________________ प्रवचनंप्र० का० 61] प्रमाणस्य भेदाः बुद्धयास्ति" [प्रमाणवा० 2 / 327] इत्येतन्निरस्तम् / तदविषयत्वे बुद्धेः बुद्धिरूपत्वस्यैवानुपपत्तेः स्वपरव्यवसायस्वभावत्वात्तस्याः। प्रसाधितश्च बाह्योऽर्थः प्रपञ्चतो बाह्यार्थसिद्ध्यवसरे / ननु वन्ध्यासुतसौभाग्यव्यावर्णनप्रख्यमेतत् अतीन्द्रियप्रत्यक्षस्य सद्भावावेदकप्रमाणाभावतः खपुष्पवदसत्त्वात् इत्याशङ्कयाह-'तदस्ति' इत्यादि / तद् अतीन्द्रियप्रत्यक्षम् अस्ति सुनिश्चितासंभवद्धाधकप्रमाणत्वात् सुखादिवत् इति / / समर्थितश्चास्य सुनिश्चितासंभवदाधकप्रमाणत्वं प्रबन्धेन सर्वज्ञसिद्धिप्रघट्टके' इत्यलं पुनस्तत्समर्थनप्रयासेन / * परोक्षमिदानी व्याचष्टे 'श्रुतम्' इत्यादिना / श्रुतम् अविस्पष्टतर्कणम् तत्प्रमाणम् / किं सर्वम् ? न, बाधारहितम् / पुनरपि कथम्भूतम् ? इत्याह-'सकल' इत्यादि / सकलं यत् प्रमाणं यच्च प्रमेयं तयोः इयत्तास्वरूपाभिधायि, अनेन च 10 प्रत्यक्षाऽनुमेयाऽन्यन्तपरोक्षलक्षणे स्थानत्रयेऽप्यस्य प्रामा यं दर्शयति / तथा च निराकृतमेतत्-"तृतीयस्थानसक्रान्तौ न्यैय्यः (न्याय्यः) शास्त्रपरिग्रहः / " [प्रमाणवा० 451] इति / नहि प्रमाणानां सापत्न्यन्यायोऽस्ति येन एकविषये द्वितीयस्याप्रवृत्तिः स्यात् / अथ मतम्-अर्थापत्त्यादेः प्रमाणान्तरत्वप्रसिद्धः कथं प्रत्यक्षपरोक्षरूपतया प्रमाणद्वित्वसिद्धिः, यतो 'द्विधैव' इति नियमः सुघटः स्यात् ? इत्यत्राह-'अत्र' इत्यादि / 15 अत्र परोक्षे अर्थापत्त्यनुमानोपमानादीनि, आदिशब्देन अविशदमन्यदपि प्रमाणं गृह्यते, अन्तर्भवन्ति / तेत्र तदन्तर्भावश्च परोक्षपरिच्छेदे प्रपञ्चितः / नन्वेवं सौगतादीनामपि स्वोपकल्पितप्रमाणसंख्यायाम् इतरप्रमाणानामन्तर्भावो भविष्यति, इत्यत्राह'पर' इत्यदि / परैः सौगतादिभिः परिकल्पितस्य प्रमाणान्तर्भावस्य निराकरणम् अन्यत्र परोक्षपरिच्छेदे उक्तमिति नेह प्रघट्टके पुनरुच्यते / 20 मनोरथ० 2 / 327 / उद्धृतोऽयम्-प्रश० व्यो० पृ० 525 / अष्टसह पृ० 110 / सिद्धिवि० टी० पृ० 166 A. / शास्त्रदी० 10 195 / स्या० 20 पृ० 150 / शास्त्रवा० यशो० 50 174 B., 215 B. | न्यायकुमु० पृ० 133 टि० 4 / (1) अर्थाविषयत्वे / (2) बुद्धेः / (3) पृ० 119 / (4) पृ० 89 / (5) श्रुतस्य / तुलना-"स्थानत्रयाऽविसंवादि श्रुतज्ञानं हि वक्ष्यते / तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि // 12 // " -तत्त्वार्थ० श्लो० पु. 13 / (6) "तद्विरोधेन चिन्तायाः तत्सिद्धार्थेष्वयोगतः। तृतीयस्थानसङक्रान्तौ न्याय्यः शास्त्रपरिग्रहः // तस्य शास्त्रस्य विरोधेन तत्सिद्धेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमकचिन्ताया अयोगतः। यस्मात् प्रत्यक्षपरोक्षार्थयो गमाधिकारः तस्मात् तृतीयस्थाने अतीन्द्रिये विषये विचारसङक्रान्तेः शास्त्रपरिग्रहो न्याय्यः प्रकारान्तरासंभवात् ।"-प्रमाणवा० मनोरथ०४।५१ / (7) यथा यदैका सपत्नी पतिसमीपे समुपतिष्ठति तदा द्वितीया ईविलिप्ता अनवकाशतया पत्युपकण्ठं नोपसर्पति न तथा प्रमाणानां सापत्न्यभावो इविलिप्तता अनवकाशता वा समस्ति इति भावः / (8) संभवैतिह्यादिकम् / (9) परोक्षे। 1-रूपस्यैवा-श्र० ।-य संस्था-श्र० / न्यायः ब०, श्र०। 4 संघटः श्र।