________________ मू प्रवचनप्र० का० 62 ] सकल-विकलादेशनिरूपणम् 186 ___ तत्र स्याद्वादपदं व्याचष्टे 'अनेकान्त' इत्यादिना / अनेकान्तात्मकस्य अने _ कधर्मस्वभावस्य अर्थस्य जीवादेः कथनं स्याद्वादः। अत्रोदाहरणमाह - 'यथा' इत्यादि / यथा इत्युदाहरणप्रदर्शने, जीवः पुद्गलः धर्मोऽधर्म आकाशं काल इति षद्रव्यरूपोऽर्थः, तस्य अनेकान्तात्मकत्वनिरूपणं स्याद्वादः / तत्र जीवे तावदनेकान्तात्मकत्वं 'तत्र' इत्यादिना निरूपयति / तत्र तेषु जीवादिषट्प- 6 दार्थेषु मध्ये जीव आत्मा 'अनेकान्तः' इति सम्बन्धः / कैर्धर्मैः इत्याह-ज्ञानदर्शनवीर्यसुखैः / ननु दर्शनमेव पुरुषस्य स्वरूपं न ज्ञानादयः, तेषां प्रकृतिधर्मत्वात् तत्कथं तैरसौ अनेकान्तः ? इत्यप्ययुक्तम् ; प्रकृतिधर्मतां निराकृत्य तेषां त॑द्धमतायाः प्रत्यक्षपरिच्छेदे प्रतिपादितत्वात् / ततः सूक्तम्-'ज्ञानादिभिः जीवोऽनेकान्तः' इति / कथम्भूतैस्तैः इत्याह-असाधारणैः पुद्गलाद्यसंभविभिः। ननु बुद्ध्यादयो नव आत्म- 10 नोऽसाधारणा गुणाः सन्ति तत्किमर्थमेते चत्वार एव दर्शिताः इति चेत् ? तेषामेव सहभुवां तद्गुणत्वप्रतिपादनार्थम् / इच्छादयो हि क्रमभाविनः पर्यायाः न गुणाः, अन्यथा भयहर्षशोककरुणामर्षोंदासीन्यादीनामपि तद्गुणत्वप्रसक्तेः 'नवैव' इति संख्यानियमो दुर्घटः स्यात् / परैरपि तदनेकान्तं दर्शयितुमाह-'अमूर्तत्व' इत्यादि / रूपादिरहितत्वम् अमूर्त्तत्वम् , न पुनः असर्वगतद्रव्यपरिमाणाभावः, जीवस्य मूर्त्तत्वप्रसङ्गात्। 15 तस्यै असर्वगतत्वेन विषयपरिच्छेदे |साधितत्वात् / असङ्ख्यातप्रदेशत्वम् असंख्यातावयवोपेतत्वम् , सूक्ष्मत्वं शुद्धस्य तस्ये केवलज्ञानादन्यतोऽसाक्षात्करणम् , तैः अनेकान्तो 'जीवः' इति सम्बन्धः। किं विशिष्टैः साधारणासाधारणैः, साधारणैः गगनादावपि भावात्, असाधारणैः पुद्गलेष्वभावात् / पुनरन्यैस्तदनेकान्तं दर्शयन्नाह-'सत्त्व' इत्यादि / सुप्रसिद्धाः सत्त्वप्रमेयत्वाऽगुरुलघुत्वधर्मित्वगुणित्वादयो धर्माः तैः। कथ- 20 म्भूतैः ? साधारणैः पेट्खपि द्रव्येषु भावात् / तस्य एवंविधस्य जीवस्य आदेशात कथनात् प्रमाणं स्याद्वादः तत्र तदविसंवादात् इति भावः / तथा तेन असाधारणोभय (1) सांख्यः / “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।"-योगसू० 2 / 20 / (2) "प्रकृतेमहानुत्पद्यते। महान् बुद्धि तिर्ब्रह्मा पूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाः' 'आह-उक्तं प्रधानादुद्धिरुत्पद्यते इति ? तत्र वक्तव्यं किं लक्षणा पुनर्बुद्धिरित्युच्यते-अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् / सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ।।"-सांख्यका० युक्तिदी० पृ० 108 / (3) जीवः / (४)अनेकधर्मात्मकः / (5) ज्ञानादीनाम् / (६)जीवधर्मतायाः / (७)पृ० 1914 (८)वैशेषिकाः / "नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाप्रयत्नधर्माधर्मसंस्काराणाम् . ."-न्यायम० पृ० 508 / (9) ज्ञानदर्शनवीर्यसुखाख्याः / (१०)आत्मगुणत्व / (११)जीवस्य अनेकधर्मात्मकत्वम् / (12) "इयत्तावच्छिन्नपरिमाणयोगित्वं मूर्त्तत्वं तदभावोऽमूर्त्तत्वम् ।"-सप्तप० पृ० 72 / "असर्वगतद्रव्यपरिमाणं मूर्तिरिति हि पदार्थविदः ।"-तत्त्वबि० पृ० 1580 (13) जीवस्य / (१४)पृ०२६१॥ (15) आत्मनः / __ 1 इत्याधुवा-ब०, श्र०। 2-धारणगुणाः ब० // 3-यान् गुणा ब० / 4-तदेश-श्र० / 6-पि भवात् ब० / 6 पुनरप्यन्यैः श्र०। 7-ह सुप्रसि-श्र०। 8 खट्स्वपि द्रव्येषु आ० / 9 तथा तथा तेन श्र० /