________________ प्रवचनप्र० का०६३ ] एवकारप्रयोगविचारः 'नीलं सरोजं भवत्येव' इत्यत्र अयोगाऽत्यन्तायोगयोः सर्वथा व्यवच्छेदे चैत्र-धानुर्धर्ययोः नीलसरोजयोश्च अन्यतरदेव स्यात् / अंथ स्वस्वरूपापरित्यागेनैव अनयोः अयोगाऽत्यन्ताऽयोगव्यवच्छेदः नतु अन्योन्यस्वरूपस्वीकारेण अतोऽयमदोषः ; तन्न ; स्यात्कारमन्तरेण अस्यार्थस्य प्रत्येतुमशक्यत्वात् / किश्च, 'चैत्रो धनुर्धरः' इत्यादिवाक्येषु धनुर्धरत्वादिभिः अयोगादिव्यवच्छेदं / कुर्वता एवकारेण अधनुर्धरत्वादीनामशब्दवाच्यानामपि ततोऽन्यत्वानिवृत्तिर्यदि विधीयते; तर्हि शूरत्वोदारत्वादिधर्माणामपि विधीयतां शब्दवाच्येभ्यो धनुर्धरत्वादिभ्योऽन्यत्वाविशेषात् / अथ यो धर्मो यत्र नियम्यते तद्विरोधिन एव तत्र निवृत्तिः चैत्रे च धनुर्धरत्वनियमे अधनुर्धरत्वं विरुद्धम् , पार्थे च असाधारणधनुर्धरत्वविधौ सकलजगत्साधारणं तेद् विरुद्धम् , सरोजे च नीलत्वसंभवविधौ तदसंभवमानं विरुद्धम् , अतः तस्यै- 10 वाऽतो निवृत्तिः नतु शूरत्वादिधर्माणाम् तेषां तदन्यत्वेऽप्यविरुद्धत्वात् इति; तदेतदन्धसर्पविलप्रवेशन्यायमनुसरति, एवंविधप्रविभागस्य स्याद्वादानभ्युपगमे अनुपपत्तेः / ननु तदभ्युपगमेऽपि शब्दानभिधेयत्वाविशेषे कथं विरोधिन एव निवृत्तिः नतु सर्वस्य इति चेत् ; तथा सामर्थ्यात् / स्वार्थप्रतिपादनाय हि शब्दप्रयोगो न व्यसनितया। स्वार्थश्च भावाभावात्मकः प्रत्यक्षवत् शब्देऽपि प्रतिभासते। भावाभावव्यवहारश्च स्वरूपप्रतियो- 15 ग्यपेक्षानिबन्धनः / नच अविरुद्धस्य प्रतियोगित्वं युक्तम् , अतः कथं सर्वस्य निवृत्तेः शङ्कापि इति ? ततः स्थितम् 'अवधारण' इत्यादि / (१)तुलना-"अयोगव्यवच्छेदेन हि अस्तिना योग इष्यते। स च योगः किं सामान्यरूपेण अस्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोषप्रसङ्गः / व्यवच्छेदोऽपि अस्तित्वसामान्यायोगस्य वा अस्तित्वविशेषायोगस्य वा उभयायोगस्य वा ?"-तत्त्वार्थभा० व्या० पृ. 409 / "चैत्रस्य धनुषा अयोगे व्यवच्छिन्ने योगः प्रतिपादितो भवेत् इतरथा चैत्रो धनुर्धर एवेति प्रयोगानुपपत्तिः / सैव सर्वथा कथञ्चिद्वा स्यात् ? आद्ये पद्ये चैत्रस्य धनुषाऽयोगे व्यवच्छिन्ने सति न चैत्रता सिद्धयेत् धनुर्भावः सिद्धयेत् / केषामित्याह-स्याद्वादविद्विषाम् एकान्तवादिनामित्यर्थः।"-सिद्धिवि० टी० 10508 B. / (2) "अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः ।"-तत्त्वार्थभा० व्या० पृ०४०९ / “यच्चान्यदुक्तं क्रियया सहोदितोऽत्यन्तायोगमेव च व्यच्छिनत्ति निपातो व्यतिरेचकः इति; तत्र दूषणमाह-प्राप्तमित्यादि / नीलं सरोजं भवत्येवेति चेत् यदि तहि समन्तात् नित्यं सर्वदा नीलं सरोजैकरूपं व्यक्तं यथा भवति तथेदं जगत् प्राप्तम् / अयमभिप्राय:-सर्वथा कथञ्चिद्वा नीलं सरोजं भवत्येव ? प्रथमपक्षेऽयं दोषः, अन्यत्र अनेकान्त इति ।"-सिद्धिवि० टी० पृ० 510 A. / (3) धनुर्धरत्वात् / (4) निवृत्तिविधीयताम् / (5) धनुर्धरत्वम् / (6) नीलत्वासंभवमात्रम् / (7) एवकारात् / (8) धनुर्धरत्वाभिन्नत्वेऽपि / (9) धनुर्धरोऽपि स्यात् शूरश्च उदारश्च इति न कोऽपि विरोधः / (10) स्वरूपस्य प्रतियोगिनश्चापेक्षा, स्वरूपापेक्षो भावव्यवहारः प्रतियोग्यपेक्षोऽभावव्यवहार:-आ० टि। __ 1 व्यवच्छेदाच्चैत्र-ब०। 2 अथ स्वरूपा-ब०। 3 विधीयेत श्र०। 4-यस्यते आ०।-वृत्तः श्र०। 6 ननु आ० / 7 स्वार्थस्वभावात्मक: ब०। 8-त्मकं प्र-श्र०। 9 निवृत्ते शंकापि आ० /