________________ प्रवचनप्र० का०६३ ] एवकारप्रयोगविचारः तथाहि-'ज्ञानदर्शनोपयोगलक्षणो जीव एव' इति अन्ययोगव्यवच्छेदेन जीवस्यैव ऐतल्लक्षणलक्षितस्य अनेकान्तानभ्युपगमे अजीवोऽपि तैल्लक्षणः स्यादिति बहिरर्थव्यवस्थाविलोपः, तद्विलोपे च सकलप्रमाणप्रमेयादिव्यवहारापहारः। 'तल्लक्षण एव सः' इति अयोगव्यवच्छेदानभ्युपगमे च रूपादिरप्येतल्लक्षणं स्यात् इति जीवेतरविभागाभावः स्यात् / 'भवत्येव' इत्यवधारणाभावे अत्यन्तायोगाव्यवच्छेदः स्यात् / .. ननु साक्षात्प्रयुक्तस्य सामर्थ्यगम्यस्य वा एवकारस्यैव प्रतीतियुक्ता तत्साध्यस्य अयोगादिव्यवच्छेदफलस्य सर्वत्र वाक्ये संभवान्न पुनः स्यात्कारस्य निष्फलत्वात्। उक्तञ्च श्रयोगमपर्योगमत्यन्तायोगमेव च / ___ व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः // " [प्रमाणवा० 4 / 190 ] (1) "विशेष्यसङ्गतैवकारोऽन्ययोगव्यवच्छेदबोधकः, यथा पार्थ एव धनुर्धरः / अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादिव्यवच्छेदः / तत्र एवकारेण पार्थान्यतादात्म्याभावो धनुर्धरे बोध्यते / तथा च पार्थान्यतादात्म्याभाववधनुर्धराभिन्नः पार्थ इति बोधः ।"-सप्तभंगि०५० 26 / "तत्र विशेष्यगतैवस्थले पार्थ एव धनुर्धर इत्यादौ अन्यतादात्म्यव्यवच्छेदोऽर्थः / अन्यत्वञ्च समभिव्याहृतपदार्थापेक्षिकम् / तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्नः पार्थ इति बोधः ।"-वैयाकरणभू द०१० 370 / “यद्वा पार्थान्यस्मिन् प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते।"-वाच० / न्यायको 10 191 / (2) ज्ञानदर्शनोपयोग। (3) एवकाराभावे अजीवोऽपि ज्ञानादिमान् स्यात्तथा च सर्वस्य चेतनात्मकत्वप्राप्त्या बाह्यद्रव्यस्य अचेतनस्य सर्वथाऽभावः स्यादिति भावः / (4) बाह्यार्थापलापे हि प्रमाणादिव्यवस्थाऽभावः, बाह्यार्थापेक्षयैव हि ज्ञाने प्रमाणतदाभास व्यवहारो भवति "बहिः प्रमेयापेक्षायां प्रमाणं तन्निभञ्च ते" (आप्तमी० का० 83 ) इत्यभिधानात् / (5) तानि ज्ञानदर्शनादीनि लक्षणानि यस्य जीवस्य असौ तल्लक्षणः / (6) “विशेषणसङ्गतैवकारोऽयोगव्यवच्छेदबोधकः, यथा शङ्ख पाण्डुर एवेति / अयोगव्यवच्छेदो नाम उद्देश्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वम् / " -सप्तभंगि० पृ० 25 / “विशेषणसङ्गतैवस्थले अयोगव्यवच्छेदः 'शङ्खः पाण्डुर एव' इत्यादौ शङ्खत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधनात् / " वैयाकरणभू० दे० पृ० 370 / “अत्र शङ्खत्वावच्छेदेन पाण्डुरत्वायोगव्यवच्छेदो बुध्यते / अथवा विशेष्ये शङ्के पाण्डुरत्वायोगव्यवच्छेदो बोध्यते / " -(म०प्र० 1 पृ०७)"-न्यायको पृ० 191 / (7) एतस्य जीवस्य लक्षणं स्यात् / (8) जीवः ज्ञानदर्शनोपयोगलक्षणो भवत्येव / (९)"क्रियासङ्गविकारोऽत्यन्तायोगव्यवच्छेदबोधकः यथा नीलं सरोज भवत्येव ।"-सप्तभंगि० पृ० 26 / वैयाकरणभू० द० पृ० 370 / “सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते ।"-वाच० / न्यायको पृ० 192 / (10) एवकारसाध्यस्य / (11) "अयोगं योगमपरैरत्य"निपात एवकारो व्यतिरेचक: नियामकः क्वचिद् धर्मस्य विशेषणस्य अयोगं व्यवच्छिनत्ति / क्वचिदपरैः विशेष्यादन्यैः योग व्यवच्छिनत्ति क्वचिदत्यन्तायोगं व्यवच्छिनत्ति / ननु निपातो न स्वयं वाचकः किन्तु द्योतकः तदस्य कथमयमर्थप्रभेद इत्याह-विशेषणविशेष्याभ्यां क्रियया च सहोदितः / द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदकः / विशेष्येण सहोक्तोऽन्ययोगस्य, क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादिपदवाच्य एव अयोगव्यवच्छेदादिः तत्सहोक्तनिपातद्योत्य इत्यर्थः ।"-प्रमाणवा० मनोरथ० 4 / 190 / तुलना-सिद्धिवि०, टी० पृ०५०७A. / “यद्विनिश्चयः -अयोगं योगमपर "-षड्व बह० 10 14 / न्यायाव० टी० टि०१०१७ / “यदुक्तम्-अयोगमन्ययोगञ्च अत्यन्तायोगमेव च / व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधा मतः ।।"-काव्यप्र० टी० पृ०८८ / 1-स्यानभ्यु-आ० / 2-क्षणः स्यात् आ० / 8-ध्य योगादि-ब०।