________________ 678 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० तद्व्यवसितिं निराकुर्वन्नाह-'नहि' इत्यादि / हिर्यस्मात् न ज्ञाने अधिकरणभूते अर्थो घटादिः अस्ति, किन्तु बहिः सोऽस्ति, तदात्मको वा ज्ञानस्वभावो वा 'अर्थः' इति सम्बन्धः, सारूप्यनिषेधात्, अन्यत्र तत्प्रतिभासनात् इति मन्यते / येन तत्र सत्त्वेन तदात्मकत्वेन वा तस्मिन् विज्ञाने प्रतिभासमाने प्रतिभासेत, 'अर्थः' इति 5 घटना / क इव सँ तत्रै नास्ति तदात्मको वा न इति चेत्राह-शब्दवत् , शब्द इव तद्वदिति / ततः किं जातम् ? इत्याह-'तत्' इत्यादि / यतो ज्ञानस्वरूपे प्रतिभासमानेऽपि तदाधेय-तदात्मकतया शब्दार्थयोः प्रतिभासो नास्ति ततः तस्यार्थस्य अध्यवसायों न स्यात् / अध्यवसायो हि अभिलापवती प्रतीति :, न चासौ तयोरननुभवे घटते अतिप्रसङ्गात् / विस्तरतश्च अविकल्पकात् तदध्यवसायप्रतिषेधः सविकल्पक10 सिद्धौ” प्ररूपित इत्युपरम्यते / अतः सिद्धं फलं 'कथम्' इत्यादिना दर्शयन्नाह-एतत् परेणोक्तमविद्यमानं त्रितयं तदुत्पत्तिसारूप्याध्यवसायलक्षणं ज्ञानप्रामाण्यं प्रतिकथमुपकारकम् ? न कथञ्चित् / केन रूपेण उपकारकं नैतत् स्यात् ? इत्याहलक्षणत्वेन / असंभविलक्षणमेतत् इत्यभिप्रायः। ननु ज्ञानस्य तदुत्पत्तित्रितयासंभवे कथमर्थग्राहकत्वमतिप्रसङ्गादित्यारेकायामाह स्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा। तथा ज्ञानं खहेतूत्थं परिच्छेदात्मकं स्वतः // 19 // विवृतिः-अर्थज्ञानयोः स्वकारणादात्मलाभमासादयतोरेव परिच्छेद्यपरिच्छेदकभावः नाऽलब्धात्मनोः कर्तृकर्मस्वभाववत् / ततः तदुत्पत्तिमन्तरेणापि ग्राह्यग्राहकभावसिद्धिः स्वभावतः स्यात् , अन्यथा व्यवस्थाभावप्रसङ्गात् / स्वेन आत्मीयेन हेतुना जनितोऽप्यर्थः घटाद्यर्थः परिच्छेद्यः स्वतः - स्वरूपेण तत्स्वभावतयैवाय स्वहेतोरुत्पत्तेः / नहि ज्ञानेन अर्थस्तकारिकार्थः स्वभावो जन्यते; अन्योन्याश्रयानुषङ्गात्-सिद्धे हि ज्ञाने तथाविधार्थ(१) बहिर्देशे भूतलादौ अर्थस्य प्रतिभासनात् / (2) ज्ञाने / (3) ज्ञानात्मकत्वेन वा हेतुना। (4) अर्थः / (5) ज्ञाने। (6) ज्ञानात्मकः। (7) विकल्पः / (8) तुलना-पृ० 46 टि० 2 / (9) शाब्दी प्रतीतिः / (10) शब्दार्थयोः / (11) पृ०४८। (12) “यथा स्यात् / कः ? घटादिः / किं विशिष्ट: स्यात् ? परिच्छेद्यो ज्ञेयः / कथम् ? स्वतः स्वभावादेव न ज्ञानादुत्पत्त्यादेः / किम्भूतोऽपि स्वहेतुजनितोऽपि स्वस्य हेतुर्मंदादिसामग्री तेन जनितोऽपि निष्पादितोऽपि / तथा ज्ञानं परिच्छेदात्मकमर्थग्रहणात्मकं स्यात् / कुतः ? स्वभावादेव नार्थादुत्पत्त्यादेः / किंविशिष्टमपि ? स्वहेतूत्थमपि, स्वस्य हेतुरन्तरङ्गः आवरणक्षयोपशमलक्षणः बहिरङ्गः पुनरिन्द्रियानिन्द्रियरूपः तस्मादुत्था उत्पत्तिर्यस्य तत्तथोक्तं तादृशमपीत्यर्थः ।"-लघी० ता० पृ० 80 / उद्धृतेयं कारिका निम्नग्रन्थेषु--सिद्धि० टी०प०१० B. / न्यायवि०वि० पृ० 33 A. / (13) परिच्छेद्यस्वभावेन / (14) अर्थस्य / 1-दिनादर्शयतो ज्ञान-थ०। 2-यो हि न आ० / 3 योपि अभिलाषवतीतिः न आ०। 4-लापप्रतीतिः ब०। 5 अत्रसि-श्र०। 6 असंभवति लक्ष-श्र०। 7-हेतुत्वं ज०वि०। 8-धात्माकर्तई० वि० / जनितोपि घटा-ब० / 10 अर्थस्वभावो आ०, अर्थः स्वतः स्वभावो ब० /