________________ 10. 668 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० तत्र तत्र अन्याऽन्या छायोपलभ्यते, न पुनः पूर्वदेशोपलब्धा अन्यत्र देशे, इति आवारकद्रव्यगतं कर्म तत्राध्यारोप्य प्रतिपत्ता 'छाया गच्छति' इति प्रतिपद्यते, यथा अश्वाधारूढः स्वगतं कर्म वृक्षेऽध्यारोप्य 'वृक्षः आगच्छति' इति / देशान्तरप्राप्ति श्वास्याः देशान्तरेण संयोगः, समवायो वा ? यदि संयोगः; अन्योन्याश्रयः-तद्रव्य5 त्वसिद्धौ हि संयोगसिद्धिः, तत्सिद्धौ च तद्रव्यत्वसिद्धिरिति / अथ समवायः; तदप्यनुपपन्नम् ; एकत्र समवेतस्य द्रव्यस्य अन्यत्र समवायाऽसंभवादिति / " अत्र प्रतिविधीयते। यत्तावदुक्तम्-'ज्ञानानुत्पत्तिव्यतिरेकेण नापरं तमः' इत्यादि। तदसमीक्षिताभिधानम् ; अंतीतिविरोधात् / सुप्रसिद्धा हि आलोकतमश्छाययोः पुद्गल * तमसोः स्वस्वरूपेण अन्योन्यविलक्षणयोः प्रतिप्राणि प्रत्यक्षतो विलद्रव्यत्वसिद्धिः क्षणा प्रतीतिः। न च विषयवैलक्षण्यव्यतिरेकेण प्रतीतेलक्षण्यं युक्तम् ; पुरुषाद्यद्वैतसिद्धिप्रसङ्गतो भेदवादोच्छेदप्रसक्तेः / तमनिच्छता प्रतीतिवैलक्षण्यं विषयवैलक्षण्यपूर्वकं प्रतिपत्तव्यम् / प्रयोगः-तत्प्रतीतिवैलक्षण्यं विषयवैलक्षण्यपूर्वकं तत्त्वात् घटपटादिप्रतीतिवैलक्षण्यवत् / भावाभावरूपविषयवैलक्षण्यपूर्वकत्वेन आलोकतमः प्रतीतेरिष्टत्वात् सिद्धसाध्यता; इत्यप्यविचारितरमणीयम् ; तमसो रूपादिमत्त्वेन आलो15 कवद् अभावरूपत्वानुपत्तेः। तद्रूपत्वे वा रूपादिमत्त्वविरोधात् / 'योऽभावो नासौ रूपादिमान् यथा घटाद्यभावः, आलोकाभावरूपतयेष्टश्च तम इति / न चास्य रूपादिमत्त्वमसिद्धम् ; आलोकवत् तत्रापि तत्सद्भावप्रतीतेः / यथैव हि आलोके भासुरं रूपम् वक्ष्यामः / यदा तु नियतदेशाधिकरणो भासामभावस्तदा तद्देशसमारोपिते नीलिम्नि छायेत्यवगमः। अत एव दीर्घा ह्रस्वा महती अल्पीयसी छायेत्यभिमानः तद्देशव्यापिनः नीलिम्नः प्रतीतेः।"-प्रश० कन्द०५० 9 / “तथाहि-यत्र यत्र वारकद्रव्येण तेजसः सन्त्रिधिनिषिध्यते तत्र तत्र छायेति व्यवहारः। वारकद्रव्यगताञ्च क्रियाम् आतपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति, अन्यथा वारकद्रव्यगतं क्रियापेक्षित्वं न स्यात् ।"-प्रश० व्यो० पृ० 47 / “यत्तु तेजःप्रतिरोधि द्रव्यं तद्यथा यथा सञ्चरति तथा तथाऽऽलोकः प्रतिमुच्यते प्रतिरुध्यते चेति चलतीव छाया प्रतिभाति, अन्यथा शरीरेऽपि चलति किमिति छायाऽपि चलेत हेत्वभावात् ।"-प्रक० पं० पृ० 144 / (1) तेजोऽभावे। (2) प्रतिपद्यते इति शेषः। (3) छायायाः। (4) “यच्चेदं देशान्तरप्राप्तिमत्त्वं तत्किं देशान्तरेण संयोगः; तस्यापि साध्यत्वात् / तथाहि-द्रव्यत्वसिद्धौ संयोग: सिद्धयति, संयोगात् द्रव्यत्वमिति इतरेतराश्रयत्वं स्यात् ।"-प्रश० व्यो०पू०४७। (5) “अथ देशान्तरप्राप्तिः समवायः; सोऽप्यसिद्धः / न ह्येकत्र समेवतः अन्यत्र समवैति / छाया त्वेकत्र सम्बद्धोपलब्धा पुनर्देशान्तरेप्युपलभ्यते। न च क्रियावत्त्वं देशान्तरसमवायात सिद्धयति तस्याप्ययुतसिद्धेष्वेव भावादिति ।"प्रश० व्यो० पृ० 47 / (6) पृ० 666 पं०१६। (7) तुलना-“अत एव नालोकज्ञानाभावः; अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात् ।"-सर्वद० पु० 230 / “न चाप्रतीतावेव प्रतीतिभ्रमः; तद्व्यवहारस्य तत्प्रतीतिमन्तरेणानुपपत्तेः ।"-चित्सु० पृ० 29 / (8) आलोकतमसोः प्रतिभासभेदः / (9) नैयायिकवैशेषिकादयः। (10) कृष्णरूपशीतस्पर्शचलनादिक्रियाशालित्वेन / (11) अभावरूपत्वे वा। (12) तमो न रूपादिमत् अभावरूपत्वात् / (13) तमस्यपि / 1-सोः स्वरू-आ० / 2 पुरुषाद्वैत-ब०। 3 भासुररूपं श्र० /