________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [है. प्रवचनपरि० निपात एवकारः व्यतिरेचकः निवर्तकः / तत्र 'चैत्रो धनुर्धर एव' इत्यत्र अयोगव्यवच्छेदः; तथाहि-परप्रतिपत्तये वाक्यं प्रयुज्यमानं यदेव परेण व्यामोहादाशङ्कितम् तदेव व्यवच्छिनत्ति, चैत्रश्च लोके धनुर्धरो न प्रतीतः, ततश्चैत्रस्य अधनुर्धरत्वशङ्काव्यवच्छेदेन धनुर्धरत्वविधानार्थं 'चैत्रो धनुर्धर एव' इति वाक्यं प्रयुज्यते / 'पार्थ एव धनुर्धरः' इत्यत्र अन्ययोगव्यवच्छेदः। नहि पार्थे अधनुर्धरत्वाशङ्का कस्यचिदस्ति धनुर्धरत्वेन अखिलजनप्रसिद्धत्वात्तस्य / तस्मात् यदतिशयवद्धनुर्धरत्वं तत् पुरुषान्तरसाधारणमाशङ्कितमिति तद्वयवच्छेदाय 'पार्थ एव धनुर्धरः' इति वाक्यं प्रयुज्यते / 'नीलं सरोजं भवत्येव' इत्यत्र तु अत्यन्तायोगव्यवच्छेदः; यदा हि सरोज नीलवर्णवि विक्तं प्रसिद्धमिति नीलत्वमस्य नास्तीति आशङ्कितं भवति तदा तद्वयवच्छेदाय 'नीलं 10 सरोजं भवत्येव' इति वाक्यं प्रयुज्यते इति / तदसमीक्षिताभिधानम् ; स्यात्कारमन्तरेण इष्टानिष्टयोविधिनिषेधानुपपत्तेः; तथाहि - 'पार्थ एव धनुर्धरः' इत्युक्ते सर्वत्र सर्वदा सर्वेषामन्यपुरुषाणां धानुर्धर्याभावः प्रतीयते, तत्र च प्रत्यक्षादिविरोधः / अथ विशिष्टं तदन्यपुरुषेषु प्रतिनियतदेशकाला पेक्षया प्रतिषेधुमिष्टं न धनुर्धरत्वमात्रं ततोऽयमदोषः / ननु अयमर्थः स्यात्कारप्रसा15 दादेव प्रत्येतुं शक्य इति, एतत्प्रयोजनत्वात् कथसौ निष्फलः यतः साक्षात्प्रयुक्तस्य सामर्थ्यगय॑स्य वा अस्य सर्वत्र वाक्ये प्रतीतिन स्यात् ? तथा 'चैत्रो धनुर्धर एवं' (1) “यत्र धमिणि धर्मसद्भावः सन्दिह्यते तत्राऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात् / अत्र दृष्टान्तो यथा चैत्रो धनुर्धर इति / चैत्रे हि धनुर्धरत्वं सन्दिह्यते किमस्ति नास्तीति / ततश्चैत्रो धनुर्धर इत्युक्ते पक्षान्तरमधनुर्धरत्वं श्रोतुराकाङक्षोपस्थापितं निराकरोति अयोगव्यवच्छेदोऽत्र न्यायप्राप्तः ।"-प्रमाणवा० स्ववृ० टी० पृ० 15 / "चैत्रे धनुर्धरत्वसन्देहात् विशेषणेन अयोगमात्रं व्यवच्छिद्यते ।"-प्रमाणवा० मनोरथ० 4 / 192 / (2) “यथा पाणे धनुर्धर इति सामान्यशब्दोऽप्ययं धनुर्धरशब्दः प्रकरणसामर्थ्यादिना प्रकुष्टगुणवृत्तिरिह पार्थे हि धनुर्धरत्वं सिद्धमेवेति नाऽयोगाशङ्का / तादृशन्तु सातिशयं किमन्यत्राप्यस्ति नास्ति इत्यन्ययोगशङ्कायां श्रोतुर्यदा पार्थो धनुर्धर इत्युच्यते तदा सातिशयः पार्थ एव धनुर्धरो नान्य इति प्रतीयते / तेनात्र अन्ययोगव्यवच्छेदो न्यायप्राप्तः।"-प्रमाणवा० स्वव० टी० पृ० 15 / “पार्थे धनुर्धरत्वं प्रसिद्धमेव किन्तु तादशमन्यस्यापि किमस्तीति सन्देहे अन्ययोगव्यवच्छेदफलं विशेषणम् ।"-प्रमाणवा० मनोरथ०४।१९२। (3) अर्जुने / (4) "न खलु सर्वमेव नीलं सरोज येनायोगव्यवच्छेदः स्यात्, नापि सरोजमेव नीलं येन अन्ययोगव्यवच्छेदो भवेत् / किन्तुं 'नीलं सरोजं संभवति न वा' इत्यत्यन्तायोगसन्देहे विशेषणेन स एव व्यवच्छिद्यते ।"-प्रमाणवा० मनोरय० 4 / 192 / (5) यादृशं धनुर्धरत्वं पार्थे न तादृगन्यत्र इति / (6) तुलना-“यत्रापि अन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृग पार्थे धनुर्धरता तादृगन्यत्र नास्तीति।"-तत्त्वार्थभा० व्या० पृ०४०९। (7) स्यात्कारः / 1"निपात एवकारो व्यतिरेचक: नास्ति ब०। 2 इत्यन्ययो-आ० / तदेतवसमी-ब०, श्र०। 4-य॑षय॑स्य श्र०। 5-म्यस्य सर्वत्र ब०।