________________ प्रवचनप्र० का० 58] तजन्मादित्रयनिरासः 675 दृष्टेन च अदृष्टैसिद्धिः / 'नाननुकृत' इत्यादिना परमतमाशङ्कते-कार्येण अननुकृता. वन्वयव्यतिरेको यस्य तत् तथाविधं न कारणम् अपि तु अनुकृतान्वयव्यतिरेकमेव कारणम् / यच्च अकारणं तन्न विषयों ज्ञानस्य, इति शब्दः परमतपरिसमाप्तौ। अत्र दूषणमाह-'बालिशगीतम्' इत्यादि / बालिशस्य अविवेकिनो गीतं भाषितम् / कुत एतदित्याह-तामसखगकुलानां तमसि सति रूपदर्शनम् आवरणविच्छेदात्, नालोकात् / इत्यभिप्रायः। तथा तदविच्छेदात् तस्य आवरणस्य विच्छेदाभावात् हेतोः आलोके सत्यपि संशयादिज्ञानसंभवात् / इतश्च नालोकात् तद्दर्शनम् इत्याह-'काच' इत्यादि / काचः चक्षुषो व्याधिविशेषः आदिर्यस्य तिमिरादेः स तथोक्तः तेन उपहतानि इन्द्रियाणि येषां तेषां शुक्ले शङ्खादौ पीताद्याकारज्ञानोत्पत्तेः 'सत्यपि आलोके बालिशगीतम् इति सम्बन्धः / तथा मुमूर्तृणां प्राणिनां यथासंभवं संभवानतिक्रमेण अर्थे सत्यपि विपरी- 10 तप्रतिपत्तिसद्भावात् कारणात् न अर्थादयः आदिशब्देन आलोकादिपरिग्रहः, कारणं विज्ञानस्य इति स्थितम् / पूर्वं नैयायिकमपेक्ष्योक्तम् , इदं सौगतमिति प्रैविभागः / अत्रैव दूषणान्तरमाह नै तज्जन्म न तादूप्यं न तद्वयवसितिः सह / प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् // 58 // 15 (1) सौगतमतम् / (2) पृ० 663 / (3) इहज्ञाने / प्रामाण्यं प्रति प्रमाणत्वमुद्दिश्य / हेतुतां निमित्तभावं न भजन्ति / किन्त इत्याह-तज्जन्म तस्मादज्जिन्म उत्पत्तिः, तस्य करणग्रामेण व्यभिचारात / न च ताप्यं तस्यार्थस्य रूपमिव रूपमाकारो यस्य तत्तद्रूपं तस्य भावस्ताद्रप्यम् , तस्य समानार्थसमनन्तरज्ञानेन व्यभिचारात् / नापि तद्वयवसितिः तत्रार्थे व्यवसितिर्व्यवसायो निश्चयः, तस्य द्विचन्द्रादिव्यवसायेन व्यभिचारात्। कथम् ? प्रत्येकम् एकमेकं प्रतिनियतमेकैकमित्यर्थः / सह मिलित्वा वा तानि प्रामाण्यहेतुतां न भजन्ति / तत्त्रितयस्यापि शुक्ले शंखे पीताकारज्ञानजनकेन समनन्तरप्रत्ययेन व्यभिचारात ।"-लघी०ता०प०७९ / तज्जन्मादित्रयस्य प्रामाण्यहेतुतानिरूपका बौद्धग्रन्थाः-"विषयाकार एवास्य प्रमाणं तेन मीयते।"-प्रमाणसमु०१।१०। "तस्माच्चक्षुश्च रूपञ्च प्रतीत्योदेति नेत्रधीः / 33190 / भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः / हेतुत्वमेव युवतिज्ञास्तदाकारापणक्षमम् / / कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् / तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते / ( 3 / 247148 / ) अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् / तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता ॥"-प्रमाणवा० 31305 / "तदाकरं हि संवेदनमर्थ व्यवस्थापयति नीलमिति पीतञ्चेति ।"-प्रमाणवात्तिकालं०प० 2 / "किमर्थं तर्हि सारूप्यमिष्यते प्रमाणम् ? क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् . "सारूप्यतोऽन्यथा न भवति नीलस्य कर्मणः संवित्तिः पीतस्य वेति क्रियाकर्मप्रतिनियमार्थमिष्यते ।"-प्रमाणवात्तिकालं० पृ० 119 / अनुकूलविकल्पोत्पत्तिरेव अध्यवसायः; तथाहि-"अविकल्पमपि प्रत्यक्षं विकपोत्पत्तिशक्तिमत् / निःशेषव्यवहाराङ्गं तद्वारेण भवत्यतः।"-तत्त्वसं० का० 1306 / / 1-सिद्धेःश्र। 2-यो विज्ञानस्य श्र०, ब013 सत्यालोके श्र०। 4 मुमक्षणां ब०। 5 प्रतिभागः आ०।