________________ प्रवचनप्र० का० 62 ] सकल-विकलादेशनिरूपणम् 687 तत्र जीव इत्युक्ते जीवशब्दो योग्यतापेक्षोऽनादिसंकेतः स्वभावभूताऽन्यापोहस्वार्थप्रतिपादनः न्यक्षेण प्रतिपक्षं निरस्य जीवमात्रमेव अभिदध्यात् ततः स्यात्पदप्रयोगात् सर्वथैकान्तत्यागात् स्वरूपादिचतुष्टयविशेषणविशिष्टो जीवः अभिधीयते इति कर्ता प्रमाता भोक्तेत्यादि, अतः सम्पूर्णवस्तूप्रतिपादनाभावात विकलादेशोऽभिधीयते नयमतेन संभवधर्माणां दर्शनमात्रमित्यर्थः / यदा तु प्रमाणव्यापारमविकलं परामश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति 'स्यादस्त्येव जीवः' इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्या प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुन: संदर्शकत्वात् सकलादेश इत्युच्यते / प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति यावत् / तदुक्तम्-सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र / सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः ।"-न्यायावता० टी० पृ० 92 / सिद्धसेनगणिप्रभृतीनां ग्रन्थाः-एवेमेते त्रयः सकलादेशा भाष्येणैव विभाविता: संग्रहव्यवहारानुसारिण आत्मद्रव्ये। सम्प्रति विकलादेशाश्चत्त्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकार:-देशादेशेन विकल्पयितव्यमिति' विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टव्या / द्रव्यार्थजात्यभेदात्तु सर्वद्रव्यार्थभेदानेवैकं द्रव्यार्थ मन्यते, यदा पर्यायजात्यभेदांश्चैकं पर्यायार्थं सर्वपर्यायभेदान् प्रतिपद्यते, तदा त्वविक्षितस्वजातिभेदत्वात् सकलं वस्तु एकद्रव्यार्थाभिन्नम् एकपर्यायार्थाभेदोपचरितं तद्विशेषकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः स्यान्नित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्वयगपदभावकत्वरूपैकार्थाभिधायी। यदात् द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यां वा वस्तुनः एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे, स्वांशयुगपद्वृत्तं क्रमवृत्तञ्च पञ्चमषष्ठसप्तमेषूच्यते तथाविवक्षावशात् तदा तु तथा प्रतिपादयन् विकलादेशः ।"-तत्त्वार्थभा० टी०५०४१५। 'तत्र विवक्षाकृतप्रधानभावसदाोकधर्मात्मकस्यापेक्षितापराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात प्रतीतेः स्यादस्ति घट: स्यान्नास्ति घट: स्यादवक्तव्यो घट इत्येते त्रयो भङ्गाः सकलादेशाः विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य प्रतिपत्तेः चत्वारो वक्ष्यमाणका विकलादेशा:-स्यादस्ति च नास्ति घट इति प्रथमो विकलादेशः, स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः, स्यान्नास्ति चावक्तव्यश्च घट इति तृतीयः, स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थः ।"-सन्मति० टी० 10 446 / उ० यशोविजयः यद्यपि शास्त्रवा० टी०जैनतर्कभा०-गुरुतत्त्वविनिश्चयादौ सप्तानामपि भङ्गानां अकलङ्कोपज्ञाता सकलविकलादेशोभयरूपता सिद्धान्तीकृता तथापि तैः अष्टसहस्रीविवरणे 'आद्यास्त्रयो भङ्गाः सकलादेशाः शिष्टाश्च चत्वारो विकलादेशाः' इत्यपि तत्त्वार्थभाष्यसंसूचितं सिद्धसेनगणिव्यावणितं कृतान्तीकृतम् / तथाहि-'किन्तु आद्यभङ्गद्वयघटकनिजपररूपयोः शृङ्गग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो वा युज्यते तृतीयभङ्गस्तु अवक्तव्यलक्षणः ताभ्यां युगपदादिष्टाभ्यां तद्भेदादनेकभेदः, इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः, सदसत्त्व-सदवक्तव्यादयश्चत्त्वारस्तु चरमा: सावयवद्रव्यविषयत्वाद्विकलादेशरूपाः ,देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वान्नोदेति इति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् ।"-अष्टसह० विव० पृ० 208 B. / अयमेव सिद्धान्त: शास्त्रवार्तासमुच्चयटीकायाम् 'केचित्तु' इति कृत्वा निर्दिष्टः। तथाहि-"केचित्तु अनन्तधर्मात्मकवस्तुप्रतिपादकत्वाविशेषेऽपि आद्यास्त्रय एव भंगा निरवयवप्रतिपत्तिद्वारा सकलादेशाः अग्रिमास्तु चत्वारः सावयवप्रतिपत्तिद्वारा विकलादेशाः, इति प्रतिपन्नवन्तः।"-शास्त्रवा० टी०१० 254 B. I 1-पेक्षाऽनादि-ज०वि०।