________________ 684 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० पमः स्वप्नोपमः” [ ] इति प्रत्याख्यातम् / तस्य इन्द्रियातिक्रान्तत्वं समर्थ- ' यमानः 'अतीन्द्रयम्' इत्याद्याह / अतीन्द्रियम् इन्द्रियव्यापाराजन्यम्, कुतः ? अव्यवधानम् देशादिव्यवधानरहितं यतः, यत् स्वगोचरे देशादिव्यवधानरहितं न तद् इन्द्रियव्यापारजन्यम् यथा सत्यस्वप्नज्ञानम् , स्वगोचरे देशादिव्यवधानरहितञ्च अतीन्द्रियप्रत्यक्षमिति। तथा च ""ईश्वरज्ञानम् इन्द्रियार्थसन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानत्वात् इतरज्ञानवत्" [ ] इति निरस्तम् / तज्ञानस्य इन्द्रियप्रभवत्वे प्रत्यक्षपरिच्छेदे असर्वविषयत्वप्रतिपादनात् / लोकोत्तरं सकललोकोत्कृष्टमात्मार्थविषयम् , 'आत्मविषयम्' इत्यनेन अस्वसंविदितमीश्वराध्यक्षं निराकृतम् / तस्य आत्माऽगोचरत्वे अर्थगोचरत्वानुपपत्तिप्रतिपादनात् / 'अर्थविषयम्' इत्यनेन तु “नान्योऽनुभाव्यो (1) तुलना-"मायास्वप्नोपमं जगत्" "मायास्वप्नोपमं लोकम्-"लङ्कावतार०५०३२९,३३४। "मायास्वप्नोपमं सर्वं संस्कारं सर्वदेहिनाम् ।"-नैरात्म्य० पृ० 21 / “न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वाऽस्तित्वं प्रज्ञपयन्ति / यथोक्तं भगवत्याम्-बुद्धोप्यायुष्मान् सुभूते मायोपमः स्वप्नोपमः, बुद्ध-. धर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमा इति / तथा-धर्मस्वभाव तु शून्यविविक्तो बोधिस्वभाव तु शून्यविविक्तो। यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तु बालजनस्य इति। "यथोक्तं भगवताशन्याः सर्वधर्मा निःस्वभावयोगेन। निनिमित्ताः सर्वधर्मा निनिमित्ततामुपादाय * 'यथोक्तं सूत्रे-मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विहितं / नात्मा न सत्त्व न च जीवगतो धर्मा मरीचिदकचन्द्रसमाः।" -माध्यमिकवृ० पृ० 442-45 / "तस्मान्मायास्वप्नादिस्वभावाः सर्वधर्मा इति निश्चितमेतत् / स्यादेतत्-यदि सर्वव्यापिनी मायोपमस्वभावता बुद्धोऽपि तर्हि मायोपमः स्वप्नोपमः स्यात् / उक्तञ्चैतत् भगवत्याम्-एवमुक्ते सुभूतिस्तान् देवपुत्रानेतदवोचत्-मायोपमास्ते देवपुत्राः सत्त्वाः स्वप्नोपमास्ते देवपुत्राः सत्त्वा इति हि माया च सत्त्वाश्चाद्वयमेतदद्वैधीकारम् / सर्वधर्मा अपि,देवपुत्रा: मायोपमाः स्वप्नोपमाः / स्रोत आपन्नोऽपि मायोपमः स्वप्नोपमः स्रोत आपत्तिफलमपि मायोपमं स्वप्नोपमम् / एवं सकृदागाम्यपि, सकृदागामिफलमपि / अनागाम्यपि अनागामिफलमपि / अर्हन्नपि अर्हत्त्वमपि मायोपमं स्वप्नोपमय, सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः / सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपमं यावनिर्वाणमपि मायोपमं स्वप्नोपमम्, स चेनिर्वाणदपि कश्चिद्धर्मो विशिष्टतरः स्यात्तमप्यहं मायोपमं स्वप्नोपमं वदामि ।"-बोधिचर्या० 10 379 / “आर्यललितविस्तरेप्युक्तम् (पृ० 209-11) संस्कार प्रदीप अचिवत् क्षिप्रमुत्पत्तिनिरोधधर्मका: / अनवस्थितमारुतोपमाः फेनपिण्डेव असारदुर्बलाः / संस्कार निरीहशून्यकाः, कदलीस्कन्धसमा निरीक्षते / मायोपमचित्तमोहना बाल उल्लापनरिक्तमुष्टिवत् // " -बोधिचर्या० पृ० 532 / “मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमाः / विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः ।.."-महायानसू० पृ०६२ / उद्धृतमिदम्-सन्मति० टी० पृ० 371, 377 / शास्त्रवा० यशो० 10215 A. / (2) तुलना-"स्वयंप्रभुरलङघनार्हः स्वार्थालोकपरिस्फुटमवभासते सत्यस्वप्नवत् ।"-प्रमाणसं० पृ० 99 / प्रमाणसं० टि० पृ० 172 पं० 23 / (3) ईश्वरज्ञानस्य / (4) पृ० 108 / (5) “नान्योनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः / तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते // यथा च स्वरूपादन्यो बुद्धया अनुभाव्यो नास्ति तथा तस्य ज्ञानस्य चाऽपरोऽनुभवो नास्ति। तस्य ज्ञानग्रहणस्यापि तुल्यार्थचोद्यत्वात्, स ह्यन्यत्वनिबन्धनो ग्राह्यग्राहकभावः, तच्चानुपपनमित्युक्तम् / तस्मात्तज्ज्ञानमपरोक्षतया उत्पन्नं स्वयं प्रकाशते नान्येन प्रकाश्यते।"-प्रमाणवा० इत्याह ब० / 1 इन्द्रियज्ञानं ब०।