________________ प्रवचनप्र० का 0 56 ] तमोद्रव्यवादः चक्षुः आलोकनिरपेक्षं प्रकाशयति न द्रव्यान्तरम् / ननु तमसो [s]द्रव्यान्तरत्वे छायायाश्छत्रादेरर्थान्तरभूतायाः प्रतीतिर्न स्यात् / अस्ति चास्याः तथाभूतायाः प्रतीतिः ततो बीजादकुरवत् ततोऽसौ द्रव्यान्तरं सिद्धा। तथाभूता चासौं सिद्ध्यन्ती तमसो द्रव्यान्तरत्वं साधयतीति; तदसमीचीनम् ; ऑलोकाभावरूपतया अस्या द्रव्यान्तरत्वासंभवेऽपि विभ्रमवशात् तत्र तत्प्रतीतेरुपपत्तेः / तथाहि -येन येन प्रदेशान्तरेण 5 छत्राद्यावारकद्रव्यप्रतिबद्धं तेजो न संयुज्यते तत्र तत्र छाया प्रतीयते, प्रतिबन्धकस्य आतपत्रादेरपाये तु स्वरूपेण आलोकः प्रतीयते, इत्यालोकाभाव एव छायाँ / द्रव्यान्तरत्वे तु तस्यास्तदैपायेऽपि आलोकेन सहावस्थितायाः प्रतीतिः स्यात् / न हि जातु किञ्चिद्रव्यं द्रव्यान्तरेण सहानवस्थायि प्रतीतम् / एतेन 'छाया द्रव्यान्तरं देशादेशान्तरप्राप्तिमत्त्वेन क्रियावत्त्वात्' इत्येतत् प्रत्या- 10 ख्यातम् ; तथाहि-यंत्र यत्र आतपत्राद्यावारकद्रव्येण तेजसः सन्निकर्षः प्रतिषिध्यते (1) त्रुटितायां पू० प्रती 'तमसोऽद्रव्या-' अयमेव पाठो भाति / (2) छायायाः। (3) छत्राद् भिन्नायाः / (4) छत्रात् / (5) छाया। (6) छाया। (7) "यच्चेदमुच्यते छायैव तमः सा चलत्वाचलत्वमहत्त्वामहत्त्वदूरत्वासन्नत्वादिगुणयोगिनी वस्तुभूतेति; तदिदमप्यसारम् ; अनवक्लृप्तेरेव / यच्चलाचलत्वादिकमुपन्यस्तं तदपि स्थूलदर्शितया। तथाहि-आलोकेऽपवारिते छायाप्यपेयते / ततोऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपावन्तरवच्छाया दृश्यते / तेन मन्यामहे व्यपवारितालोकभूभागादिकमेव छायेति ।"-प्रक० पं० पृ०१४४। “अपवारितालोकं केवलं भूभागादिकमेव छाया।"-तन्त्ररह० प० 21 / 'आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः।"-सर्वद०१० 229 / (8) छायायाम् / (9) छत्रादर्थान्तरत्वप्रतीतेः / (10) "द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।"-वैशे० सू० 5 / 2 / 19 / "उद्भूतरूपवद्यावत्तेजःसंसर्गाभावस्तमः ।"-वैशे० उप० 5 / 2 / 20 / (11) छत्राद्यपायेऽपि। (12) "तेजसो द्रव्यान्तरेणावरणाच्च ।"-वैशे० सू० 5 / 2 / 20 / “द्रव्यं छाया गतिमत्त्वादिति हेतुः साध्येनाविशिष्ट: "साध्यं तावदेतत-किं पुरुषवच्छायापि गच्छति, आहोस्वित् आवारकदव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानोऽयं तेजसो गृह्यते इति ? सर्पता खलु द्रव्येण यस्तेजोभाग आवियते तस्य तस्यासन्निधिरेवावच्छिन्नो गह्यते इति ।"-न्यायभा० श२८ / “आवारके द्रव्ये प्रसर्पति तेजसोऽसन्निधिविशिष्टं द्रव्यं यदुपलभ्यते तत्तु छायेत्युच्यते ।"-न्यायवा० 1228 / “भासामभावरूपत्वाच्छायायाः।"प्रश० व्यो० पू० 46 / “न तावच्छाया सामान्यविशेषसमवायान्तर्भूता अनित्यत्वात्तस्याः / नापि कर्म; संयोगविभागासमवायिकारणत्वाभावात् / न गुणो द्रव्यासमवायात् / न मनोदिक्कालगुणः; तद्गुणानामप्रत्यक्षत्वात् / नाप्यात्मगुणः, बाह्येन्द्रियप्रत्यक्षत्वात् / नापि नभोनभस्वतोः; तद्गुणानामचाक्षुषत्वात् / नापि तेजसः; तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च / अत एव न पृथिवीपाथसोरपि। अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रहः, छाया तु तमन्तरेण गृह्यते तस्मिंस्तु सति न गृह्यत इति दुर्घटम् / नापि द्रव्यम् ; तद्धि पृथिव्यादीनामन्यतममेव भवेदन्यद्वा दशमम् / न तावदन्यतमम् ; तद् गुणानामनुपलब्धेः / नाप्यन्यद्रूपवदिति युज्यते / तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्तेः, अस्पर्शवत्त्वादनारम्भकत्वेनानेकद्रव्यत्वाभावात् / तस्मादभाव एव छाया न तु सतीति सिद्धम् ।"-न्यायवा० ता० पृ० 345 / प्रश० किर० पृ०१९ / श्रीधरस्तु आरोपितरूपविशेषात्मकं तमः स्वीकरोति / "तस्माद्रूपविशेषोऽयमत्यन्तं तेजोऽभावे सति सर्वतः समारोपितस्तमः इति प्रतीयते / दिवा चोर्ध्व नयनगोलकस्य नीलिमावभास इति 1 ति तदद्रव्या-श्र०। 2 हि येन प्रवे-ब० / 3 प्रतिषेध्यते आ० /