________________ प्रवचनप्र० का 0 56 ] आलोककारणताविचारः मन इन्द्रियेण, इन्द्रियमर्थन' न्यायमं० पृ०७४] इति तत्राह-'आत्मन' (त्ममन) इत्यादि / आत्मनो मनसा मनस इन्द्रियैः इन्द्रियाणामर्थेन। कथम्भूतानाम् ? अतीन्द्रियाणाम् इन्द्रियातिक्रान्तानां यः सन्निकर्षः स दुरवबोधः ज्ञातुमशक्यः / अतः कथं केन प्रकारेण तैस्य सन्निकर्षस्य विज्ञानोत्पत्तौ अङ्गीकरणम् ? इति एवं चिन्त्यम् / यत्कुतश्चिज्ज्ञातुन्न शक्यते न तत् ज्ञानोत्पत्तौ कारणत्वेन प्रेक्षावता अङ्गीकर्त्तव्यम् यथा खर- 5 विषाणम् , कुतश्चिदपि प्रमाणात् ज्ञातुन्न शक्यते च सन्निकर्षादिरिति / यथा चासौ कुतश्चिदपि प्रमाणात् ज्ञातुमशक्यः तथा प्रत्यक्षपरिच्छेदे प्रपञ्चतः प्रतिपादितम् / भवत्कल्पितश्च आत्मा मन इन्द्रियमर्थश्च निरंशादिरूपो यथा नोपपद्यते तथा विषयपरिच्छेदे सप्रपञ्चं प्रपञ्चितम् / अतः कस्य केन सन्निकर्षः स्यात् ? एवम् ‘संशयादिविदुत्पादः' इत्यादिना अर्थव्यतिरेके ज्ञानव्यतिरेकाभावं 10 प्रतिपाद्य साम्प्रतम् अर्थान्वयग्रहणाभावं दर्शयितुमाह-'प्राग्' इत्यादि। प्राक् पूर्वं विज्ञानोत्पत्तेः अर्थमनवबुद्ध्यमाना नैयायिकादयः कारणमकारणमेव वार्थं विज्ञानोत्पत्तेः कथम् न कथञ्चिद् ब्रूयुः / एतदुक्तं भवति-यथा अग्निदर्शनानन्तरं धूमदर्शनं तथा यदि अर्थदर्शनानन्तरं ज्ञानदर्शनं स्यात् तदा स्यादर्थकार्य तत्, न चैवमस्ति / ननु तदुत्पत्तेः पूर्वं ग्राहकाभावान्न तत्रै कारणाकारणविभागप्रतिपत्तिः तदुत्पत्तौ तु भविष्यति ; इत्यत्राह-'उत्पन्नम्' 15 इत्यादि / उत्पन्नं लब्धात्मलाभं हि स्फुटं विज्ञानम् अर्थस्य परिच्छेदकं न तत्कारणतायाः। अधुना आलोकस्य ज्ञानकारणतां निराकुर्वन्नाह–'आलोकोऽपि' इत्यादि। न केव''लम् अर्थादिः, किन्तु आलोकोऽपि न कारणम् विज्ञानोत्पत्तः' इति सम्बन्धः। कुत एतदित्याह-परिच्छेद्यत्वात् / प्राक् प्रसाधितं दृष्टान्तमाह-'अर्थवत्' इति। अर्थ इव अर्थवत् / ननु यद्यालोकः तदुत्पत्तेः कारणं न स्यात्तर्हि तदभावेऽपि रूपज्ञानोत्पत्तिः 20 कुतो न स्यादित्याशङ्क्याह तमो निरोधि वीक्षन्ते तमसा नावृतं परम् / कुड्यादिकं न कुड्यादितिरोहितमिवेक्षकाः // 56 // (1) सन्निकर्षादि न ज्ञानोत्पत्तिकारणं कुतश्चिदपि प्रमाणाज्ज्ञातुमशक्यत्वात्। (2) पृ० 20 / (3) नैयायिककल्पितः / (4) ज्ञानम् / (5) अर्थे / (6) ग्राहकभूतज्ञानस्योत्पत्तौ / (7) आलोकका. रणतावादी बौद्धः, तथा च तद्ग्रन्थ:-“यथा इन्द्रियालोकमनस्काराः आत्मेन्द्रियमनस्कारा वा रूपज्ञानमेकं जनयन्ति"-प्रमाणवा० स्वव० 1175 / (8) आलोकाभावेऽपि / (9) "वीक्षन्ते विशेषेण नीलादिरूपतया पश्यन्ति / के ? ईक्षका चक्षुष्मन्तो जनाः / किम् ? तमोऽन्धकारं पुद्गलपर्यायम् / किंविशिष्टम् ? निरोधि प्रमेयान्तरतिरोधायकम / पूनर्न वीक्षन्ते। किम् ? परं घटादिकम् / कथम्भूतम् ? वृतम् आच्छादितम् / केन ? तमसा / ततः कथमालोको ज्ञानकारणं तदभावेऽपि तदुत्पत्तरिति / अस्मिन्नर्थे 'दृष्टान्तमाह-इव यथा कुड्यादिकमीक्षन्ते ईक्षकाः कुड्यादितिरोहितं पुनर्घटादिकं नेक्षन्ते तथा तमो वीक्षन्ते तदावृतं तु परं नेक्षन्ते इति ।"-लघी० ता० पृ० 77 / उद्धृतोऽयम्-सिद्धिवि० टी० 10 187 B. / 'तमोनिरोधे घटादिकं।"-सन्मति० टी०१० 544 / ___1 एतस्य ब०। 2 यः कुत-ब०।-चिदुत्पा-श्र०, ब०। 4 प्राक्साधि-आ०1 5 वीक्ष्यन्ते आ० / 34