________________ प्रवचनप्र० का 0 56 ] समोद्रव्यवादः 671 किञ्च, ज्ञानानुत्पत्तिव्यतिरेकेण अपरस्य तमसोऽनभ्युपगमे विशदज्ञानोत्पत्तिव्यतिरेकेण अन्यस्य आलोकस्यापि अभ्युपगमो मा भूत् / असत्यपि हि आलोके बहलान्धकारनिशीथिनीसमये नक्तञ्चराणाम् अञ्जनाभिसंस्कृतचक्षुषाचे प्रस्फुटज्ञानोत्पत्तौ सप्रकाशं सकलं वस्तु प्रकाशते / लोकप्रतीतिबाधा उभयत्र तुल्या। यथैव हि ‘मध्याह्ने अतितीबालोके बहिर्गन्तुमसमर्थाः' इति लौकिकी प्रतीतिः तथा 'बहलान्धकारायां रात्रौ बहिर्गन्तुं 5 त्रस्ताः' इत्यपि / ततो निर्बाधबोधाधिरूढप्रतिभासत्वेन आलोकद्रव्यस्य वास्तवत्वाभ्युपगमे तमोद्रव्यस्यापि तदभ्युपगन्तव्यं विशेषाभावात् / तथा, द्रव्यं छायाद्यन्धकारः घटाद्यावारकत्वात् काण्डपटादिवत् / गतिमत्त्वाच्चासौ वाणादिवत् द्रव्यम् / न च गतिमत्त्वमसिद्धम् ; 'वेगेन छाया गच्छति' 'शनइछाया गच्छति' इति प्रतिप्राणि प्रसिद्धप्रतीतितः तस्याः तत्प्रसिद्धेः / अनुमानाच्च; 10 तथाहि-गतिमती छाया देशादेशान्तरप्राप्तिमत्त्वात् वाणादिवत् / यदप्यभिहितम्-'देशान्तरप्राप्तिः देशान्तरेण संयोगः समवायो वा' इत्यादि; तत्रं देशान्तरेण अस्याः प्राप्तिः सम्बन्धोऽभिप्रेतः, से च संयोग एव पर्यवस्यति / न चैवमन्योन्याश्रयत्वम् ; अतश्छायाया द्रव्यत्वाऽप्रसाधनात् / देशान्तरप्राप्तितो हि तस्या गतिमत्त्वं प्रसाध्यते, तस्माच्च द्रव्यत्वमिति / न चैवं चक्रकप्रसक्तिरित्यभिधातव्यम् ; तत्प्राप्तेः / प्रत्यक्षत एव प्रसिद्धस्वरूपत्वात् / यदि हि द्रव्यत्वसिद्ध्या तत्प्राप्तिः प्रसाध्येत ततश्च गतिमत्त्वं तदा स्याच्चक्रकम् / कथमन्यथा 'गतिमान् आदित्यो देशान्तरप्ताप्तिमत्त्वात्' इत्यादावपि इतरेतराश्रयादिदोषानुषङ्गो न स्यात् ? (1) "यद्येवमालोकस्याप्यभावः स्यात् विशदज्ञानव्यतिरेकेणान्यस्य अस्याप्यप्रतीतेः / तद्वयवहारस्तु लोके विशदज्ञानोत्पत्तिमात्रः।"-प्रमेयक० प० 238 / (2) पुरुषाणान् / (3) तुलना"तमस्तावत्पुद्गलपरिणामः दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवत्, आवारकत्वात् पटादिवत्।"-तत्वार्थभा० व्या० पृ०३६३। “तमो भावरूपं घटाद्यावारकत्वात् काण्डपटादिवत् / नचास्य घटाद्यावारकत्वमसिद्धम् ; विषयाभिमुखप्रवर्तमाननयनव्यापारनिरोधित्वात्तद्वदेवेत्यतस्तत्सिद्धेः ।"-स्या० र० पृ०८५१॥ (4) "छाया द्रव्यं क्रियावत्त्वात् कुम्भवत् ।"-स्या० र० पृ०८५३। (5) छायायाः। (६)गतिमत्त्व / (7) "अनुमानावसेयमपि; तथाहि-गतिमती छाया देशाद्देशान्तरप्राप्तिमत्त्वान्मैत्रवदिति ।"-स्या० र० पृ० 853 / (8) पृ० 668 पं० 3 / (9) “यतोऽत्र छायाया देशान्तरेण प्राप्तिः संयोगोऽभिधीयते / यत्र वास्पेतरेतराश्रयोदभावनं तदनुसन्धानशून्यतावशात् / न हि देशान्तरप्राप्तिमत्त्वाद् द्रव्यत्वं प्रसाधयितुमुद्यता: स्मः, किन्तु गतिमत्त्वं तस्मात्तु द्रव्यत्वमिति ।"-स्या० र० पृ० 854 / (10) सम्बन्धः / (11) देशान्तरप्राप्तिरूपसंयोगात् / (12) गतिमत्त्वाच्च / (13) "नन्वेवमपि महत्तरे चक्रकसंकटे यूयं पतिताः / तथाहि-देशान्तरसंयोगात् क्रियावत्त्वम्, क्रियावत्वात् द्रव्यत्वम्, द्रव्यत्वात् देशान्तरसंयोगवत्त्वमिति; उत्स्वप्नायितमेतत् ; देशान्तरप्राप्तेः प्रत्यक्ष एव छायायां प्रसिद्धस्वरूपत्वात् / यदि हि द्रव्यत्वसिद्धया देशान्तरप्राप्तिः प्रसाध्येत तदा स्यात्तद्रूषणम् / प्रत्यक्षेणेति सिद्धन देशान्तरप्राप्तिमत्त्वेन सिद्धात् क्रियावत्वात्सिद्धं छायाया द्रव्यत्वम् ।"-स्या० र० पृ० 855 / (14) देशान्तरप्राप्तिः / 1-नादिसंस्कृ-ब०। 2 सकलवस्तु श्र०। 3 द्रव्यमिति ब० / 4 प्रसाध्यते आ० /