________________ 676 नम् प्रवचनप्र० का 0 60] प्रमाणस्य व्यवसायात्मकत्वम् सिद्धिः, तत्सिद्धौ च ज्ञानसिद्धिरिति / यथा येन योग्यताप्रकारेण तथा ज्ञानं स्वहेतुत्थं करणमनोलक्षणस्वकारणप्रभवं परिच्छेदात्मकम् अर्थग्रहणस्वभावं स्वतो न अर्थोत्पत्त्यादेः / . कारिकां व्याख्यातुमाह-'अर्थज्ञानयोः' इत्यादि / स्वकारणात् न परस्परतः _ आत्मलाभमासादयतोरेव यथासङ्ख्येन परिच्छेद्यपरिच्छेदकभावः, 5 न अलब्धात्मनोः सर्वथा नित्ययोः क्षणिकयोर्वा / अत्र दृष्टान्तमाह'कर्तकर्मस्वभाववत्' इति / यथा स्वकारणाद् आत्मलाभमासादयतोरेव अनयोः कर्तृकमस्वभावः नैकान्तेन सतोः नाप्यसतोः, तथा प्रकृतोऽपि इति। उपसंहारार्थमाह'ततः' इत्यादि / यतः स्वकारणादुत्पन्नयोः तयोः तथाभावः सिद्धः ततः तस्मात् अर्थाद् उत्पत्तिमन्तरेणापि अर्थज्ञानयोः ग्राह्यग्राहकभावसिद्धिः स्यात् / कुतः ? स्वभावतः 10 स्वयोग्यतायाः / अन्यथा अन्येन प्रकारेण व्यवस्थाभावप्रसङ्गात् / . ननु सिद्धेऽपि स्वरूपतस्तैद्भावे तत्फलं वक्तव्यम्, तच्च 'अधिगतिमात्रम्' ईत्येके, 'स्वरूपस्यैव अधिगतिः' इत्यन्ये, 'अर्थस्यैव' इत्यपरे इत्याशङ्क्याह व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम् / ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते // 60 // 15 विवृतिः-अनिर्णीतिफलस्य नाधिगमोऽस्ति विचार्यमाणायोगात् / अविसंवादकत्वञ्च निर्णयायत्तं तदभावेऽभावात्तद्भावे च भावात् / व्यवसायफलं ज्ञानं मुख्यं प्रमाणमिति व्यवस्थितम् / स्वतोऽव्यवसायस्य विकल्पोत्पादनं प्रत्यनङ्गस्वात् / तदुत्पत्तिं प्रत्यङ्गत्वे आमिलापसंसर्गयोग्यता न. प्रतिषेध्या, अन्यथा (1) ज्ञानार्थयोः / 'ज्ञानं घटं जानाति' इत्यत्र ज्ञानस्य कर्तृता घटस्य च कर्मत्वमिति / (2) ग्राह्यग्राहकभावोऽपि / (3) ज्ञानार्थयोः / (4) कर्तृकर्मभावः / (5) ग्राह्यग्राहकभावे / (6) बौद्धाचार्याः / “उभयत्र तदेव ज्ञानं फलमधिगममरूपत्वात् ।"-न्यायप्र० पृ०७। "तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।"-न्यायबि० पृ० 25 / तत्त्वसं० का० 1343 / (7) "स्वसंवित्तिः फलञ्चास्य ।"-प्रमाणस०१।१०। "फलं स्ववित् ।"-प्रमाणवा० 31366 / (8) नैयायिकादयः / "प्रमितिर्द्रव्यादिविषयं ज्ञानम् ।"-प्रश०भा० 10 187 / (9) "मतमिष्टं ज्ञातञ्च / किम् ? ज्ञानम् / किं स्वरूपम् व्यवसायात्मकं विशेषस्य जात्याद्याकारस्य अवसायो निश्चियः स एवात्मा स्वरूपं यस्य तत्तथोक्तम् / अनेन प्रत्यक्षं कल्पनापोढमित्येतन्निरस्तम् / पुनः किंविशिष्टम् ? आत्मार्थग्राहकम्, आत्मस्वरूपमर्थो बाह्यो घटादिस्तौ गृह्णाति निर्णयतीत्यात्मार्थग्राहकम् अनेन ज्ञानमर्थग्राहकमेव न स्वरूपग्राहकम् स्वग्राहकमेव नार्थग्राहकमित्येकान्तद्वयं निराकृतम् / तेन कारणेन अश्नुते भजति किम् ? ग्रहणं ज्ञानं कर्तृ / कि रूपम ? निर्णयः स्वार्थव्यवसायस्तद्रपमित्यर्थः / किं कर्मतापन्नम् ? प्रामाण्यम् प्रमाणभावम् / किविशिष्टम् ? मुख्यमनुमचरितम् ज्ञानकारणत्वादुपचारेणैव इन्द्रियलिङ्गादेः प्रमाणत्वात् ।"-लघी०ता०पृ०८१॥ 1 स्वरूपं हेतुत्थं श्र०। 2 'इति' नास्ति श्र० / मुख्यप्रामा-ज० वि० / 4-फलस्याधिगई० वि०। 5 स्वतोप्यवसा-ई०वि० /