________________ प्रवचनप्र० का 0 57 ] तमोद्रव्यवादः उत्पत्तेः तदपि तद्धेतुः स्यात् / तथा च 'रूपादीनां मध्ये रूपादीनां प्रकाशकत्वात्' इत्ययं हेतुः तमसाऽनैकान्तिकः, तस्याऽतैजसत्वेऽपि रूपप्रकाशकत्वात् / पुनरपि तमसः तज्ज्ञानप्रतिषेधकत्वे दूषणमाह-'अर्वाग्भागदर्शिनः' इत्यादि / अर्वाग्भागं पश्यतीत्येवं शीलस्य तद्दर्शिनः परभागपरिच्छेदाभावात् तस्यापि अर्वाग्भागस्यापि न केवलं तमस एवं ज्ञाननिरोधित्वं स्यात्, प्रक्रमात् 'चक्षुर्ज्ञाननिरोधित्वं / स्यात्' इति मन्यते / अत्र दृष्टान्तमाह-तमोवत् / तमस इव तद्वदिति / तथा च तद्वंद् अर्वाग्भागस्याप्यदर्शनप्रसङ्गाद् असर्वदर्शिनोऽन्धतैव स्यात् / यच्चक्षुर्ज्ञाननिरोधि न तत् तज्ज्ञानग्राह्यम् यथा तमः, चक्षुर्ज्ञाननिरोधी च अर्वाग्भाग इति / / ननु मा भूत् तम आवरणं तिमिरादि तु भविष्यति इत्यत्राह-'प्रत्यर्थम्' इत्यादि / अर्थमर्थं प्रति प्रत्यर्थम् , आवरणस्य ज्ञानावरणीयकर्मणो यो विच्छेद 10 अभावः तदपेक्षया ज्ञानस्य परिच्छेदकत्वात् अर्थप्राहकत्वात् कारणात् नावरणं ज्ञानस्य प्रच्छादकम् / किम् ? इत्याह-तिमिरादि। आदिशब्देन कामलादिपरिग्रहः / ज्ञानावरणीयं कर्मैव हि नियमेन तत्प्रच्छादकम् , तस्मिन् सति ज्ञानस्य अर्थपरिच्छेदकत्वाभावात् , न तिमिरादि तस्मिन् सत्यपि सत्यस्वप्ने रूपदर्शनसद्भावात् / इतश्च न तदावरणमित्याह-परिच्छेद्यत्वात् / अत्र निदर्शनमाह-'अर्थवत्' इति / प्रयोगः- 15 यत्परिच्छेद्यं न तद् आवरणम् यथा अर्थः, परिच्छेद्यश्च तिमिरादि इति / ननु तिमिरादीनामनावरणत्वे "यद्विज्ञानं स्वविषये विपर्यस्तं तत्सावरणम् यथा चक्षुर्विज्ञानं द्विचन्द्रादिगोचरम्, तथाविधश्च मिथ्यादृशां ज्ञानम्' [ ] इत्याचार्टीयं वचः स्वाभ्युपगमविरुद्धं स्यादिति चेत् ; न; अन्यथाभिप्रायात् / तमस्तिमिरादि वा अदृष्टकारणनिरपेक्षमावरणं न भवति, तत्सापेक्षं तु भवत्येव इत्ययमाचार्यस्यामिप्रायः / ननु च आत्मनो ज्ञानस्वभावतया सवत्र सर्वदा सर्वथा सर्वार्थग्रहणस्वभावत्वेन अशेषज्ञत्वप्रसङ्गान्न किञ्चिदावरणकल्पनया इत्याशङ्कापनोदार्थमाह मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारतः। कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः॥ 57 // (1) तमोऽपि / (2) रूपज्ञानहेतुः / (3) स्वगतकृष्णरूप / (4) चक्षुर्ज्ञान / (5) परभागवत, तमोवद्वा। (6) अर्वाग्भागो न चक्षुरिन्द्रियग्राह्यः चक्षुर्ज्ञाननिरोधित्वात् / (7) ज्ञानप्रच्छादकम् / (8) ज्ञानावरणकर्मोदये सत्येव / (9) तिमिरादि नावरणं परिच्छेद्यत्वात् / (10) ज्ञानावरणकर्मोदय अदृष्टपदेन ग्राह्यः। (11) "यथा स्यात् / का? मलविद्धमणिव्यक्तिः मल: कालिमरेखादिभिः विद्धः स चासौ मणिश्च पद्मरागादिः तस्य व्यक्तिः तेजःप्रादुर्भावः / कथम् ? अनेकप्रकारतः अनेके बहवः प्रकारा विशदाविशददूरादूरप्रकाश्यप्रकाशनविशेषाः तानाश्रित्य। तथा स्यात् / का? 1 तथा रूपा-श्र०। 2-सः स्वज्ञान-ब०। 3 अवाग्भाग-श्र०। 4 एव विज्ञान-ब०। 5नविरो-आ०। 6 तद्दर्शनग्राह्यं ब०। चक्षुर्ज्ञानं ब०, श्र०। 8 सर्वदा सर्वार्थ-श्र०। 9 सर्वथाग्रहणस्व-ब०। 35