________________ 674 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विवृतिः-यथास्वं कर्मक्षयोपशमापेक्षिणी करणमनसी निमित्तं विज्ञानस्य न बहिरादयः / “नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः" [ ] इति बालिशगीतम् ; तामसखगकुलानां तमसि सति रूपदर्शनम् आवरणविच्छेदात् , तदविच्छेदात् आलोके सत्यपि संशयादिज्ञानसंभवात् / काचाद्युप6 हतेन्द्रियाणां शंखादौ पीताद्याकारज्ञानोत्पत्तेः। मुमूर्पूणां यथासंभवम् अर्थे सत्यपि विपरीतप्रतिपत्तिसद्भावात् नार्थादयः कारणं ज्ञानस्य इति स्थितम् / मलैर्विद्धः सम्बद्धो यो मणिः तस्य व्यक्तिः आविभावो यथा येन विश्रसोपयोगप्रकारेण अनेकप्रकारतः विशेदतरप्रकारम् एकदेश- . कारिकार्थः साकल्यप्रकारं निकटदूरदेशवर्तिस्वप्रकाश्यप्रकाशनप्रकारम् / अन्य 10 वा विषयापहारादिलक्षणमाश्रित्य, तथा तेन प्रकारेण कर्मभिः ज्ञानावरणीयादिभिः विद्धस्य प्रच्छादितस्य आत्मनो जीवस्य विज्ञप्तिः अर्थप्रकाशकत्वलक्षणा अनेकप्रकारतः इन्द्रियाऽनिन्द्रियाऽतीन्द्रियप्रकारम् सकलविकलसन्निकृष्टविप्रकृष्टार्थप्रकाशन-. प्रकारम् स्वपररूपोद्योतनप्रकारम् प्रत्यक्षतरत्वप्रकार वा आश्रित्य भवति / नेनु पूर्वोत्तरज्ञानक्षणव्यतिरिक्तः, कायाकारपरिणतभूतचतुष्टयव्यतिरिक्तो वा न कश्चिदात्मा15 ऽस्ति तत्कस्य अनेकप्रकारतो विज्ञप्तिः स्यादिति सौगत-चार्वाको; तौ च प्रतिपादित विस्मरणशीलौ; सन्ताननिषेधावसरे हि पूर्वोत्तरज्ञानक्षणव्यतिरिक्तः अनादिनिधनः प्रतिपादितः प्रमाता, चार्वाकमतपरीक्षायाचं कायाकारपरिणतभूतचतुष्टयव्यतिरिक्तः इत्यलमतिप्रसङ्गेन। कारिकां विवृण्वन्नाह-'यथास्वम्' इत्यादि / यस्य ज्ञानस्य यद् आवारकं _ स्वम् आत्मीयं कर्म तस्यानतिक्रमेण यथास्वम् / कर्मक्षयोपशमाविवृतिव्याख्यानम्- इलेवं शीले तटपेक्षिणी करणमनसी इन्द्रियानिन्द्रिये निमित्तं विज्ञानस्य, न बहिरादयः, एतच्चानन्तरमेव प्रपञ्चितम् / दृष्टे च करणमनसी स्वावरणरजोनीहारादिक्षयोपशमापेक्षिणी पादपादिविज्ञानस्य निमित्तम् / कर्मविद्धात्मविज्ञप्तिः कर्माणि ज्ञानावरणादीनि तैराविद्धः सम्बद्धः स चासावात्मा च तस्य विज्ञप्तिरर्थोपलब्धिः / कथम् ? अनेकप्रकारतः अनेके नानारूपाः प्रत्यक्षतरदूरासन्नार्थप्रतिभासनविशेषाः क्षयोपशमविशेषाश्च तानाश्रित्येत्यर्थः / तदावरणविशेषनिरासे तु सकलार्थविज्ञप्तिरात्मन उपपद्यते एव ज्ञानस्वभावत्वात्तस्येति ।"-लघी० ता० पृ० 78 / उद्धृतोऽयम्-सिद्धिवि० टी० 193 A. / आव०नि० मलय० पृ० 17 / नन्दि० मलय० पृ० 66 / इष्टोप० टी० पृ० 30 / कर्मप्र० टी० पृ० 8 / तुलना-"मलावृतमणेर्व्यक्तिर्यथाऽनेकविधेक्ष्यते / कर्मावृतात्मनस्तद्वद्योग्यता विविधा न किम ।"-तत्त्वार्थश्लो० पृ० 191 / (1) द्रष्टव्यम्-पृ० 640 टि० 2 / (2) सौगतचार्वाको / (3) पृ० 9 / (4) पृ० 343 / _1-स्वकर्म-ज० वि०। 2 विषमोपयोग-ब०, विश्लेषोपयोग-श्र०। 8 विरुद्धस्य आ० / 4-द्रियायप्रका-श्र०। 5 यथावारकं आ० / 6-यः तच्चा-आ० /