________________ प्रवचनप्र० का०६३ ] स्यात्कारप्रयोगविचारः अन्योन्यविभिन्नेतद्वयस्यैव वा शब्दार्थत्वात् ; इत्यत्राह-'स्वभाव' इत्यादि।स्वभावभृतः अन्यतः सर्वतोऽपोहः पररूपेण असत्त्वं यस्य स तथोक्त स चासौ स्वार्थश्च स्वाभिधेयः तस्य प्रतिपादनः जीवशब्दः तन्मात्रमभिदध्यात् / किं कृत्वा ? निरस्य / कम् ? प्रतिपक्षम्, प्रत्यनीकं मतम् अपोहादिमात्राभिधायित्वलक्षणम् / कथम् ? न्यक्षेण सामस्त्येन / यथा च अपोहादेः शब्दार्थता न घटते तथा 'प्रमाणं श्रुतमर्थेषु' / [लघी० का० 26 ] इत्यत्र प्रपञ्चतः प्रतिपादितम् / ततः तस्मात् न्यायात् स्यात्पदप्रयोगात् सर्वथैकान्तस्य ‘सन्नेव जीवः, असन्नेव, द्रव्यरूप एव, पर्यायरूप एव वा' इत्येवंरूपस्य त्यागात् निरासात् , स्वरूपादिचतुष्टयविशेषणविशिष्टः स्वद्रव्यक्षेत्रादिविशेषणविशिष्टः जीवः जीवशब्देन अभिधीयते इति स्वेष्टस्य अनेकान्तात्मनो जीवस्य सिद्धिः / __ एवं प्रमाणवाक्यमुपदर्य साम्प्रतं नयवाक्यं दर्शयन्नाह-'नयोऽपि' इत्यादि। 10 नयोऽपि नैयवाक्यमपि न केवलं प्रमाणवाक्यम् , तथैव स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तः सम्यगेकान्तविषयः स्यात्, अन्यथा मिथ्यकान्तगोचरः स्यादिति / अधुना एवकारप्रयोगोपयोगं दर्शयन्नाह-'स्यात्' इत्यादि / 'अनेकान्तः' इत्येतदनुवर्त्तमानमिह सम्बध्यते / ततोऽयमर्थः सिद्धः-स्यात् कथञ्चित् जीव एव ज्ञानदर्शनसुखवीर्यैः धर्मैः अनेकान्तः नान्यः इति एवकारार्थः / इत्येवमुक्ते एवं वाक्ये प्रयुक्ते सति नैकान्त- 15 विषयः किन्तु अनेकान्तविषयः स्याद् भवेत् शब्दः 'स्याजीव एव' इतिवाक्यम् अनेकान्तरूपस्य तस्य अभिधानात् / 'स्यादस्त्येव जीवः' इत्युक्ते सति एकान्तविषयः सम्यगेकान्तगोचरः स्याद् भवेत् शब्दः 'स्यादस्त्येव' इति वाक्यम् , प्रधानतः तदस्तित्वैकान्तप्रतिपादनात् / एवमुत्तरभङ्गेष्वपि वक्तव्यम् / ननु न सर्वत्र वाक्ये लौकिकाः स्यात्कारमेवकारश्च प्रयुञ्जते, अन्यथैव तत्प्रयोग- 20 दर्शनात् , अतो न युक्तमेतदित्यारेकापनोदार्थमाह अप्रयुक्तोऽपि सर्वत्र स्यात्कारोऽर्थात् प्रतीयते। विधौ निषेधेऽप्यन्यत्र कुशलश्चेत् प्रयोजकः // 63 // (1) योगाः / (2) स्यात्पदप्रयोगाभावे / (3) जीवस्य / (4) स्यान्नास्त्येवेत्यादिषु / (5) स्यात्पदप्रयोगनियमः। (6) "प्रतीयतेऽधिगम्यते / कः ? स्यात्कारः स्यादिति पदमव्ययम्, क्व? सर्वत्र शास्त्रे लोके वा। कस्मिन् विषये? विधौ सत्त्वादौ साध्ये / न केवलं विधौ किन्तु निषेधेऽपि असत्त्वादावपि साध्ये। अन्यत्रापि अन्यस्मिन् अनुवादातिदेशादावपि / किंविशिष्टोऽपि अप्रयुक्तोऽपि स्यादस्ति जीव इत्यनुक्तोऽपि / तहि कुतः प्रतीयते इति चेदत्राह-अर्थात् सामर्थ्यात् / 'चेद्यदि कुशल: स्यात् व्यवहारे प्रबुद्धः स्यात् / कः ? प्रयोजकः प्रतिपादकः ।..."-लघी० ता० पृ० 86 / उद्धृतोऽयम्"विधौ निषेधेन्यत्रापि आव०नि० मलय पु० 369 B. | गुरुतत्ववि० पु०१६ A. / तुलना"विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते // व्यवच्छेदफलं वाक्यं यथा चैत्रो धनुर्धरः। पार्थो धनुर्धरो ____1-नद्वय-आ०,०। 2 तथो स आ० / 8 'नयोऽपि' नास्ति ब० / 4 'नयवाक्यमपि' नास्ति आ० ।-पदयोग-श्र०16 प्रयुंजते आ०। 7-युक्तेऽपि मु० लघी०।