________________ प्रवचनंप्र० का० 56 ] . तमोद्रव्यवादः उष्णस्पर्शश्च लोके प्रसिद्धः तथा छायादितमसि कृष्म रूपं शीतस्पर्श इति / ततो द्रव्यं तमः गुणवत्त्वात् , यद् यद् गुणवत् तत्तद् द्रव्यम् यथा आलोकादि, गुणवच्च तम इति / न केवलं छायादेर्लोक एव गुणवत्त्वं प्रसिद्धम् , अपि तु वैद्यकशास्त्रेऽपि / तदुक्तम् "अातपः कटुको रूक्षः छाया मधुरशीतला / / - कषायमधुरा ज्योत्स्ना सर्वव्याधिहरं (करं ) तमः // " [राजनि०] / (1) जैना हि तमः पुद्गलद्रव्यात्मकं स्वीकुर्वन्ति; तथाहि-गोयमा दिया सुभा पोग्गला सुभे पोग्गलपरिणामे, राति असुभा पोग्गला असुभे पोग्गलपरिणामे ।"-भगवतीसू 5 / 9 / 224 / “सइंधयारउज्जोओ पहा छायातवे इ वा / वण्ण रसगंधफासा पुग्गलाणं तु लक्खणम् ॥"-उत्तरा० 28 / 12 / नवतत्त्व० गा०९।"शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च।"-तत्त्वार्थस०५।२४। "सद्दो बन्धो सुहृमो थूलो संठाण भेद तम छाया। उज्जोदादवसहिया पुग्गलदव्वस्स पज्जाया।"-द्रव्यसं० गा० 16 / वैयाकरणास्तमः अणुरूपं स्वीकुर्वन्ति-"अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः। छायातपतमःशब्दभावेन परिणामिनः ।"-वाक्यप० 11111 / अन्यान्यपि तमसो द्रव्यरूपतामुररीकुर्वन्ति मतान्तराणि-"तमोदर्शनं तु भूच्छायादर्शनम् / कतमत्पुनर्द्रव्यादीनां तमः ? ननु द्रव्यमेव कालिमगुणशालित्वात् स्पन्दवत्त्वाच्च / तथाहि-कालिमैवास्य रूपमुपलभ्यते अप्तेजसोरिव श्वेतिमा। एवं संख्याप्येकत्वादिका, परिमाणं तच्चतुर्विधं पृथिव्याद्यनामिव तमोऽणूनामप्यनुमानात्, पृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराश्च / पञ्चविधमपि कर्म अध्यक्षमीक्षते / यथाहात्र भवान्वार्तिककार:-ननु नाभावमात्रस्य तमस्त्वं वृद्धसम्मतम् / छायायाः काष्र्ण्यमित्येवं पुराणे भूगुणश्रुतेः // भूगुणस्य कार्ण्यस्य छायायां द्रव्यान्तरश्रुतेरित्यर्थः। दूरासन्नप्रदीपादिदेहचेष्टानुसारिणी / आसन्नदूरदीपादिमहदल्पचलाऽचला। छाया न वस्तुत्वाद्विना भवेत् // इति / न च पृथिव्यादीमनान्यतमम् तस्मात्प्रत्यक्षसिद्धमसति बाधके द्रव्यान्तरमेकादशं तमो नवगुणः चेति सिद्धम् / नादृष्टौ दर्शनं छाया नचाऽभावोऽस्मृतौ गतेः / रूपादुपायसद्भावात् द्रव्यं द्रव्यान्तरानुगम् ।"-विधिवि० टी० पृ० 76-79 / “किमिदं तमो नाम ? द्रव्यगणकर्मनिष्पत्तिवैधाद् भाभावस्तम इति काश्यपीयाः; तथा तु नीलबुद्धिनिनिमित्ता स्यात् अभावस्य नीलिमाभावात् / न चासतो नीलिम्नः किञ्चिद् ग्राहकं स्मारकं वाऽस्ति / आलोकादर्शनमात्रेण तु तभ्रमो भवंस्तच्छ्रन्यभागेऽपि स्यात् , अतो द्रव्यान्तरमिदं वायुवन्नीलिमगुणम् , वायुस्वरूपः स्पर्शवान् इदञ्चाऽस्पर्श रूपवदित्येतावान्विशेषः / अथवा, य एते पार्थिवास्त्रसरेणवो वातायनविवरेषु दृश्यमानाः सर्वतो भ्रमन्ति तेषां ये नीलगुणकाः तद्गतमिदं नीलरूपं गृह्यमाणं गुणान्तराणां द्रव्यान्तराणाञ्च तदन्तरालस्य च अग्रहणाद् व्याप्ताखिल ब्रह्माण्डवच्चकारित / नीलरूपग्रहणे चालोकापेक्षा नास्तीति दर्शनबलादभ्युपगम्यते।"-मी० श्लो० न्यायर०प०७४० / “तमालश्यामलज्ञाने निर्बाधे जाग्रति स्फुटे / द्रव्यान्तरं तमः कस्मादकस्मादपलप्यते॥"-चित्सु० पृ० 28 / “अस्पर्शवत्त्वे सति रूपवत्तमः / तच्च नेत्रेन्द्रियमात्रग्राह्यमालोकाभावप्रकाश्यं कृष्णरूपम् / कलायकोमलच्छायं दर्शनीयं भृशं दृशाम् / तमः कृष्णं विजानीयादागमप्रतिपादितम् ॥"गुणकर्मादिसद्भावादस्तीति प्रतिभासतः / प्रतियोग्यस्मृतेश्चैव भावरूपं ध्रुवं तमः ।"-मानमेयो०१०१५९। (२)"आतपः कटुको रूक्षः स्वेदमूर्छातृषावहः / दाहवैवर्ण्य: जननो नेत्ररोगप्रकोपनः // छाया दाहश्रमस्वेदहरा मधुरशीतला / ज्योत्स्ना कषायमधुरा दाहासपित्तनाशिनी। तमो भयावहं तिक्तं दृष्टितेजोविरोधनम् ।"-राजव० 5 / 22 / "आतपः"त्रिदोषशमनी / ज्योत्स्ना सर्वव्याधिकरं तमः"-राजनिघ / उद्धृतोऽयम्-"आतपः कटुको रूक्षः छाया मधुरशीतला।" -प्रश०व्यो० पृ० 46 / स्या० र० पृ० 855 / "छाया मधुरशीतला"-सन्मति० टी० पृ० 672 / 1 छायादौ लोक आ० /