________________ प्रवचनप्र० का०६१] प्रमाणस्य भेदाः किंविशिष्टम् ? स्पष्टम विशदम् / निर्विकल्पकं परोक्षं ज्ञानान्तरप्रत्यक्षं वा तों स्यात् इत्यत्राह-'हित' इत्यादि / हितं सुखं तत्साधनञ्च अहितं दुखं तत्कारणञ्च तयोः प्राप्तिपरिहारौ तत्र समर्थ योग्यम् / नच निर्विकल्पकादेः तत्रं सामर्थ्यम् अर्थमात्रग्रहणेऽप्यस्यं सामर्थ्यासंभवात् इत्युक्तम् सविकल्पकादिसिद्धिप्रघट्टके / ननु सविकल्पकप्रत्यक्षेण सर्वात्मना अर्थस्य गृहीतत्वात् तत्र प्रमाणान्तराप्रवृत्तिः स्यात् इत्य- 6 त्राह-प्रादेशिकम् / सर्वमस्मदादिप्रत्यक्षं प्रदेश एव नियतम् / द्विचन्द्रादिदर्शनेऽपि तैमिरिकज्ञानेन एकत्वाद्यदर्शनवत्, नीलादिदर्शनेऽपि क्षणपरिणामादर्शनवद्वा / साम्प्रतमिन्द्रियज्ञानस्य स्वसंवेदनप्रत्यक्षं दर्शयन्नाह-'इन्द्रिय' इत्यादि / इन्द्रियाणां कार्यम् आत्मनः संविदां स्वरूपस्य ज्ञानं स्पष्टं हिताहितप्राप्तिपरिहारसमर्थ प्रादेशिकं प्रत्यक्षम् इति / तदुभयमपि किं भेदम् ? इत्याह-अवग्रहहावायधारणात्मकम् / व्याख्याता 10 अवग्रहादयः प्रत्यक्षपरिच्छेदे , ते आत्मा यस्य तत् तदात्मकम् / इदानीम् 'अनिन्द्रिय' इत्यादिनाऽनिन्द्रियप्रत्यक्षं दर्शयति-अनिन्द्रियस्य मनसः कार्य ज्ञानम् अनिन्द्रियप्रत्यक्षम् / ननु च इन्द्रियज्ञानमपि अनिन्द्रियस्य भवत्येव कार्य तत्कथमयं प्रविभागः इति चेत् ? प्रधानेतरभावात् / इन्द्रियज्ञाने हि इन्द्रियाणां प्रधानभावः, अत्र तु अनिन्द्रियस्य इति युक्तः प्रविभागः / किं रूपं तद् ? इत्याह- 15 स्मृतिसंज्ञाचिन्ताभिनिबोधात्मकम् / ननु स्मृत्यादीनां परोक्षतया पूर्व प्रतिपादितत्वात् कथमत्र प्रत्यक्षतया प्रतिपादनं युक्तं पूर्वापरविरोधप्रसङ्गात् ; इत्यप्यचर्चिताभिधानम् ; यत्रांशे तेषां स्पष्टत्वं तत्रैव प्रत्यक्षत्वप्रतिपादनात् / स्वरूपे एव हि "तेषां स्पष्टत्वम् अतस्तत्रैव प्रत्यक्षत्वम् 'आत्मज्ञानम्' इत्यभिसम्बन्धात् / बहिरर्थे त्वस्य अस्पष्टत्वात् परोक्षता इति न कश्चिद्दोषः / अत्रापि 'हित' इत्यादि, 'प्रादेशिकम्' इति च 20 सम्बध्यते / स्मृत्यादिग्रहणमुपलक्षणं तेन 'सुखाद्यात्मकम्' इत्यपि गृह्यते / _ अधुना अतीन्द्रियप्रत्यक्षप्ररूपणार्थम् 'अतीन्द्रिय' इत्याद्याह / इन्द्रियेभ्योऽतिक्रान्तम् अतीन्द्रियं प्रत्यक्षम् , कथम्भूतम् ? व्यवसायात्मकम् , अनेन सांख्यसौत्रान्तिककल्पितं निर्विकल्पकं तन्निरस्तम् / स्फुटतरम्, अस्मदादिप्रत्यक्षात् समस्ते खगोचरे अतिशयेन विशदम् / अवितथम, अभ्रान्तम् / अनेन "भिक्षवोऽहमपि मायो- 25 (1) सौगताभिमतम् / (2) मीमांसाकाद्यभिमतम् / (3) नैयायिकाभिमतम् / (4) प्रत्यक्षम्, अर्थग्राहकं वा / (5) हितप्राप्तौ अहितपरिहारे वा / (6) निर्विकल्पादेः / (7) पृ० 47 / (8) अर्थे / (9) 10 116 / (10) तुलना-इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रियप्रत्यक्षम अनिन्द्रियादेव विशद्धिसव्यपेक्षादुपजायमानमनिन्द्रियप्रत्यक्षम्।"-प्रमेयर० 2 / 4 / प्रमाणमी० पृ० 16 / (11) अनिन्द्रियप्रत्यक्षे। (12) अनिन्द्रियस्यैव इत्यवधारणं द्रष्टव्यम् / (13) 10 403 / (14) स्मृत्यादीनाम् / (15) स्वरूप एव / (16) स्मृत्यादेः / 1-स्वात्तत्प्रमा-श्र०। 2 ज्ञानं स्व-आ०। 3 अवग्रहहादयः ब० / 4 इदानीमनिन्द्रियप्रत्यक्ष वर्श-ब०। प्रतिभागः थः। 6 प्राधान्येतर-श्र। 7-प्रत्यक्षप्रति-आ०। 8 परोशत्वमिति श्र० /