________________ 488 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० स्वेष्टसिद्धिः / नयोऽपि तथैव सम्यगेकान्तः / 'स्याजीव एवं' इत्युक्तेऽनेकान्तविषयः स्याच्छब्दः, 'स्यादस्त्येव जीवः' इत्युक्ते एकान्तविषयः स्याच्छब्दः। . उपयोगी व्यापारी, कतिसंख्यौ ? द्वौ / कस्य ? श्रुतस्य श्रुताख्य प्रमाणस्य / किमाख्यौ ? स्याद्वादनयसंज्ञितो, स्याद्वादसंज्ञितः कारिकार्थः - नयसंज्ञितश्च / कोऽसौ स्याद्वादः कश्च नयः इत्याह-'स्याद्वादः' इत्यादि / स्याद्वादो भवति, कोऽसौ ? सकलादेशः सकलस्य सम्पूर्णस्य वस्तुनः आदेशः कथनम् / नयस्तु विकलसंकथा वस्त्वेकदेशकथनम् / (1) मलयगिर्याचार्याः स्यात्पदप्रयोगं प्रमाणवाक्ये एव उररीकुर्वन्ति / एतन्मतानुसारेण सर्वेषां नयनां मिथ्यारूपत्वात् / अतस्तै: 'स्यात्पदलाञ्छितो नय: सम्यग' इत्यकलङ्गमतस्य समालोचना कता। प्रत्यालोचिता च सा उ. यशोविजयैरिति / तदेवं समन्तभद्रसिद्धसेनदिवाकरादिभिरुपज्ञातम् अकलदेवः विवतमेतं मतं हेमचन्द्रादयः समर्थयन्ति / मलयगिरिकृता समालोचना इत्थम-"नयचिन्तायामपि च ते दिगम्बराः स्यात्पदप्रयोगमिच्छन्ति तथा चाकल ङ्क एव प्राह-'नयोऽपि तथैव सम्यगेकान्तविषयः स्यात्' इति / अत्र टीकाकारेण व्याख्या कृता-नयोऽपि नयप्रतिपादकमपि वाक्यं न केवलं प्रमाणवाक्यमित्यपिशब्दार्थः, तथैव स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात, यथा स्यादस्त्येव जीव इति / स्यात्पदप्रयोगाभावे तु मियकान्तगोचरतया दुर्नय एव स्यादिति / ' तदेतदयुक्तम् ; प्रमाणनयविभागाभावप्रसक्तेः, तथाहि-'स्याज्जीव एव' इति किल प्रमाणवाक्यम् ‘स्यादस्त्येव जीवः' इति नयवाक्यम / एतच्च द्वयमपि लघीयस्त्रय्यलङ्कारे साक्षादकलङ्केनोदाहृतम्, अत्र चोभयत्राप्यविशेषः; तथाहि-स्याज्जीव एवेत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताप्रतिपत्तिः, अस्तीत्यनेनो- : दभताकारशब्दप्रयोगादजीवशब्दवाच्यतानिषेधः, स्याच्छब्दप्रयोगतोऽसाधारणसाधारणधर्माक्षेपः / 'स्यादस्त्येव जीवः' इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिः, अस्तीत्यनेनोद्भुत विवक्षितास्तित्वावगतिः, एवकारप्रयोगात्तु यदाशंकितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्वयवच्छेदः, स्यात्प्रयोगात साधारणासाधारणप्रतिपत्तिरित्युभयत्राप्यविशेष एव ।"-आव०नि० मलय० पू० 371 A. / उ० यशोविजयः एतन्मलयगिरिकृतम् आकलङ्कमतालोचनं पूर्वपक्षीकृत्य इत्थं समाहितम्-'अत्रेदमवधेयमयो नाम नयो नयान्तरापेक्षः तस्य प्रमाणान्तर्भावे व्यवहारनय: प्रमाणं स्यात् तस्य तपःसंयमप्रवचनग्राहकत्वेन संयमग्राहिनिश्चयविषयकत्वेन तत्सापेक्षत्वात् / शब्दनयानाञ्च निक्षेपचतुष्टयाभ्युपगन्तणां भावाभ्युपगन्तशब्दनयविषयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणत्वापत्तिः / नयान्तरवाक्यसंयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात् तेनाऽनन्तधर्मात्मकत्वापरार्शः / न चेदेवं तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिः अवच्छेदकभेदं विना सप्रतिपक्षविषयसमावेशस्य दुर्वचत्वात, इष्यते चायम् / 'स्यात्पदमवच्छेदकभेदप्रदर्शकतयैव विवृतम् / अत एव स्यादित्यव्ययमनेकान्तद्योतकमेव तान्त्रिकैरुच्यते / सम्यगनेकान्तसाधकस्य अनेकान्ताक्षेपकत्वात् न त्वनन्तधर्मपरामर्शकम, अतो न स्यात्पदप्रयोगमात्राधीनमादेशसाकल्यं येन प्रमाणनयवाक्ययोर्भेदो न स्यात्, किन्तु स्त्रार्थोपस्थित्यनन्तरमशेषधर्माभेदोपस्थापकविधेयपदवृत्त्यधीनम् / सा च विवक्षाधीनेत्यादेशसाकल्यमपि तथेति नयप्रमाणवाक्ययोरित्थं भेद एव / मलयगिरिपादवचनं तु अप्रतिपक्षधर्माभिधानस्थले अवच्छेदकभेदान भिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्, तत्र प्रमाणनयभेदानभ्युपगन्तर्विदग्धदिगम्बरनिराकरणाभिप्रायेण योजनीयम् ।"-गुरुतत्त्ववि० 10 17 B. / 1 स्वेष्टविसिद्धिः ज० वि० / 2 किसंख्यौ ब०, श्र०। इत्याद्याह ब०