________________ प्रवचनप्र० का० 58] तज्जन्मादित्रयनिरास: 677 तज्जन्मनः करणग्रामेण व्यभिचारात्, तादूप्यस्य समानार्थसमनन्तरज्ञानेन, तद्व्यवसितेः द्विचन्द्राध्यवसायेन / नापि सह; शुक्ले शङ्ख पीतभ्रान्तिकारणेन पीतज्ञानेन अनेकान्तात् / एतत्त्रितयमसंभवदोषेण दूषयन् कारिकां व्याचष्टे 'नार्थः' इत्यादिना / सौगतस्य विवृतिव्याख्यानम्. नार्थः कारणं विज्ञानस्य / कुतः इत्याह–'कार्यकालम्' इत्यादि / कार्यस्य स्वज्ञानस्य कालमप्राप्य निवृत्तेः विनाशात् / अत्र दृष्टान्त- 5 माह-'अतीततमवत्' इति।प्रयोगः-अनन्तरातीतोऽर्थः न ज्ञानकारणम् , तत्काले सर्वथाऽविद्यमानत्वात् , यस्य तत्काले सर्वथाऽविद्यमानत्वं नासौ तत्कारणम् यथा अतीततमोऽर्थः, तत्काले सर्वथाऽविद्यमानश्च अनन्तरातीतोऽर्थः इति / एतेन भाविनोऽप्यर्थस्य तत्कारणत्वं प्रत्याख्यातम् / यथा च अर्थो न तज्ज्ञानकारणं तथा न तज्ज्ञानं तत्कार्यम् / कुत एतदित्याह-'तद्' इत्यादि / तस्य परपरिकल्पितस्य अर्थस्य अभावे एव भावात् 10 उत्पत्तेः तज्ज्ञानस्य तद्भावे च अभावाद् अनुत्पत्तेः, अन्यथा सन्तानोच्छेदः स्यात् / अत्र दृष्टान्तमाह-'भविष्यत्तमवत्' इति / निषिद्धा च अर्थकार्यता ज्ञानस्य प्रपञ्चतः प्राग् इत्यलं पुनः प्रसङ्गेन / ___ सारूप्यनिषेधार्थमाह-'नार्थः' इत्यादि / विज्ञानं न अर्थसारूप्यभृत / कुतः ? अमूर्त्तत्वात् / ननु अमूर्त्तश्च स्यात् तद्धृच्च, को विरोधः ? इति चेदत्राह-'मूर्ता एवं' 15 इत्यादि / मूर्ती एव हिर्यस्मात् दर्पणादयो मूर्तमुखादिप्रतिबिम्बधारिणो दृष्टाः / अमूर्तमपि किश्चित् दृष्टम् इति चेदत्राह-'नाऽमूर्त मूर्तप्रतिबिम्बभृद् दृष्टमिति / प्रयोगः-ज्ञानं नार्थप्रतिबिम्बभृत् , अमूर्त्तत्वात् , यत् पुनरर्थप्रतिबिम्बभृत् तन्नामूर्तम् यथा दर्पणादि, अमूर्तञ्च ज्ञानमिति / कुतोऽस्य अमूर्तत्वं सिद्धमिति चेत् ? मूर्तिधर्माभावात / तद्धर्मो हि रूपरसगन्धस्पर्शवत्त्वे सति अचेतनत्वम् , नच ज्ञाने तदस्ति / 20 निराकृतश्चास्य व्यासतः सारूप्यं तन्निराकारत्वसिद्धिप्रघट्टके' इति कृतं प्रयासेन / समस्ते वैते ग्रहणकारणं स्याताम् ? यदि व्यस्ते; तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति तदुत्पत्तेस्तदाकारत्वाच्च। अथ समस्ते; तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति / ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् ; तर्हि समानजातीयज्ञानस्य समन्तरपूर्वज्ञानग्राहकत्वं प्रसज्येत ।"-प्रमाणमी० पृ० 20 / प्रमाणनय० 4 / 47 / रत्नाकरा० 4 / 47 / / (1) तज्जन्मादयः सह मिलित्वाऽपि प्रामाण्यं प्रति हेतुतां न भजन्ति / (2) तज्जन्मादित्रयम / (3) यदि कारणभूतस्य अर्यस्य काले एव कार्यभूतं ज्ञानं समुत्पद्येत तदा कार्यकारणयोः समकालत्वापत्त्या कारणभूतस्यार्थस्यापि स्वकारणकालता तस्यापि स्वकारणकालतेत्येवं सकलोत्तरक्षणानामाद्यक्षणवत्तिता द्वितीये च क्षणे नाश इति सकलसन्तानोच्छेदप्रसङ्गः इति भावः / तुलना-“सत्येव कारणे यदि कार्य त्रैलोक्यमेकक्षणवति स्यात्, कारणक्षणकाल एव सर्वस्य उत्तरोत्तरक्षणसन्तानस्य भावात् ततः सन्तानाभावात् ।”-अष्टश, अष्टसह० पृ० 187 / (4) मूर्तिधर्मो हि / (5) पृ० 167 / 1 एव तदुत्पत्तेः श्र० / 2 सज्ज्ञानोच्छे-ब० / 3 मूर्तधर्मा-ब०। 4-कारसिद्धि-आ०। .