________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० श्रुतस्य भेदं दर्शयन्नाह उपयोगौ श्रुतस्य द्वौ स्याद्वादनयसंज्ञितौ / स्याद्वादः सकलादेशो नयो विकलसंकथा // 62 // विवृतिः-अनेकान्तात्मकार्थकथनं स्याद्वादः, यथा जीवः पुद्गलः धर्मोऽधर्मः 5 आकाशं काल इति / तत्र जीवो ज्ञानदर्शनवीर्यसुखैः असाधारणैः अमूर्त्तत्वाऽ संख्यातप्रदेशत्वसूक्ष्मत्वैः साधारणासाधारणैः सत्त्वप्रमेयत्वागुरुलघुत्वधर्मित्वगुणित्वादिभिः साधारणैः अनेकान्तः / तस्य जीवस्यादेशात् प्रमाणं स्याद्वादः / तथा इतरे परमागमतो योज्याः / ज्ञो जीवः सुखदुखादिवेदनात् इत्यादि विकलादेशो नयः / साकल्य॑म् अनन्तधर्मात्मकता / वैकल्यम् एकान्तः धर्मान्तराविवक्षातः / (1) "भवतः / कौ ? उपयोगी व्यापारौ। कस्य ? श्रुतस्य, श्रूयते इति श्रुतमाप्तवचनं वर्णपदवाक्यात्मकं द्रव्यरूपं तस्य, भावश्रुतस्य वा श्रवणं श्रुतमिति निरुक्तेः / कति? द्वौ। किन्नांमानौ ? स्याद्वादनयसंज्ञितौ, स्यात्कथञ्चित् प्रतिपक्षापेक्षया वचनं स्याद्वादः, नयनं वस्तुनो विवक्षितधर्मप्रापणं नयः, स्याद्वादश्च नयश्च स्याद्वादनयौ, इत्थं संज्ञे व्यपदेशौ ययोस्तौ तथोक्तौ / तौ लक्षणतो निर्दिशतिस्याद्वाद उच्यते / कः ? सकलादेशः सकलस्य अनेकधर्मणो वस्तुनः आदेशः कथनम् , यथा जीवपुद्गलधर्माधर्माकाशकालाः षडाः / 'पुनर्नयो भवति / का? विकलसंकथा, विकलस्य विवक्षितकधर्मस्य सम्यक प्रतिपक्षापेक्षया कथा प्रतिपादनं यथा जीवो ज्ञातैव द्रष्टव इत्यादि ।"-लघी० ता० पु० 83 / तुलना-"तदुक्तम्-उपयोगौ श्रुतस्य द्वौ प्रमाणनयभेदतः ।"-सिद्धिवि० टी० पृ०.४ A. / (2) "निर्दिश्यमानधर्मव्यतिरिक्ताऽशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः / " -न्यायाव० ता० टी० पृ० 93 / न्यायकु० पृ० 3 टि० 10 / (3) तुलना-"स्यात्पदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्तत्वासंख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्माधर्माधर्मगगनास्तिकायपूद गलैः साधारणा: येऽपि च सत्त्वप्रमेयत्वमित्वगुणित्वादयः सर्वपदार्थैः साधारणास्तेऽपि च प्रतीयन्ते ।"-आव०नि० मलय० पृ० 170 A. / (4) सकलादेशविकलादेशयोः स्वरूपे प्रायः सर्वेषामैकमत्येऽपि केचिदकलङ्काद्याचार्याः सप्तसु भंगेषु सर्वानपि भङ्गान् एकधर्ममुखेन अशेषधर्मात्मकवस्तुप्रतिपादनकाले सकलादेशरूपान् एकधर्म प्रधानतया अन्यधर्मांश्च गौणतयाऽभिधानसमये विकलादेशात्मकान स्वीकुर्वन्ति / केचिच्च सिद्धसेनगणिप्रभृतयः सदसदवक्तव्यरूपं भङ्गत्रयं सकलादेशत्वेन शिष्टांश्च चतुरो भंगान् विकलादेशरूपेण मन्यन्ते। अकलङ्कादीनां.ग्रन्थाः-"तथा चोक्तम्-सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति।"-सर्वार्थसि० 106 / “यत्र यदा चौगपद्यं तदा "सकलादेशः / / एकगणमुखेनाशेषवस्तुरूपसंग्रहात् सकलादेशः / तत्रादेशवशात् सप्तभंगी प्रतिपदम् / यदा तू क्रम तदा विकलादेशः (पृ० 180) 'निरंशस्यापि गुणभेदादंशकल्पना विकलादेशः / तत्रापि तथा सप्तभंगी।"-राजवा० 10 181 / नयचक्र० पृ० 348 B. / “सकलादेशो हि योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या प्रतिपादयति अभेदोपचारेण वा, तस्य प्रमाणाधीनत्वात् / विकलादेशस्तू क्रमेण भेदोपचारेण भेदप्राधान्येन वा।"-तत्वार्थश्लो० पृ० 136 / प्रमेयक० पृ०६८२ / सप्तभंगित० 1032 प्रमाणनय० 4 / 44,45 / जैनतर्कभा०पू०२०। "इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ।"-प्रमाणनय० 4 / 43 / गुरुतत्त्ववि०प०१५A. / शास्त्रवा० टी० पू० 254 A. | "यदा मध्यस्थभावेनाथित्ववशात किंचिद्धर्म प्रतिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत् सम्मुग्धाकारतयाचक्षते-यदुत जीवोऽस्ति