________________ 670 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० अथ मतम्-औपचारिकस्तत्र माधुर्यादिगुणो मुख्य बाधकसद्भावात् / तथाहिरसनेन्द्रियव्यापाराद् यथा क्षीरादिषु माधुर्यप्रतिपत्तिः न तथा छायायाम् / तस्मात् 'मधुरादिद्रव्यनिषेवणाद् यौ गुणदोषौ दृष्टौ छायानिषेवणादपि तावेव' इति वैद्यकशास्त्रतात्पर्यम् , अतोऽसिद्धं गुणवत्त्वं छायादेः; इत्यप्यनल्पतमोविलसितम् ; तंत्रास्य अबाधबोधाधिरूढप्रतिभासतया औपचारिकत्वानुपपत्तेः। यद्यत्र अबाधबोधाधिरूढतया प्रतिभासते न तत्तत्रौपचारिकम् यथा तेजसि भासुरत्वादि, अबाधबोधाधिरूढतया प्रतिभासते च छायाद्यन्धकारे शीतलत्वादिगुणसद्भाव इति / तथाविधस्याप्यस्य॑ अत्रौपचारिकत्वे ज्योस्नाऽऽतपयोरपि मुख्यतो गुणसिद्धिर्मा भूत् ; कटुकत्वादिगुणानां तत्राप्यौपचारिकत्वप्रसङ्गात् , प्रागुक्तवैद्यकग्रन्थप्रक्रियायाः तत्रापि कल्पयितुं सुशकत्वात् / 10 ततः प्रतीति प्रमाणयता ज्योत्स्नादिवत् छायाद्यन्धकारेऽपि अनुपचरितगुणसद्भावसिद्धिरभ्युपगन्तव्या, इति सिद्धमस्य गुणवत्त्वाद् द्रव्यत्वम् / - यदप्युक्तम्-'असत्यपि अन्धकारे गर्भगृहादौ ज्ञानानुत्पत्तौ तमः प्रतीयते'. इत्यादि; तत्रापि सर्वथा ज्ञानानुत्पत्तिस्तत्प्रतीतिहेतुः, तदन्तर्वतिपदार्थेषु वा ? प्रथमपक्षे स्ववचनविरोधः 'माता मे वन्ध्या' इत्यादिवत् / न खलु सर्वथा ज्ञानानुत्पत्तिं वदतः तमःप्रतीतिरविरुद्धा, तत्प्रतीतौ वा सर्वथा ज्ञानानुत्पत्तिरिति / द्वितीयपक्षे तु प्रचुरतरालोकोपहतदृष्टिः प्रतिपत्ता तत्रस्थानर्थान् यथावत्प्रतिपत्तुमसमर्थः जलरूपतया मरीचिकाचक्रमिव आलोकमेव तमोरूपतया प्रतिपद्यते / न च मिथ्यातमःप्रतिभासेन अमिध्यातमःप्रतिभासस्य साम्यमापादयितुं युक्तम् ; सत्यजलादिप्रतिभासस्यापि असत्यजलादिप्रतिभासेन साम्यापादनप्रसङ्गतो वस्तुव्यवस्थाभावप्रसङ्गात् / ' (1) 'यच्चेदमागमात् माधुर्य शैत्यं वा छायायाः, तदप्युपचारात् / ये हि मधुरद्रव्यस्य शीतद्रव्यस्य वा गुणाः ते छायासंसेवनाद् भवन्तीति तत्कार्यकर्तृत्वेन तथोक्तः ।"-प्रश० व्यो० पृ० 47 / (2) छायादौ। (3) छायादौ माधुर्यादेः / तुलना-"छायापि शिशिरत्वादाप्यायकत्वाज्जलवातादिवत्।" -तत्त्वार्थभा० व्या० पृ० 363 / "मुख्यार्थबाधायामुपचारप्रवृत्तेः, न चेयमत्रास्ति ।"-स्या० पृ० 856 / (4) छायादौ माधुर्यादि नौपचारिकम् अबाधबोधाधिरूढप्रतिभासत्वात्। (5) अबाधितप्रतिभासविषयत्वेऽपि / (6) माधुर्यादेः / (7) छायादौ / (8) तुलना-"तत्तेजस्यपि समानम् ।"-सन्मति. टी० पृ० 672 / स्या० 20 पृ० 856 / (9) तुलना-'न च तमसः पौद्गलिकत्वमसिद्धम् ; चाक्षुषत्वाऽन्यथानुपपत्तेः प्रदीपालोकवत् ।'रूपवत्त्वाच्च स्पर्शवत्त्वमपि प्रतीयते शीतस्पर्शप्रत्ययजनकत्वात् ।"-स्या० मं० का० 5 / “तमः स्पर्शवत् रूपवत्त्वात् पृथिवीवत् / न च रूपवत्त्वमसिद्धम् ; अन्धकारः कृष्णोऽयमिति कृष्णाकारप्रतिभासात् ।”-रत्नाकराव० पृ० 69 / (10) तमः प्रतीतिकारणम् / (11) तुलना-"किं पुनरन्धकारावस्थायां ज्ञानं नास्ति ? तथा चेत्; कथमन्धकारप्रतीति: तदन्तरेणापि प्रतीतौ अन्यत्रापि ज्ञानकल्पनानर्थक्यम् / प्रतीयते ज्ञानं नास्तीति च स्ववचनविरोधः प्रतीतेरेव ज्ञानत्वात् ।”-प्रमेयक० पृ० 238 / (12) तमःप्रतीतौ / (13) अविरुद्धा इति शेषः / (14) अन्धकान्तर्वतिपटाद्यर्थान् / 1 गुणत्वाद् ब०।