________________ कारिकार्थः 680 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० विकल्पोत्पत्यभावप्रसङ्गात् / सति मुख्य निर्णयात्मके ज्ञाने सकलव्यवहारनियामके कथमसंवेद्यमकिञ्चित्करमनुपायमनुपेयं ब्रुवाणः स्वस्थः ? व्यवसायः स्वार्थनिश्चय आत्मा स्वभावो यस्य तत् तदात्मकम् व्यवसा यफलात्मकमित्यर्थः। अनेन 'निर्विकल्पकं विभिन्नाऽधिगतिमात्रफै लप्रसाधकं प्रमाणम्' इति प्रत्याख्यातम् / तथाविधफलात्मकञ्च प्रमाण किम् ? इत्याह-ज्ञानम् / अनेनापि 'चक्षुरादिकमज्ञानं प्रमाणम्' इति प्रतिव्यूढम् ; तस्य तदात्मकत्वविरोधात् / प्रसाधितश्च प्रपञ्चत: प्रमाणात् स्वपरव्यवसायात्मकं फलं कथश्चिदभिन्नम् 'पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम्' [लघी० का० 7] इत्यत्र / पुनरपि कथम्भूतं तत् ? इत्याह-आत्मार्थग्राहकम् , स्वपररूपवेदकम् / 10 मतम् स्वसंवेदनाध्यक्षेण ज्ञातम् / समर्थितश्च व्यासतो ज्ञानस्य आत्मग्राहकत्वं स्वसंवे दनसिद्धौ, अर्थग्राहकत्वञ्च बाह्यार्थसिद्धौ” इत्यलमतिविस्तरेण / ततः किं सिद्धम् ? इत्याह-'ग्रहणम्' इत्यादि / येन कारणेन व्यवसायात्मकं ज्ञानम् आत्मा-. र्थग्राहकं तेन कारणेन ग्रहणं स्वार्थाधिगतिः निर्णयो मुख्यमनुपचरितं प्रामा ण्यमश्नुते, न निर्विकल्पकं चक्षुरादि वा / 15 कारिकां व्यतिरेकमुखेन व्याख्यातुमाह-'अनिर्णीतिफलस्य' इत्यादि / अनि __णीतिफलस्य निश्चयफलरहितस्य अविकल्पकस्य इत्यर्थः / नाधिविवृतिव्याख्यानम् - गमोऽस्ति नानुभवोस्ति, कुत एतदित्याह-विचार्यमाणायोगात् , यस्य विचार्यमाणस्यायोगो न तस्यानुभवो यथा अद्वैतशून्यादितत्त्वस्य, विचार्यमाण स्यायोगश्च निर्विकल्पकदर्शनस्य इति / यथा चास्य विचार्यमाणस्याऽयोगः तथा सवि20 कल्पकसिद्धौ प्रपञ्चतः प्रतिपादितम् / अथ अविकल्पकस्य अविसंवादकत्वात् प्रामाण्यं प्रार्थ्यते, अत्राह-'अविसंवाद' इत्यादि / अविसंवादकत्वं गृहीतार्थतथाभावः तदायत्तं निर्णयायत्तम् / कुत एतदित्याह-'तद्' इत्यादि / तस्य निर्णयस्य अभावे क्षणायादिदर्शने मरीचिकादिदर्शने वा संशयकारिणि अभावाद अविसंवादकत्वस्य, तद्भावे च निर्णयसद्भावे च भावाद् अविसंवादकत्वस्य इति / व्यवसायफलं ज्ञानं मुख्य 25 प्रमाणम् इति एवं व्यवस्थितमित्युपसंहारः / माभूनिर्विकल्पकं स्वयमव्यवसायात्मकत्वात् तत्फलं तज्जनकत्वात्तु स्यात् इति (1) चक्षुरादेः / (2) व्यवसायफलात्मकत्व / (3) पृ० 209 / (4) पृ० 176- / (5) पृ० 119- / (6) पृ० 47 / (7) प्रमाणफलम् / (8) व्यवसायात्मकविकल्पोत्पादकत्वात् / पूर्वपक्ष:"तस्मादध्यवसायं कुर्वदेव प्रत्यक्ष प्रमाणं भवति, अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् ।"-न्यायबि० टी० पृ० 27 / तत्त्वसं० का० 1306 / तुलना-"अदोषोऽयं प्रत्यक्षस्याध्यवसायहेतृत्वादित्यनिरूपिताभिधानं सौगतस्य; तत्राभिलापाभावात् ।"-अष्टश० अष्टसह० पृ० 118 // ___ 1-निर्णय ब० / 2-फलसाध-ब०, श्र०। -कत्वावि-ब०। 4-णेन यद्ग्रहणं ब० / 5-क्षयादिदर्शने वा संशय-ब०। 6'निर्णयसदभावे च' नास्ति ब० /