________________ 660 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० साधारणधर्माधिकरणत्वेन अनेकान्तप्रकारेण इतरे पुद्गलादयः पदार्थाः परमागमतः . परमागममाश्रित्य योज्याः। .. ___ इदानीं नयं दर्शयन्नाह-'ज्ञः' इत्यादि / जीव इति धर्मिणो निर्देशः, ज्ञः चेतनास्वभावः इति साध्यस्य, सुखदुःखादिवेदनादिति हेतोः, इति एवं प्रयोगः आदिर्यस्य 5 अनित्यशब्दादेः स तथोक्तः, स चासौ विकलस्य धर्मान्तरनिरपेक्षस्य धर्मस्य आदेशश्च नयः। ननु किमिदं साकल्यं वैकल्यञ्च आदेशस्य यतः 'स्याद्वादः सकलादेशो नयो विकलसंकथा' इति स्यात् ? इत्यत्राह-'साकल्यम्' इत्यादि / सकलस्य अनन्तधर्मात्मकस्य वस्तुनो भावः साकल्यम् अनन्तधर्मात्मकता। तत्प्रतिपादक वचनम् एवमुक्तम् , विषय॑स्य विषयिण्युपचारात् / विकलस्य एकदेशस्य भावो वैक10 ल्यम्-एकान्तः, तदादेशः तथोक्तः / कुतः ? इत्याह-'धर्मान्तर' इत्यादि / विवक्षित धर्माद् अन्यो धर्मः तदन्तरं तस्य अविवक्षातः, नान्यथा दुर्नयत्वप्रसङ्गात् / नेनु शब्दस्य अर्थे सम्बन्धाभावतः प्रवृत्तेरेवाऽसंभवात् न सकलविकलादेशप्ररूपणं युक्तम्, इत्यत्राह-'तत्र' इत्यादि / तत्र अनन्तात्मके तत्त्वे स्थिते सति, यदि वा तत्र एवं स्याद्वादनयस्वरूपे निरूपिते सति 'जीव' इत्युक्ते जीवशब्दः अवान्तरविशेषरहितं 15 जीवमात्रमेव अभिदध्यात् / कथम्भूतम् ? इत्याह-'योग्यता' इत्यादि / योग्यतायाम् अपेक्षा यस्य योग्यतां वा अपेक्षते इति योग्यतापेक्षः, अनादिः सङ्केतो यस्य स तथोक्तः / 'योग्यता' इत्यनेन तादात्म्यतदुत्पत्तिलक्षणसम्बन्धविरहे नित्यैकरूपसम्बन्धाऽसत्त्वेऽपि च शब्दार्थयोः वाच्यवाचकभावं दर्शयति, योग्यतास्वभावसम्बन्धसंभवात् / एतच्च सप्रपञ्चं प्राक् प्रपश्चितम् / ननु योग्यतातोऽपि शब्दस्य अर्थप्रतिपादकत्वे एकस्माच्छब्दात् युगपदनेकार्थप्रतिपत्तिः स्यात् , सर्वस्य शब्दस्य सर्वत्रार्थे प्रतिपादनयोग्यतासंभवात् ; तदनुपपन्नमिति 'सङ्केत' इत्यनेन दर्शयति-सत्यामपि अनेकार्थप्रतिपादनयोग्यतायी विनियतसङ्केतवशाद् विनियतार्थप्रतीत्युपपत्तेः। एतच्च 'प्रमाणं श्रुतम्' [ लघी० का० 26 ] इत्यत्र प्ररूपितम् / ननु यदा जीवशब्दोऽर्थमभिधत्ते न तदा पूर्वसङ्केतोऽस्ति तत्कथं तैदपेक्षस्यास्य नियतार्थप्रतीतिहेतुत्वमिति चेत् ; न; 'अस्येदं वाच्यम् इदं वाचकम्' इति चित्तस्य सङ्केतत्वात, तस्य च तदापि भावात् / न चेदमवान्तरकल्पितम् इति अनादिपदेन दर्शयति / ननु जीवमात्रमभिदध्यात् इत्ययुक्तम् ; अन्यापोहस्यैव जीतेरेव (1) साकल्यशब्देन / (2) अनन्तधर्मात्मकत्वरूपसाकल्यस्य वाच्यस्य / (3) वाचके स्याद्वादे सकलादेशे। (4) न तु धर्मान्तरस्य प्रतिक्षेपः। (5) सौगतः / (6) सर्वशब्दस्य सर्वार्थप्रतिपादनमनपपन्नम्। (7) अनादिसङ्केतापेक्षस्य जीवशब्दस्य / (8) चित्तस्य / (9) बौद्धाः / (10) मीमांसकाः / / 1-कान्तेन प्रका-ब। 2 इतरेषु पु-श्र०। -कल्यं वादेश-श्र०। 4 अनन्तात्मकत्वे तत्त्वे ब० / -यां नियत-श्र०। 6 पूर्वः संकेतो-ब०, श्र०। 7 चेत्तस्य संकेतस्यात् ब०।।