________________ 672 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० ___यच्चान्यदुक्तम्-'आवारकद्रव्यगतं कर्म छायायामध्यारोप्य 'छाया गच्छति' इति प्रतिपद्यते' इत्यादि; तदप्यपेशलम् ; छायाया असत्त्वे तेत्र आवारकद्रव्यगताया गतेरारोपानुपपत्तेः / सत्येव हि वृक्षादौ अश्वाद्यारूढः पुरुषः स्वगतं कर्म तत्र अध्यारोपयति नासति इति, अतः तदँध्यारोपान्यथानुपपत्तेः छायाया वास्तवं सत्त्वं सिद्धम् / प्रयोगः5 छोया परमार्थसती अध्यारोप्यमाणगतित्वात्, यद् अध्यारोप्यमाणगति तत् परमार्थसत् यथा वृक्षादि, अध्यारोप्यमाणगतिश्च छाया इति / तन्न ज्ञानानुत्पत्तिमात्रं तमः / ___ननु सिद्धस्यापि द्रव्यान्तरभूतस्य तमसः चक्षुर्ज्ञानप्रतिबन्धकत्वादयुक्तमुक्तम् 'तमो निरोधि वीक्षन्ते' इत्यादि; तदसाप्रतम् ; यतः तैतिक म्वात्मनि तत्प्रतिबन्धकम, अन्यत्र वा ? तत्राद्यपक्षे-'नहि' इत्यादिना 10 दूषणमाह-नहि नैव तमः चक्षुर्ज्ञानप्रतिषेधकं 'स्वात्मनि' इत्यध्याहारः / कुत एतदि त्याह। तमोविज्ञानाभावप्रसङ्गात्, अस्ति च तज्ज्ञानम् , अतो न तत् तत्प्रतिषेधकम् / प्रयोग:-यद् यज्ज्ञानस्य विषयो न तत् स्वात्मनि तज्ज्ञानस्य प्रतिषधकम् यथा काण्डपटादि, चक्षुर्ज्ञानस्य विषयश्च तम इति / अथ अन्यत्र घटादौ न स्वात्मनि, तत् तद्विज्ञानाभावहेतुरिति चेत् तर्हि आलोकोऽपि तमोविज्ञानाभावहेतुत्वात् तमोव15 दभावहेतुः स्यात् / चक्षुर्विज्ञानस्य अभावः अनुत्पत्तिः उत्पन्नस्य वा प्रध्वंसः, तस्य हेतुः कारणं स्याद् भवेत् / तथी च 'तैजस चतू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वाद् श्रालोकवत्' इत्यत्र प्रयोगे साँधनविकलो दृष्टान्तः। अथ आलोकः तमोविज्ञानाभावहेतुः स्वरूप-घटादिविषयज्ञानहेतुश्चेष्यते; तर्हि तमोऽपि घटादिविषयज्ञानाऽहेतुः स्वविषय विज्ञानहेतुश्चेष्यतामविशेषात् / अथ आलोके सत्येव केषांश्चिद् रूपज्ञानोत्पत्तेः तदभावे 20 चानुत्पत्तेः अँसौ तद्धेतुः; तर्हि तमसोऽप्यभावे केषाश्चितज्ज्ञानानुत्पत्तेः तस्मिन् सत्येव (1) पृ० 668 पं० 2 / (2) छायायाम् / (3) वृक्षादौ। (4) आवारकद्रव्यगतगत्यारोपान्यथानुपपत्तेः। (5) "भावरूपा छाया अध्यारोप्यमाणगतित्वात् वृक्षवत् ।"-स्या० 20 10 854 / (6) "तमो दृष्टिप्रतिबन्धिकारणं प्रकाशविरोधि।"-सर्वार्थ सि०, राजवा०, तत्वार्थभा० व्या०५।२४ / (7) तमः / (8) ज्ञानप्रतिबन्धकम् / (9) स्वात्मनि ज्ञानप्रतिषेधकम् / (10) तमो न स्वचाक्षुषज्ञानप्रतिरोधकम् चाक्षुषज्ञानविषयत्वात् / (11) तमः / (12) तुलना-"प्रदीपस्य च घटरूपव्यवधायकतमोऽपनेतृत्वे 'तैजसं चक्षु रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदिति साधनविकलत्वात् दृष्टान्तस्य निरस्तं द्रष्टव्यम् ।"-सन्मति० टी० पृ० 544 / (13) न्यायकु० पृ० 76 टि०२। (14) आलोको हि न तमसो रूपस्य प्रकाशक: अत: स: 'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति साधनशून्यः। (15) स्वस्य आलोकस्य रूपम् भासुराख्यम् / (16) तमोविषयक / (17) अस्मदादीनाम् / (18) आलोकः / (19) रूपज्ञानहेतुः / (20) तमोज्ञान / (21) तमसि / 1 असत्यत्वे ब०। 2-षः कर्म आ०, ब०। 3-ज्ञानाप्रति-श्र०। 4 आलोकेऽपि श्र० / 5 तमोज्ञाना-आ० / 6 घटादिज्ञानाहेतुः आ०, ब०। 7 केषाञ्चिज्ज्ञा-आ०, ब०।