________________ प्रवचनप्र० का०६०] प्रमाणस्य व्यवसायात्मकत्वम् 681 चेदत्राह-'स्वतः' इत्यादि / स्वतोऽव्यवसायस्य स्वयं निर्विकल्पकस्य विकल्पोत्पादनं प्रत्यनङ्गत्वात् / एतच्च सविकल्पकसिद्धौ सप्रपञ्चं प्रपञ्चितमिति नेहोच्यते / तदङ्गत्वे वा दूषणमाह-'तत्' इत्यादि / तस्य विकल्पस्य उत्पत्तिं प्रत्यङ्गत्वे स्वतोऽव्यवसायस्य अभिलापससंगयोग्यता न प्रतिषेध्या। अभिलप्यतेऽनेन अभिलप्यत इति वा अभिलापः शब्दजात्यादी तयोः संसर्गो वाच्यवाचकभावलक्षणः सम्बन्धः / तस्मै योग्यः तस्य भावस्तत्ता न प्रतिषेध्या। यथैवं हि विकल्पस्य अर्थाकारलेशदर्शनाद् देर्शनस्य ताकारताऽनुमीयते तथा तस्य॑ अभिलापसंसर्गयोग्यतादर्शनात् दर्शनस्यापि सोऽनुमीयतामविशेषात् / दर्शनेऽसंभविनी तस्य तद्योग्यता भवति नार्थाकोर इति किंकृतोऽयं विभौग: ? तन्निषेधे 'अन्यथा' इत्यादिना दूषणमाह / अन्यथा तद्योग्यतानिषेधप्रकारेण विकल्पोत्पत्त्यभावप्रसङ्गात, सा 'न निषेध्या' इति सम्बन्धः। 10 ननु विकल्पवासनात एव विकल्पोत्पत्तिः, दर्शनं तु केवलं तत्प्रबोधकम् ततोऽयमदोषः; इत्यत्राह-'सति' इत्यादि / सति विद्यमाने मुख्ये स्वपरव्यवस्थायाम् अन्यनिरपेक्षे निर्णयात्मके ज्ञाने / पुनरपि कथम्भूते इत्याह-'सकल' इत्यादि / अर्थानुभवसंस्कारतत्प्रबोधस्मरणप्रत्यभिज्ञानतर्कानुमानप्रवृत्तिलक्षणः सकलो व्यवहारः तनियामके ब्रुवाणः सौगतः कथं स्वस्थः ? किं ब्रुवाण इत्याह-ज्ञानम् / कथम्भूतम् ? अकि- 15 ञ्चित्करं निर्विकल्पकं असंवेद्य 'न संवेद्यते' इत्यसंवेद्यम् , न विद्यते वा संवेद्यं ग्राह्यं यस्य, अत एव अनुपायमनुपेयमिति / (1). पृ० 47 / (2) बौद्धा हि प्रत्यक्ष निर्विकल्पकात्मकमुररीकुर्वन्ति अतस्तैः शब्दसंसर्गयोग्यता प्रत्यक्षस्य निषिध्यते / तथा चोक्तम-"अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना, तया रहितम् ।"न्यायबि० पृ० 13 / (3) नीलमिदमित्याकारकविकल्पस्य / (4) नीलाकारतादर्शनात् / (5) निर्विकल्पकप्रत्यक्षस्य / (6 नीलाकारता। (7) निर्विकल्पकं नीलाकारं तत उत्पन्ने विकल्पे नीलाकारत्वाऽन्यथानुपपत्तेः / (8) विकल्पस्य / (9) अभिलापसंसर्गयोग्यता / निर्विकल्पके अभिलापसंसर्गयोग्यताऽस्ति तत उत्पन्ने विकल्पे अभिलापसंसर्गयोग्यताऽन्यथानुपपत्तेः / (10) विकल्पस्य / (11) अभिलापसंसयोग्यता। (12) यदि दर्शनेऽसंभविनी अभिलापसंसर्गयोग्यता विकल्पे घटेत तर्हि दर्शनेऽसंभवन्नपि नीलाकार: विकल्पे स्यात् तथा च नीलविकल्पस्य साक्षानीलस्वलक्षणविषयताप्राप्तेः 'विकल्पोऽवस्तुनिर्भासः' इति सिद्धान्तविरोधः इति भावः / (13) तुलना-"यथैव हि वर्णादावभिलापाभावः तथा प्रत्यक्षेऽपि तस्य अभिलापकल्पनातोऽपोढत्वात् अनभिलापात्मकार्थसामर्थ्यनोत्पत्तेः / प्रत्यक्षस्य तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किन्नाध्यवस्येत् स्वलक्षणं स्वयमभिलापशून्यमपि / प्रत्यक्षमध्यवसायस्य हेतुर्न पुना रूपादिरिति कथं सुनिरूपिताभिधानम् ? यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्ति: प्रदीपादेः कज्जलादिवत विजातीयादपि कारणात् कार्यस्योत्पत्तिदर्शनादिति मतम् ; तदा तादृशोऽर्याद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु तत एव तद्वदिति / जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात् कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्यादिति चेत्, प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः स्यादिति सम: पर्यनुयोगः ।"-अष्टश०, अष्टसह० 10 118 // (14) विकल्पवासना। 1 तच्च श्र। 2-त्यादि तयोः श्र० / 3-4 विक-श्र०। 4-नादर्शनस्य श्र०। 5 तथा सत्यभि-श्र०। 6 विकलोत्प-श्र०। 7 अनुमेयमिति ब०।