________________ 676 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विवृतिः-नार्थः कारणं विज्ञानस्य कार्यकालमप्राप्य निवृत्तेः अतीततमवत् / . न ज्ञानं तत्कार्य तदभाव एव भावात् तद्भावे चाभावात् भविष्यत्तमवत् / नार्थसारूप्यभृत् विज्ञानम् अमूर्त्तत्वात् / मूर्ता एव हि दर्पणादयः मूर्तमुखादिप्रतिबिम्बधारिणो दृष्टाः, नामूतं मूर्तप्रतिविम्बभृत्, अमूर्त च ज्ञानं मूर्तिधर्माभावात् / नहि ज्ञाने अर्थोऽस्ति तदात्मको वा येन तस्मिन् प्रतिभासमाने प्रतिभासेत शब्दवत् / ततः तदध्यवसायो न स्यात् / कथमेतदविद्यमानं त्रितयं ज्ञानप्रामाण्यं प्रति उपकारकं स्यात् लक्षणत्वेन ? तस्माद् अर्थात् जन्म तज्जन्म न ज्ञानस्य प्रामाण्यं प्रति हेतुतां भज ती(ती)ह लोके, न ताप्यं तस्य अर्थस्य रूपमिव रूपं यस्य तस्य कारिकार्थः भावः ताद्रप्यं न तत्प्रति तो 'भजति' इति सम्बन्धः / न तद्वयवसितिः तस्य अर्थस्य व्यवसितिः निर्णीतिः न तत्प्रति तां भेजतीति, सह युगपत् प्रत्येकंवा एकमेकं वा एकमेकं प्रति प्रत्येकम् , 'वा' इति समुच्चये। तत्र न तावत् प्रत्येकम् ; .. __ (1) तुलना-“कार्यकालमप्राप्नुवतः कारणत्वानुपपत्तेश्चिरतरातीतवत् ।”–अष्टश०, अष्टसह. 10 89 / (2) तुलना-'यथैवाक्षविषयेऽभिधानं नास्ति तथाऽक्षज्ञाने विषयोऽपि नैवास्ति ततस्तत्र प्रतिभासमानेऽपि न प्रतिभासेत ।"-अष्टश०, अष्टसह० पृ० 118 / (3) 70 पू० प्रतौ 'भजतीह' इत्येव पाठः / 'तज्जन्म' इति कर्बनुरोधात् भजतीति पाठ एव समुचितः / (4) प्रामाण्यं प्रति / (5) हेतुताम् / (6) तज्जन्मादयः प्रत्येकं प्रामाण्यं प्रति हेतुतां न भजन्ति / तुलना-"तदर्थवेदनं केन ? ताद्रूप्यात्, व्यभिचारि तत् / तदर्थसारूप्यं व्यभिचारि, द्विचन्द्रकेशोण्डुकज्ञानाद्याकारस्य अर्थमन्तरेणापि भावात् / यच्चार्थसारूप्यमनुभवनिबन्धनमुक्तं तदप्यसम्भवि इति दर्शयन्नाह-सरूपयन्ति तत्केन स्थलाभासञ्च तेऽणवः / / 321 // तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी / तत्संवेदनभावस्य न समर्था प्रसाधने // 322 // तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति / सत्यां वाऽर्थरूपतायां व्यभिचारिणी सा द्विचन्द्रज्ञानादिषु / ततश्च तत्संवेदनभावस्य अर्थसंवेदनत्वस्य प्रसाधनेषु साऽर्थ रूपता न समर्था / न केवलादर्थसारूप्यादर्थसंवेदनत्वं येन व्यभिचारः स्यात् / किं तर्हि ? सारूप्यतदुत्पत्तिभ्यां ते च द्विचन्द्रज्ञानादीनां न स्तः चन्द्रद्वयस्थाभावात् तदुत्पत्तेरयोगात् / एतदेवाह-तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् / संवेद्यं स्यात् समानार्थं विज्ञानं समनन्तरम् // 323 / / तेन ग्राह्येण सारूप्यं तस्मादुत्पत्तिः स्वसंवेद्यस्य लक्षणं यदि सम्मतम; तदापि समनन्तरं ज्ञानमुत्तरज्ञानेन समानार्थं समानग्राह्यं संवेद्यं स्यात् तत्सरूपतदुत्पत्त्योः संभवात्।" -प्रमाणवा०, मनोरथ० 2 / 320-23 / "किञ्च यदाकारं यतश्च संवेदनमुत्पद्यते यदि तदालम्बनं तर्हि धारावाहिकविज्ञानानां पूर्वपूर्वमालम्बनमुत्तरोत्तरस्य स्यात् उत्पादकत्वात् सरूपत्वाच्च "-बृहतीपं० पृ० 79 / "तत्पुनः तज्जन्मसारूप्यादिलक्षणं समानार्थनानकसन्तानेषु संभवात् व्यभिचरति तदध्यवसायहेतूत्वञ्च ।"-सिद्धिवि०, टी० पृ० 566 / 'न केवलं विषयबलाद् दृष्टरुत्पत्तिरपि तु चक्षुरादिशक्तेश्च। विषयाकारानुकरणाद्दर्शनस्य तत्र विषयः प्रतिभासते न पुनः करणम् तदाकारानुकरणादिति चेत्तर्हि तदर्थवत्करणमनुकर्तुमर्हति न चार्थं विशेषाभावात्, दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसार्यानयमाद् वहिरर्थविषयत्वमित्यसारम्; वर्णादाविव उपादानेऽप्यध्यवसायप्रसङ्गात् ।"-अष्टश०, अष्टसह० पृ० 118 / प्रमेयक० पृ० 108 / सन्मति० टी० पृ० 510 / प्रमेयर० 219 / “अपि च व्यस्ते ____1-कारिणो ई० वि०। 2-मर्तमूर्तप्र-ज० वि०। 3 'अर्थस्य' नास्ति आ०। 4 भजन्तीति श्र०। 5 भजन्तीति श्र० / 6 'एकमेकं वा नास्ति ब०, श्र० /