________________ 682 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्दे [6. प्रवचनपरि० एवं सामान्येन व्यवसायात्मकं ज्ञानं प्रमाण व्यवस्थाप्य, अधुना तद्भेदं दर्शयन्नाह तत्प्रत्यक्षं परोक्षश्च द्विधैवात्रान्यसंविदाम् / अन्तर्भावान्न युज्यन्ते नियमाः परकल्पिताः॥३१॥ विवृतिः-इन्द्रियार्थज्ञानं स्पष्टं हिताहितप्राप्तिपरिहारसमर्थ प्रादेशिकं प्रत्यक्षम् 5 अवग्रहेहावायधारणात्मकम् / अनिन्द्रियप्रत्यक्षं स्मृतिसंज्ञाचिन्ताभिनिबोधात्मकम् / अतीन्द्रियप्रत्यक्षं व्यवसायात्मकं स्फुटतरमवितथमतीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थविषयम् / तेदस्ति सुनिश्चितासंभवबाधकप्रमाणत्वात् सुखादिवत् / श्रुतं परोक्षं सकलप्रमाणप्रमेयेयत्तास्वरूपाभिधायि बाधारहितं प्रमाणम् / अत्र अर्थाप त्यनुमानोपमानादीन्यन्तर्भवन्ति / परपरिकल्पितप्रमाणान्तर्भावनिराकरणमन्यत्रो10 क्तमिति नेहोच्यते / यद्यवसायात्मकं ज्ञानं प्रमाणं प्रतिपादितं तत् द्विधैव, नैकविधं नापि च्यादि विधम् इत्येवकारार्थः / कथं तद्विधैव ? इत्याह-प्रत्यक्षं परोक्षश्च / कारिकार्थः इतिशब्दोऽत्र द्रष्टव्यः, इति एवम् , न प्रत्यक्षानुमानप्रकारेण / ननु अनुमानोपमानादेः ततोऽर्थान्तरत्वात् कथं 'द्विधैव' इति नियमः स्यात् ? इत्याह15 'अत्र' इत्यादि / अत्र प्रत्यक्षपरोक्षयोः अन्यासां समीचीनसंविदाम् अन्त र्भावात द्विधैव इति / अन्तर्भावश्च परोक्षपरिच्छेदे चिन्तितः / अतश्च न युज्यन्ते नियमाः परैः सौगतादिभिः कल्पिताः / कारिकां विवृण्वन्नाह–'इन्द्रिय' इत्यादि / इन्द्रियाणां चक्षुरादीनां कार्यभूतम् विवृतिव्याख्यानम्- अर्थस्य घटादेः ग्राहकं न मरीचिकातोयादेः, ज्ञानं प्रत्यक्षम् / (1) यत्सम्यग्ज्ञानात्मकं प्रमाणं तत् द्विधैव द्विप्रकारमेव / तावेव प्रकारावह-प्रत्यक्ष परोक्ष चेति / नन्वनुमानादिप्रमाणभेदसंख्यापि संभाव्यत इत्याह-अत्रेत्यादि / न युज्यन्ते न संभवन्ति / के ? नियमाः द्वित्र्यादिसंख्याप्रतिज्ञाः / किंविशिष्टाः ? परपरिकल्पिता: परैः सौगतादिभिः कल्पिता रचिताः / कुतो न युज्यन्ते ? अन्तर्भावात् संग्रहात् / कासाम् ? अन्यसंविदाम् अनुमानादिज्ञानानाम् / क्व ? अत्रैव प्रत्यक्षपरोक्षसंग्रह एव"-लघी० ता०पू०८१ / (2) तुलना-'ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम्, हेयस्य हानमनुष्ठानमुपादेयस्य चोपादानम् / ततो हेयोपादेययोः हानोपादानलक्षणा नु सिद्धिरित्युच्येत ।"-न्यायबि० टी० पृ०८ “हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् ।"परीक्षामु० 112 / प्रमाणनय० // 3 / (3) सांव्यवहारिकं प्रत्यक्षम् / तुलना-लघी० टि० पृ० 132 पं० 10 / (4) "लक्षणं समतावान् विशेषोऽशेषगोचरम् / अक्रमं करणातीतमकलक् महीयसाम् // " -न्यायवि० का० 168 / प्रमाणसं० का०९। तुलना-न्यायवि० टि० पृ० 162 पं० 25 / न्यायकुमु० पृ०२५ टि० 2 / (5) तुलना-"अस्ति सर्वज्ञः सुनिश्चितासंभवद्बाधकप्रमाणत्वात् सुखादिवत् ।"सिद्धिवि०, टी० पृ०४२१ B. / अष्टश०, अष्टसह० पृ० 44 / आप्तप० पृ० 56 / तत्त्वार्थश्लो० पृ० 185 / प्रमाणनि० पृ० 29 / प्रमाणमी० पृ० 14 / षड्द० बृह० पृ० 53 / 1-स्नु यु-ज० वि० / 2 द्विविधैव ब०। 8-चीनविदाम् ब० / 4 ज्ञानं कर्तृ प्रत्यक्षम् ब० /