारेण अन्यथा प्रमाणनययोरभेदप्रसङ्गात् कारणात् 'सर्वथैकान्तोऽभ्युपगतः स्यात्' इति सम्बन्धः। अवधारणाभावे धर्मिवत् 6 धर्मेऽपि अनेकान्तप्रसङ्गात् / अपरमपि स्याद्वादमन्तरेण नश्यति इति दर्शयन्नाह-'किं बहुना' इत्यादि / किम् ? न किश्चित् बहुना 'उक्तेन' इत्यध्याहारः। विधिनिषेधानुवादातिदेशादिवाक्येषु, आदिशब्देन नियमादिवाक्यपरिग्रहः, कारकेषु कादिषु, वार्थादिषु आदिशब्देन लिङ्गादिपरिग्रहः, प्रातिपदिकार्थेषु साधनदूषणतदाभास वाक्येषु, चशब्दः अत्र समुच्चायार्थो द्रष्टव्यः / स्याद्वादमन्तरेण 'प्रस्तुताऽप्रसिद्धिः' 10 इति सम्बन्धः / इति एवम् आबालप्रसिद्धम् नै स्वेच्छया कल्पितमिति यावत् / नैनु शब्दः सर्वोऽपि विवक्षाप्रतिबद्धत्वात् तामेव गमयति नार्थम्, अतोऽयुक्तमुक्तम्-'तत्र जीव इत्युक्ते' इत्याद्याशङ्क्याह वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान् / वाञ्छितांश्च क्वचिन्नेति प्रसिद्धिरियमीदृशी // 14 // स्वेच्छया तामतिक्रम्य वदतामेव युज्यते / वेक्त्रभिप्रेतमात्रस्य सूचकं वचनं त्विति // 65 // विवृतिः-वर्णपदवाक्यानां वाचकत्वं यथास्वम् आगमात् प्रतिपत्तव्यम् / वक्त्रभिप्रायान् भिन्नस्यार्थस्य वाचकाः शब्दाः सत्यानृतव्यवस्थाऽन्यथानुपपत्तेः / अयं च प्रसंगोऽन्यत्र विस्तरेणोक्तः इति नेह प्रतन्यते / शब्दानामर्थव्यभिचारित्वे (1) अनेकान्तनिरासोऽवश्यं भवतीति न-आ० टि० / (2) स्याज्जीवः सन्नेवेति हि नयवाक्यम्, अत्र चेदवधारणं न क्रियते तदा यथा धर्मिणि जीवे अवधारणरहिते अनेकान्तोऽस्ति तथा धर्मेऽपि अस्तित्वाख्ये स प्राप्नोति, नयरूपञ्चेदम्, धर्मिण्यनेकान्तः धर्मे एकान्तः -आ० टि०। (3) बौद्धः / (4) "प्राहुरभिदधति / के ? वर्णाः अक्षराणि गकारादीनि / तथा पदानि गवादीनि तथा वाक्यानि च गामानयेत्यादीनि / कान् ? अर्थान् अभिधेयान् / किं विशिष्टान् ? अवाञ्छितान्, अविवक्षितान् भम्यादीन, वाञ्छितांश्च विवक्षितानपि सास्नादिमदादीन् / क्वचित् मन्दबुद्धिषु प्रतिपाद्येषु न प्राहुः तेषां ततोऽर्थाधिगमाभावात् इत्येवं प्रकारा सर्वजनप्रतीता प्रसिद्धिः रूढिः / ईदृशी विचित्रा व्ववहारिभिरभ्युपगन्तब्या तथैवार्थक्रियोपपत्तेः / ... तां प्रसिद्धिमतिक्रम्यैव उल्लंघ्यैव / स्वेच्छया स्वैरभावेन वदतां कथयतां सौगतानां युज्यते युक्तं भवतीति, अधिक्षेपवचनम् / कथम् ? शब्दः सूचकं वाचकम् / कस्य ? वक्त्रभिप्रेतमात्रस्य वक्तुः प्रयोजकस्याभिप्रेतमभिप्रायो विवक्षा तावन्मात्रस्यैव न बहिरर्थस्येति / नः अहो आश्चर्यमित्याक्षेपो गम्यते, सामान्यविशेषात्मनो बहिरर्थस्य शब्दप्रयोगात्प्रतीतेस्तस्यैव तदर्थत्वात अभिप्रायस्य ततः स्वप्नेप्यप्रतीतेः ।"-लघी० ता० पृ 87 / (५)तुलना-"तदुक्तम्-विवक्षाप्रभवा हि शब्दास्तामेव संसूचयेयुः।"-तत्त्वोप० पृ० 120 / 1 'नास्तीत्युक्ते नास्ति आ०। 2 नत्वेच्छया ब० / विति आ०, मु. लघी०।