________________ 662 . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विवृतिः क्वचित्स्यात्कारमनिच्छद्भिः सर्वथैकान्तोऽभ्युपगतः स्यात् / अवधारणाभावेऽपि अनेकान्तनिराकरणस्य अवश्यंभावित्वात् अन्यथा प्रमाणनययोरभेदप्रसङ्गः। किं बहुना विधिनिषेधानुवादातिदेशादिवाक्येषु कारकेषु कादिषु स्वार्थादिषु प्रातिपदिकार्थेषु साधनदूषणतदाभासवाक्येषु स्याद्वादमन्तरेण प्रस्तुताऽ5 प्रसिद्धिः इत्याबालप्रसिद्धम् / __ अप्रयुक्तोऽपि न केवलं प्रयुक्तः सर्वत्र वाक्ये स्यात्कारः, उपलक्षणमेतत् तेन एवकारोऽपि प्रतीयते / कुत इत्याह-अर्थात् सामर्थ्यात् / कारिकार्थः र तथाहि-पानीयमानय' इत्युक्ते यदि पानीयस्य अन्यस्य चानयनं . लौकिकानामभिप्रेतं स्यात्तदा पानीयपदोपादानमनर्थकं स्यात् / अथाप्यनानयनमभिप्रेतम् ; 10 आनयनग्रहणं व्यर्थम् / अस्ति च तदुभयग्रहणम् , अतः एवकारप्रतीतिः इति / क ? विधौ निषेधेऽपि, भिन्नप्रक्रमः अपिशब्दः 'अन्यत्र' इत्यस्यानन्तरं द्रष्टव्यः / अन्यत्रापि अनुवाद-अतिदेशादावपि / अथ यदि सर्वत्र सः प्रतीयते “अगुल्यग्रे हस्ति-. . यूथशतमास्ते" [ ] इत्यौदावपि प्रतीयेत / तथा च “सर्वस्योभयरूपत्वे" [प्रमाणवा० 3 / 181] इत्यादिदोषानुषङ्गः स्यात् इत्यत्राह-'कुशलः' इत्यादि / यथा 15 योऽर्थः प्रमाणतः प्रतिपन्नः तथैव तस्य प्रतिपादकः प्रयोजकः कुशलो भवेत् नान्यथा, स चेत् यदि प्रयोजकः शब्दानामिति / ___ व्यतिरेकमुखेन कारिकां विवृण्वन्नाह-'क्वचिद्' इत्यादि / क्वचिद् विध्यादिवाक्ये _ स्यात्कारमनिच्छद्भिः एकान्तवादिभिः सर्वथा धर्मापेक्षया इव या धर्मापेक्षयाऽपि, यद्वा यथा धर्म्यपेक्षया तथा धर्मापेक्षयापि एकान्तः सर्वथैकान्तः सोऽभ्युपगतः स्यात् तत्र च प्रमाणविरोधः इत्यभिप्रायः / अतस्तद्विरोधं परिहर्तुमिच्छता सर्वत्र स्यात्कारोऽभ्युपगन्तव्यः / एवं व्यतिरेकमुखेन सर्वत्र स्यात्कारं प्रसाध्य इदानीं तथैव एवकारं प्रसाधयन्नाह-'अवधारण' इत्यादि। अवधारणस्य एवकारस्य अभावेऽपि न केवलं स्यात्काराभावे 'सर्वथैकान्तोऽभ्युपगतः स्यात्' इति सम्बन्धः / कुत एतदित्यत्राह-अनेकान्तनिराकरणस्य अवश्यम्भावित्वादिति / नीलं सरोजमिति वा यथा।"-प्रमाणवा०४।१९१-९२। “सामर्थ्याच्चाप्रयोगेऽर्थो गम्यः स्यादेवकारयोः।" -सिद्धिवि० टी०ए०५०७ B.न्यायवि० का०४५३। “सोप्रयुक्तोपि वा तज्जैः सर्वत्रार्यात प्रतीयते। यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ।।"-तत्त्वार्थश्लो० पृ० 137 / स्या० रत्ना० पृ०७१८। रत्नाक रावता०प०६१ / सप्तभंगित० पृ० 31 / स्या० मं० 10 279 / नयप्रदीप० 10 96 A. (1) तुलना-"अत्रान्यत्रापि इति-अनुवादातिदेशादिवाक्येषु ।"-आव०नि० मलय०प० 369 B. / (2) पृ० 530 टि० 3 / (3) पृ० 620 टि० 5 / 1-निराकाराभ्युपगमस्यावश्यं-ई० बि० / 2-युक्तो न ब० / 3–णमेतेन एव-ब० / 4 वानयन ब०, श्र०। प्रष्टव्यम् ब०। 6-पेक्षया तथा धर्मापेक्षयाप्येकान्तः श्र०। 7-मुखेण आ० / 8 अभावे न के-ब० / 9-वित्याह ब०। विवृतिव्या